63061: इको ह्रस्वोऽङ्यो गालवस्य =============================== **Padacheda:** इकः | S | 6 | 1 | ह्रस्वः | S | 1 | 1 | अङ्यः | S | 6 | 1 | गालवस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- According to the opinion of गालव a short vowel is substituted in a compound before the second member for the long इक् vowels (ई , ऊ , ॠ) unless it is the long vowel of the feminine affix ई (ङी). Vasu English Translation ------------------------ According to the opinion of गालव a short vowel is substituted in a compound before the second member for the long इक् vowels (ई , ऊ , ॠ) unless it is the long vowel of the feminine affix ई (ङी). In other words, for ई, when it is not the Feminine affix ई (ङी) and for ऊ, a short इ and उ are substituted in a compound before the second member. Thus ग्रामणिपुत्रः or ग्रामणीपुत्रः, ब्रह्मबन्धुपुत्रः or ब्रह्मबन्धूपुत्रः ॥ Why do we say इक् vowels? Observe खट्वापादः, मालापादः ॥ Why do we say 'not the long ई of the Feminine affix ङी'? Observe गार्गीपुत्रः, वात्सीपुत्रः ॥ The name of *Galava* is mentioned *pujartha* for the *anuvritti* of 'optionally' was present in this *sutra*. It is a limited option *pujartha*, (*vyavasthita* *vibhasha*), and does not apply to कारीषगन्धीपति &c which are governed by (6.3.139). Vart:- It does not apply to *Avyayibhava* compounds, nor to those words which take इयङ् or उवङ् augment in their declension, as श्रीकुलम्, भ्रूकुलम्, काण्डीभूतम्, कुडपीभूतं, वृषलीभूतम् ॥ Vart:- It does however apply to भ्रुकुंस &c, as भ्रुकुंसः, भ्रुकुटिः ॥ Others say अ is substituted for भ्र &c as भ्रकुंसः and भ्रकुटिः ॥ Bhashya ------- इको ह्रस्वोऽङ्यो गालवस्य (2920) (ह्रस्वाधिकरणम्) (6458 उपसंख्यानवार्तिकम् ॥ 1 ॥) - इको ह्रस्वत्वमुत्तरपदमात्रे - इको ह्रस्वत्वमुत्तरपदमात्रे वक्तव्यम् । इहापि यथा स्यात् - अलाबुकर्कन्धुदृन्भुफलम् - इति । किं पुनः कारणं न सिध्यति ? (6459 उपसंख्यानफलबोधकवार्तिकम् ॥ 2 ॥) - सर्वान्ते लोकविज्ञानम् - लोकविज्ञानाद्धि यदेतत् सर्वान्त्यं पदं तस्मिन् पूर्वपदस्य ह्रस्वत्वं स्यात् ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) अथवा एवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च - अलाबुकर्कन्ध्वौ, अलाबुकर्कन्ध्वौ च दृन्भूश्च - अलाबुकर्कन्धुदृन्भ्वः, अलाबुकर्कन्धुदृन्भूनां फलं - अलाबुकर्कन्धुदृन्भुफलम् - इति । यद्येवं दृन्भ्वाः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते ॥ (उपसंख्यानानर्थक्ये प्रकारान्तरबोधकभाष्यम्) अथवा एवं विग्रहः करिष्यते - दृन्भ्वाः फलं - दृन्भुफलं, कर्कन्धूश्च दृन्भुफलं च - कर्कन्धुदृन्भुफलम्, अलाबूश्च कर्कन्धुदृन्भुफलं च - अलाबुकर्कन्धुदृन्भुफलमिति । एवमपि फलेनाकृतोऽभिसंबन्धो भवति । नैष दोषः । प्रत्येकं फलशब्दः परिसमाप्यते ॥ (6460 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 3 ॥) ?B- इयङुवङव्ययप्रतिषेधः - इयङुवङ्भाविनामव्ययानां च प्रतिषेधो वक्तव्यः । श्रीकुलम्, भूकुलम् । काण्डीभूतम्, कुड्यीभूतम् - वृषलकुलम् ॥ (पर्युदासभाष्यम्) अभ्रूकुंसादीनामिति वक्तव्यम् । भ्ररुकुंसः,भ्ररुकुंसः। भ्ररुकुटिः, भ्ररुकुटिः। अपर आह - अकारो भ्रूकुंसादीनामिति वक्तव्यम् । भ्रकुंसः । भ्रकुटिः ॥ Kashika ------- इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतरस्याम्। ग्रामणिपुत्रः, ग्रामणीपुत्रः। ब्रह्मबन्धुपुत्रः,ब्रह्मबन्धूपुत्रः। इक इति किम्? खट्वापादः। मालापादः। अङ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पूजार्थम्। अन्यतरस्यामिति हि वर्तते। व्यवस्थितविभाषा चेयम्। तेनेह न भवति — कारीषगन्धीपुत्र इति। इयङुवङ्भाविनामव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्डीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह॥ भ्रुकुंसादीनामकारो भवतीति वक्तव्यम्॥ भ्रकुंसः। भ्रकुटिः॥ Siddhanta Kaumudi ----------------- इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः । (वार्तिकम्) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः । (वार्तिकम्) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥ Balamanorama ------------ **इको ह्रस्वोऽङ्यो गालवस्य** - इको ह्रस्वो । अङ्य इति च्छेदः । ग्रामणीपत्र इति । कर्मधारयः, षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह — अन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्र्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्विप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । 'च्वौ' इति दीर्घः । ऊर्यादिच्विडाचश्चे॑ति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ।अ भ्रूकुंसादीना॑मिति वार्तिके 'अ' इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः ।भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः॑ इत्यमरः,भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि॑ति च । Padamanjari ----------- ग्रामणिपुत्र इति । सत्सूद्विष इत्यादिना क्विप्, अग्रग्रमाभ्यान्नयतेः इति णत्वम् । गार्गीपुत्र इति । गार्ग्यशब्दाद् यञश्चेति ङीप् यस्येति च, हलस्तद्धितस्य । कारीषगन्धीपुत्र इति । ष्यङः संप्रसारणम् संप्रसारथणस्यः इति दीर्घः । काण्डीभूतमिति । ऊर्यादिज्विडाश्चेति निपातसंज्ञायामव्ययत्वम् । स्त्रीवेषधारी नर्तकः पुस्षः भ्रुकुअंसः । इहालाबुकर्कन्धुजम्बुफलमिति फलशब्द उतरपदे जम्ब्वा ह्रस्वत्वम्, द्वन्द्वे जम्ब्वामुतरपदे कर्कन्ध्वा ह्रस्वत्वम्, अलाब्वास्तु न प्राप्नोति, कर्कन्ध्व अनुतरपदत्वात् एवं तर्ह्येवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च अलाबुकर्कन्धवौ, ते च जम्बूश्च अलाबुकर्कन्धुजम्ब्वः, तासां फलमलाबुकर्कन्धुजम्बुफलमिति, एवमपि जम्ब्वाः पूर्वनिपातः प्राप्नोति । एवं कर्कन्धुजम्ब्वोरपि द्वन्द्वे द्रष्टव्यम् । जम्बुशब्दो जम्बुशब्दो राजदन्तादिषु द्रष्टव्यः ॥ Nyaas ----- `ग्रामणिपुत्रः` इति। ग्रामं नयतीती `सत्यूद्विष` (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च नयतेः` (कात्या।वा।5064) इति णत्वम्। `गार्गीपुत्रः` इति। `यञश्च` (4.1.16) इति गाग्र्यशब्दान्ङीप्, **यस्येति च** (6.4.148) इत्यकारस्य लोपः, **हलस्तद्धितस्य** (6.4.150) इति यकारस्य च। अथ दिकल्पार्थमेव गालवग्रहणं कस्मान्न भवति? इत्याह -`अन्यतरस्याम्` इत्यादि। `कारीषगन्धीपुत्रः` इति। करीषगन्ध्यायायः पुत्र इति षष्ठीसमासः `ष्यङः सम्प्रसारणम्` (6.1.13) इत्यादिना सम्प्रसारणम्, **सम्प्रसारणाच्च** (6.1.108) इति परपूरवत्वम्, `हलः` (6.4.2) (इति) सम्प्रसारणस्य दीर्घः। `इयङुवङ्भाविनाम्` इत्यादि। इयङुवङौ भाविनौ येषां ते तथोच्यन्ते। `श्रीकुलम्` इति। इयङ्भाविन उदाहरणम्। `भ्रूकुलम्` इति। उवङ्भाविनश्च। `कण्डीभूतम्, वृषलीभूतम्` इति। अवप्ययानाम्। काण्डवृषलशब्दाभ्यां `अभूततद्भावे` (5.4.50) इत्यादिना च्विः, **अस्य च्वौ** (7.4.32) इतीत्वम्। `भ्रूकुंसः` इति। भ्रूश्चासौ कुंसश्चेति विशेषणसमासः। एवं `भ्रुकुटिः` इत्यत्रापि। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वाद्भ्रुकुंसादीनामकारो भविष्यतीति॥ Prakriyasarvasvam ----------------- अङ्यन्तस्येक उत्तरपदे परे ह्रस्वो वा स्यात् । ग्रामणिपुत्रः । ग्रामणीपुत्रः । वधुजनः । वधूजनः । ङ्यन्तस्य तु गोपीपुत्रः । इयङुवङ्भाविनामव्ययानां च न । श्रीपुत्रः । भ्रूभङ्गः । शुक्लीभावः । च्व्यन्तत्वादव्ययत्वम् । भ्रूकुंसादेस्तु वा ह्रस्वः । भ्रुकुंसः भ्रूकुंसः । भ्रुकुटिः भ्रूकुटिः । एषामत्वं वाच्यमिति केचित् । भ्रकुंसः भ्रकुटिः ॥ Vartika ------- इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् । Sutra Prayogas -------------- * **परिणतजम्बुफलोपभोगहृष्टा** (किरातार्जुनीयम्): `इको ह्रस्वोऽङ्यो गालवस्य` इति ह्रस्वः। * **आबद्ध-भीम-भ्रुकुटी-विभङ्गः** (भट्टिकाव्यम्): `इको ह्रस्वोऽङयो गालवस्य` इति ह्रस्वः।