63056: वा घोषमिश्रशब्देषु

Padacheda: वा | S | 0 | 0 |

घोष-मिश्र-शब्देषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

पद् is optionally substituted for पाद before 1. घोष 2. मिश्र and 3. शब्द।

Vasu English Translation

पद् is optionally substituted for पाद before 1. घोष 2. मिश्र and 3. शब्द। Thus पद्घोषः or पादघोषः, पन्मिश्रः or पादमिश्रः, पच्छब्दः or पादशब्दः ॥

Vart:- So also before निष्कः as पन्निष्कः or पादनिष्कः ॥

Bhashya

वा घोषमिश्रशब्देषु (2915) (6456 उपसंख्यानवार्तिकम् ॥ 1 ॥) - निष्के चोपसंख्यानम् - निष्के चोपसंख्यानं कर्तव्यम् । पन्निष्केण । पादनिष्केण ॥

Kashika

घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः॥ निष्के चेति वक्त व्यम्॥ पन्निष्कः, पादनिष्कः॥

Siddhanta Kaumudi

पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ ।<!निष्के चेति वाच्यम् !> (वार्तिकम्) ॥ पन्निष्कः । पादनिष्कः ॥

Balamanorama

वा घोषमिश्रशब्देषु - वा घोष । शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति । निष्के चेति ।पादस्य प॑दिति शेषः ।

Tattvabodhini

वा घोषमिश्रशब्देषु - पच्छब्द इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति शस् ।

Padamanjari

पन्निष्क इति । निष्कशब्दः सुवर्णजातिवचनः, पादशब्दः परिमाणवचनः, कर्मधारयः समासः ॥

Nyaas

घोषशब्दशबदशब्दाब्यां [घोषशब्दशब्दाभ्यां -मुद्रितः पाठः] षष्ठीसमासः, मिश्रशब्दे च **पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः** (2.1.31) इत्यादिना तृतीयासमासः। `निष्के चेति वकतव्यम् इति। निष्कशब्दे चोत्तरपदे पादशब्दस्य पदित्ययमादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -हिमकाषिहतिषु च (6.3.54) इत्यतश्चकारोऽत्रानुवर्तते, स चानुक्तसमुच्चयार्थः। अथ वा -सूत्रे वा इति योग विभागः क्रियते तेन निष्के चोत्तरपदे भविष्यतीति॥

Prakriyasarvasvam

पद्घोषः पादघोषः इत्यादि । निष्के च वाच्यम् । चतुरंशितो निष्कः षन्निष्कः । पादनिष्कः ॥

Vartika

निष्के चेति वक्तव्यम् ।