63053: पद् यत्यतदर्थे¶
Padacheda: पद् | S | 1 | 1 |
यति | S | 7 | 1 |
अतदर्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
पद् is substituted for पाद before the affix यत् used in any sense other than that of ‘suited there to’.
Vasu English Translation¶
पद् is substituted for पाद before the affix यत् used in any sense other than that of ‘suited there to’. Thus पादौविध्यन्ति = पद्याः शर्कराः, पद्याः कण्टकाः ॥ When यत् has the force of “suited there to” we have पाद्यम् = पादार्थमुदकं ॥ (see (4.4.83) and (5.4.25).
Vart:- Before the affix इक्, in the sense of ‘the walks there by’, पद is substituted for पाद; as पादाभ्यां चरति = पदिकः (4.4.10) by ष्ठन् affix. The word पाद in this sutra means ‘the actual foot’, a part of animal organism. Therefore पद् is not substituted before the यत् of (5.1.34), as द्विपाद्यम्, त्रिपाद्यम् because पाद here denotes, ‘a measure’.
Bhashya¶
पद्यत्यतदर्थे (2912) (6455 उपसंख्यानवार्तिकम् ॥ 1 ॥) - पद्भावे इके चरतावुपसंख्यानम् - पद्भावे इके चरतावुपसंख्यानं कर्तव्यम् । पादेन चरति - पदिकः ॥
Kashika¶
यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्॥ पद्भाव इके चरतावुपसंख्यानम्॥ पादाभ्यां चरति पदिकः। पर्पादिभ्यः ष्ठन्**(४.४.१०) इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह इष्यते। तेन **पणपादमाषशताद् यत् (५.१.३४) इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्॥
Siddhanta Kaumudi¶
पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च (SK1093) इति यत् ।<!इके चरतावुपसंख्यानम् !> (वार्तिकम्) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥
Balamanorama¶
पद् यत्यतदर्थे - पद्यत्य । पद — यति — अतदर्थे इति च्छेदः । पद्या इति । विध्यत्यधनुषेति यत्प्रत्ययः । पाद्यमिति ।पादार्घाभ्यां चे॑ति तादर्थ्ये यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः ।
Tattvabodhini¶
पद् यत्यतदर्थे - पद्याइति ।विध्यत्यधनुषे॑ति यत् । पाद्यमिति ।पादार्घाभ्यां चे॑ति यत् । पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्रते, न परिमाणवचनः । तेनद्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, त्रिपाद्य॑मित्यत्रपणपादमाषे॑ति यति पदादेशो न भवति । एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम् ।
Padamanjari¶
इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्तिकादर्शनात्पर्पादिषु पादः पच्चेति पठितम् । शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवत इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो एविहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ॥
Nyaas¶
पद्याः इति। विध्यत्यधनुषा (4.4.83) इति यत्। पाद्यम् इति। पादशब्दात्? तादर्थ्ये यत् (5.4.24) इत्यनुवर्तमाने पादार्घाभ्याञ्च (5.4.25) इति यत्। पद्भावे इत्यादि। पद्भावे कर्तव्येऽस्मश्चरत्यर्थे य इक्? तस्मिन्? कृते पद्भावस्योपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - पदिति योगविबागात्? सिद्धमिति। पर्पादिष्वेव पादः पच्च् (4.4.10) इति पाठात्? सिद्धमिति वा। शरीरावयवस्य [शरीरावयववचनस्य - काशिका] इत्यादि। कुतः पुनरेतल्लभ्यते? केचिदाहुः - पूर्वसूत्रे सामर्थ्याच्छरीरावयवसय पादशब्दस्य ग्रहणम्। तत्राज्यातिप्रभृतीनि त्रीण्युत्तरपदानि गमनार्थानि, चतुर्थं तु हननार्थम्। तेषु गमनाधिषु प्राण्यङ्गस्यैव पादशब्दस्य करणभावः सम्भवति, नैतरस्य। तस्मात्? तत्र प्राण्यह्गवाचिनः पादशब्दस्य ग्रहणम्, इहपि तदेवानुवर्तत इति युक्तम् - शरीरावयवस्य ग्रहणमिति। यद्येवम्, तदा `ऋचः शे (6.3.55) इत्यत्रापि शरीरावयवस्य ग्रहणं स्यात्? नैष दोषः; ऋक्सम्बन्धिन शरारावयववचनस्यासम्भवात्। चतुर्थभागवचनः पादशब्दोऽत्रि ग्रहिष्यते। तेन इत्यादि। यत एवं शरारावयववचनपादशब्दस्येह ग्रहणम्, तेन पणपादमाष (5.1.34) इत्यादो सूत्रे यः पादशब्दस्तस्य न पदादेशो भवति; न ह्रसौ शरीरावयववचनः, कि तर्हि? परिमाणवचनः। कुत एतत्? पणादिभिः परिमाणवचनैः साहचर्यात्। द्विपाद्यम्, त्रिपाद्यम् इति। तेन क्रीतम् (5.1.37) इत्यर्थे यत्प्रत्ययः॥
Prakriyasarvasvam¶
तादर्थ्यादन्यत्र यति परे पादस्य पत् स्यात् । पादे भवं पद्यम् । तादर्थ्ये पदार्थं जलं पाद्यमिति वक्ष्यते ॥
Vartika¶
इके चरतावुपसंख्यानम् ।