63053: पद् यत्यतदर्थे ===================== **Padacheda:** पद् | S | 1 | 1 | यति | S | 7 | 1 | अतदर्थे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- पद् is substituted for पाद before the affix यत् used in any sense other than that of 'suited there to'. Vasu English Translation ------------------------ पद् is substituted for पाद before the affix यत् used in any sense other than that of 'suited there to'. Thus पादौविध्यन्ति = पद्याः शर्कराः, पद्याः कण्टकाः ॥ When यत् has the force of "suited there to" we have पाद्यम् = पादार्थमुदकं ॥ (see (4.4.83) and (5.4.25). Vart:- Before the affix इक्, in the sense of 'the walks there by', पद is substituted for पाद; as पादाभ्यां चरति = पदिकः (4.4.10) by ष्ठन् affix. The word पाद in this *sutra* means 'the actual foot', a part of animal organism. Therefore पद् is not substituted before the यत् of (5.1.34), as द्विपाद्यम्, त्रिपाद्यम् because पाद here denotes, 'a measure'. Bhashya ------- पद्यत्यतदर्थे (2912) (6455 उपसंख्यानवार्तिकम् ॥ 1 ॥) - पद्भावे इके चरतावुपसंख्यानम् - पद्भावे इके चरतावुपसंख्यानं कर्तव्यम् । पादेन चरति - पदिकः ॥ Kashika ------- यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्॥ पद्भाव इके चरतावुपसंख्यानम्॥ पादाभ्यां चरति पदिकः। **पर्पादिभ्यः ष्ठन्**(४.४.१०) इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह इष्यते। तेन **पणपादमाषशताद् यत्** (५.१.३४) इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्॥ Siddhanta Kaumudi ----------------- पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च (SK1093) इति यत् । (वार्तिकम्) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥ Balamanorama ------------ **पद् यत्यतदर्थे** - पद्यत्य । पद — यति — अतदर्थे इति च्छेदः । पद्या इति । विध्यत्यधनुषेति यत्प्रत्ययः । पाद्यमिति ।पादार्घाभ्यां चे॑ति तादर्थ्ये यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः । Tattvabodhini ------------- **पद् यत्यतदर्थे** - पद्याइति ।विध्यत्यधनुषे॑ति यत् । पाद्यमिति ।पादार्घाभ्यां चे॑ति यत् । पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्रते, न परिमाणवचनः । तेनद्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, त्रिपाद्य॑मित्यत्रपणपादमाषे॑ति यति पदादेशो न भवति । एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम् । Padamanjari ----------- इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्तिकादर्शनात्पर्पादिषु पादः पच्चेति पठितम् । शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवत इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो एविहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ॥ Nyaas ----- `पद्याः` इति। **विध्यत्यधनुषा** (4.4.83) इति यत्। `पाद्यम्` इति। पादशब्दात्? `तादर्थ्ये यत्` (5.4.24) इत्यनुवर्तमाने `पादार्घाभ्याञ्च` (5.4.25) इति यत्। `पद्भावे` इत्यादि। पद्भावे कर्तव्येऽस्मश्चरत्यर्थे य इक्? तस्मिन्? कृते पद्भावस्योपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - पदिति योगविबागात्? सिद्धमिति। पर्पादिष्वेव `पादः पच्च्` (4.4.10) इति पाठात्? सिद्धमिति वा। `शरीरावयवस्य` [`शरीरावयववचनस्य - काशिका] इत्यादि। कुतः पुनरेतल्लभ्यते? केचिदाहुः - पूर्वसूत्रे सामर्थ्याच्छरीरावयवसय पादशब्दस्य ग्रहणम्। तत्राज्यातिप्रभृतीनि त्रीण्युत्तरपदानि गमनार्थानि, चतुर्थं तु हननार्थम्। तेषु गमनाधिषु प्राण्यङ्गस्यैव पादशब्दस्य करणभावः सम्भवति, नैतरस्य। तस्मात्? तत्र प्राण्यह्गवाचिनः पादशब्दस्य ग्रहणम्, इहपि तदेवानुवर्तत इति युक्तम् - शरीरावयवस्य ग्रहणमिति। यद्येवम्, तदा `ऋचः शे` (6.3.55) इत्यत्रापि शरीरावयवस्य ग्रहणं स्यात्? नैष दोषः; ऋक्सम्बन्धिन शरारावयववचनस्यासम्भवात्। चतुर्थभागवचनः पादशब्दोऽत्रि ग्रहिष्यते। `तेन` इत्यादि। यत एवं शरारावयववचनपादशब्दस्येह ग्रहणम्, तेन `पणपादमाष` (5.1.34) इत्यादो सूत्रे यः पादशब्दस्तस्य न पदादेशो भवति; न ह्रसौ शरीरावयववचनः, कि तर्हि? परिमाणवचनः। कुत एतत्? पणादिभिः परिमाणवचनैः साहचर्यात्। `द्विपाद्यम्, त्रिपाद्यम्` इति। **तेन क्रीतम्** (5.1.37) इत्यर्थे यत्प्रत्ययः॥ Prakriyasarvasvam ----------------- तादर्थ्यादन्यत्र यति परे पादस्य पत् स्यात् । पादे भवं पद्यम् । तादर्थ्ये पदार्थं जलं पाद्यमिति वक्ष्यते ॥ Vartika ------- इके चरतावुपसंख्यानम् ।