63054: हिमकाषिहतिषु च¶
Padacheda: हिम-काषि-हतिषु | S | 7 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
पद् is substituted for पाद before 1. हिम 2. काषिन् and 3. हति।
Vasu English Translation¶
पद् is substituted for पाद before 1. हिम 2. काषिन् and 3. हति। Thus पद्धिमम्, (= पादस्य शीतं) पत्काषिन् (= पादचारिणः) as in अथ पत्काषिणा यान्ति, and पद्धतिः (पदाभ्यां हन्यते)॥
Kashika¶
हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति। हिम — पद्धिमम्। काषिन् — अथ पत्काषिणो यान्ति। हति — पद्धतिः॥
Siddhanta Kaumudi¶
पद्धिमम् । पत्काषी । पद्धतिः ॥
Balamanorama¶
हिमकाषिहतिषु च - हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । ‘सुप्यजातौ’ इति णिनिः । पद्धतिरिति । हन्यते इति हतिः । कर्मणि क्तिन् । पादाभ्यां हतिरिति विग्रहः ।कर्तृकरणे कृते॑ति समासः ।
Tattvabodhini¶
हिमकाषिहतिषु च - पत्काषीति ।सुप्यजाता॑विति णिनिः । पद्धितिरिति । कर्मणि क्तिन् ।
Padamanjari¶
पादस्य हिमं शीतं पद्धिमम् । पादौ कषन्तीति पत्काषिणः - पादचारिणः । सुप्यजातौ इति णिनिः । पादाभ्यां हन्यत इति पद्धतिः ॥
Nyaas¶
पद्धिमम् इति। षष्ठीसमासः। पत्काषिणः इति। सुप्यजातौ णिनिस्ताच्छील्ये (3.2.78) इति णिनिः, उपपदसमासः। पद्धतिः इति। पादाभ्यां हन्यत इति पद्धतिः। क्तिन्नन्तेन हतिशब्देन कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः॥
Prakriyasarvasvam¶
एषु पादस्य पद्भावः स्यात् । पादे हिमं पद्हिमम् । पत्कापी । पादचारी । पादेन हन्यमाना पद्धतिः । चकारात् पद्गोऽपि ॥
Sutra Prayogas¶
पद्गा (भट्टिकाव्यम्): हिमकापिहतिपु च इति चकारस्य अनुक्तसमुच्चयार्थत्वात् गमोत्तरपदे पदादेशः।
पत्काषी (भट्टिकाव्यम्): हिमकापिहतिषु च इति पादस्य पदादेशः।