63051: वा शोकष्यञ्रोगेषु ======================== **Padacheda:** वा | S | 0 | 0 | शोक-ष्यञ्-रोगेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- हृद् is optionally substituted for हृदय before the words शोक and रोग or the affix ष्यङ् follow. Vasu English Translation ------------------------ हृद् is optionally substituted for हृदय before the words शोक and रोग or the affix ष्यङ् follow. Thus हृच्छोकः or हृदयशोकः, सौहार्द्यम् or सौहृदय्यम् ॥ Here ष्यङ् is added as हृदय belongs to *Brahmanadi* class (V. I.I24). When हृद् is substituted there is *Vriddhi* of both the members सु and हृ by (7.3.19). So also हृद्रोगः or हृदयरोगः ॥ All these forms could have been got from हृत् which is a full word sui generis, having the same meaning as हृदय ॥ The substitution taught in this *sutra* is rather unnecessary. Kashika ------- शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् — सौहार्द्यम्, सौहृदय्यम्। ब्राह्मणादित्वात् (५.१.१२४) ष्यञ्। हृदादेशपक्षे **हृद्भगसिन्ध्वन्ते पूर्वपदस्य च** (७.३.१९) इत्युभयपदवृद्धिः। रोगे — हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम्॥ Siddhanta Kaumudi ----------------- ह्रच्छोकः । हृदशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥ Balamanorama ------------ **वा शोकष्यञ्रोगेषु** - वा शोक । सौहाद्र्यमिति । ब्राआहृणादित्वाद्भावे ष्यञिह्मद्भगसिन्द्वन्ते॑ इत्युभयपदवृद्धिः । सौह्मदय्यमिति । भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौयस्येति चे॑ति लोपे रूपमिति भावः । Tattvabodhini ------------- **वा शोकष्यञ्रोगेषु** - सौहार्यमिति । ब्राआहृणादित्वात्ष्यञ्, ह्मद्भगसिन्ध्वन्ते इत्युबयपदवृद्धिः । Padamanjari ----------- हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ॥ Nyaas ----- `सौहाद्र्यम्` इति। शोभनं ह्मदयमस्येति बहुव्रीहिः। ततः ष्यञ्। `ह्मदयशब्देन` इत्यादि। ह्मदयशब्देनेह समानर्थे ह्मच्छब्दे सति यदा ह्मच्छबदस्य प्रयोगः, तदा ह्मच्छोक इति भविष्यति, यदा ह्मदयशब्दसय तदा ह्मदयशोक इति, ततश्च तेनैव प्रकृत्यन्तरेण सिद्धे विकल्पविधानमिदं न कर्तव्यम्। एतत्? क्रियते तु प्रपञ्चार्थम्। स एव सिद्धप्रयोगोऽनेन सूत्रेण कथ्यत इति॥ Prakriyasarvasvam ----------------- एषु परेषु हृदयस्य हृद् वा । हृच्छोकः । हृदयशोकः । ब्राह्मणादिष्यञि सौहार्दं सौहृदय्यम् । हृद्रोगः हृदयरोगः ॥