63043: घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः¶
Padacheda: घ-रूप-कल्प-चेलट्-ब्रूव-गोत्र-मत-हतेषु | S | 7 | 3 |
ङ्यः | S | 6 | 1 |
अनेकाचः | S | 6 | 1 |
ह्रस्वः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the affixes 1. तर 2. तम 3. रूप 4. कल्प 5. चेल (with the feminine affix ई) 6. ब्रुव 7. गोत्र 8 मत and 9. हत a word ending in the feminine affix ङी becomes short when the feminine consists of two or more syllables and has an equivalent and uniform masculine.
Vasu English Translation¶
Before the affixes 1. तर 2. तम 3. रूप 4. कल्प 5. चेल (with the feminine affix ई) 6. ब्रुव 7. गोत्र 8 मत and 9. हत a word ending in the feminine affix ङी becomes short when the feminine consists of two or more syllables and has an equivalent and uniform masculine. Thus घ-ब्राह्मणितरा, ब्राह्मणितमा ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा ब्राह्मणिगोत्रा, ब्राह्मणिमता and ब्राह्मणिहता ॥ घ, रूप and कल्प are affixes, चेलड् &c are words as second members; ब्रुवः is formed by अच् (3.1.134) added to ब्रू, guna and वच substitution being prevented anomalously. Why do we say ending in ई (ङी)? Observe दत्तातरा, गुप्तातरा ॥ Why do we say consisting of more than one syllable ? Because words of one syllable optionally become shortened by the next rule. Why do we say having a corresponding masculine? Observe आमलकीतरा कुवलीतरा, where आमलकी and कुवली have no equivalent masculine forms.
Bhashya¶
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (2902) (ह्रस्वाधिकरणम्) (पदकृत्यभाष्यम्) ङीग्रहणं किमर्थम् ? अनेकाचो ह्रस्व इतीयत्युच्यमाने खट्वातरा - मालातरा - अत्रापि प्रसज्येत । नैतदस्ति प्रयोजनम् । भाषितपुंस्कादित्युच्यते ॥ एवमपि दत्तातरा -गुप्तातरा -अत्रापि प्राप्नोति । इर्त इति वर्तते । क्व प्रकृतम् ? स्वाङ्गाच्चेतोऽमानिनि (6.3.40) इति ॥ एमवपि ग्रामणीतरः -सेनानीतरः -अत्रापि प्राप्नोति । स्त्रियामिति वर्तते ॥ एवमपि ग्रामणीतरा -सेनानीतरा -अत्रापि प्राप्नोति । स्त्रियाः स्त्रियामिति वर्तते ॥ शेषप्रकॢप्त्यर्थं तर्हि ङीग्रहणं कर्तव्यम् । नद्याः शेषस्यान्यतरस्याम् (6.3.44) इति । कश्च शेषः ? अङी च या नदी, ङ्यन्तं च यदेकाच् ॥ (ङीग्रहणप्रत्याख्यानभाष्यम्) अन्तरेणापि ङीग्रहणं प्रकॢप्तः शेषः । कथम् ? इर्त इति वर्तते । अनीच्च या नदी, इर्दन्तं चापि यदेकाच् ॥ (शेषग्रहणप्रत्याख्यानभाष्यम्) शेषग्रहणं चापि शक्यमकर्तुम् । कथम् ? अविशेषेण घादिषु नद्या अन्यतरस्यां ह्रस्वत्वमुत्सर्गः, तस्य अनेकाचः इति नित्यं ह्रस्वत्वमपवादः । तस्मिन्नित्ये प्राप्ते उगितो विभाषेयमारभ्यते ॥ यद्येवं लक्ष्मितरा -तन्त्रितरा -इति न सिध्यति, लक्ष्मीतरा -तन्त्रीतरा -इति प्राप्नोति । इष्टमेवैतत्संगृहीतम्, लक्ष्मीतरा -तन्त्रीतरा -इत्येव भवितव्यम् । एवं हि सौनागाः पठन्ति - घादिषु नद्या ह्रस्वत्वे कृन्नद्याः प्रतिषेध इति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥
Kashika¶
घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्कात् परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति। घ — ब्राह्मणितरा। ब्राह्मणितमा। रूप — ब्राह्मणिरूपा। कल्प — ब्राह्मणिकल्पा। चेलट् — ब्राह्मणिचेली। ब्रुव — ब्राह्मणिब्रुवा। गोत्र — ब्राह्मणिगोत्रा। मत — ब्राह्मणिमता। हत — ब्राह्मणिहता। घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि। ब्रुव इति ब्रुवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाद् न भवति। ङ्य इति किम्? दत्तातरा। गुप्तातरा। अनेकाच इति किम्? नद्याः शेषस्यान्यतरस्याम् (६.३.४४) इति वक्ष्यति। भाषितपुंस्कादित्येव — आमलकीतरा। कुवलीतरा॥
Siddhanta Kaumudi¶
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः (SK732) इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥
Balamanorama¶
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः - अथ समासाश्रयविधिर्निरूप्यते — घरूप । ‘उत्तरपदे’ इत्यधिकृतं चेलडादिष्वन्वेति, नतु घरूपकल्पेषु , घशब्दवाच्यतरप्तमपोः रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यं,ह्मदयस्य हल्लेखे॑त्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभाव इति भाष्ये उक्तत्वात् ।स्त्रियाः पुंव॑दित्यतो भाषित पुंस्कादित्यनुत्तम् । ङ्य इतितदन्तग्रहणं, केवस्यानेकाच्त्वाऽभावात् । तदाह -भाषितपुंस्काद्यो ङीति । एतदर्तमेवस्त्रियाः पुंव॑दित्यत्र बाशितपुंस्कादिति पञ्चम्यन्तमुपात्तं ष तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्र ‘भाषितपुंस्काया’ इति षष्ठन्तोपादाने तु इह तदनुवत्तिर्न स्यात्, असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात्, अनूङिति पर्युदासात्स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाऽभावादिति वाच्यम्, तत्र स्त्रिया॑इत्यस्वरितत्वात्स्त्रीप्रत्ययग्रहणं नेत्य#उक्तत्वात् । ब्राआहृणितरा ब्राआहृणितमेति । अतिशायने तरप्तमपौ । नचतसिलादिष्वि॑ति पुंवत्त्वेन ङीफो निवृत्तिः सङ्ख्याः,जातेश्चे॑ति निषेधात् । ब्राआहृणिरूपेतिप्रशंसायां रूपप् । ब्राआहृणिकल्पेति ।ईषदसमाप्तौ॑इति कल्पप् । ब्राआहृणिचेलीति । ‘चिल वसने’ तस्मादचि चेलडिति पचादौ पठितम् । टित्त्वान्ङीप् । इत्यादीति । ब्राआहृणिमता । ब्राआहृणिहता । ब्राऊञ इति । ब्राऊञ्धातोरचि कृतेब्राउवो वचि॑रिति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलङ् ब्राउवगोत्रहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वाकुत्सितानि कुत्सनै॑रिति कर्मधारय इत्यर्थः । आमलकोतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद्भाशितपुंस्कत्वाऽभावेन न ह्रस्व इति भावः । ननुन पदान्ते॑ति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात्कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह — कुवलीतरेति । बृक्षनिषेशे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तुकर्कन्धूर्बदरी कोली घोण्टा ‘कुबलफनिले’ इति नपुंसकत्वमाह ।
Tattvabodhini¶
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः - घरूपकल्प । तरप्तमपौ घः । प्रशंसायां रूपप् । चिल वसने । चेलडिति पचादौ टित्पठते ङीवर्थम् । प्रत्ययेष्विति । लेखग्रहणेन उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापयिष्य इति भावः । ब्राआहृणितरेति । जातेश्चेति निषेधात् तसिलादिषु इति न पुंवद्भावः । चेलीति । पचादौ चेलट् इति पाठात् टिड्ढेति ङीप् । आमलकीति । आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रीलिङ्गौ ।
Nyaas¶
चेलडब्राउवगोत्रशब्दानां कुत्सार्थत्वात्? कुत्सितानि कुत्सनैः (2.1.52) इति समासः। मतहतशब्दाभ्यां तु **विशेषणं विशेष्येण बहुलम्** (2.1.57) इत्यनेन। चेलडिति पचादौ पठते, टकारो ङीबर्थः। यदि `ब्राउवः इति पचाद्यजन्तमेतत्? एवं सति ब्राउवो वचिः (2.4.53) इति वच्यादेशो गुणश्च प्राप्नोति, स कस्मान्न भवतीति? यश्चोदयेतत्, तं प्रत्याह -वच्यादेशो गुणश्च निपातनान्न भवति इति। आमकलकीतरा, कुवलीतरा इति। आमलककुवलशब्दौ वृक्षे नित्यं स्त्रीलिङ्गै। फले तु नपुंसकलिंगावित्युभावप्यभाषितपुंस्कौ, ताभ्यां गौरादित्वान्ङीष्॥
Prakriyasarvasvam¶
घादिषु परेषु पुल्लिङ्गसाधारणस्य ङ्यन्तस्यानेकाचो ह्रस्वः स्यात् । ह्रस्वोक्तेर्न पुंवत् । सुन्दरितरा, सुन्दरितमा, तरुणीरूपा, तरुणिकल्पा । ‘चेलढादयः । कुत्सिते’ । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रा । ब्राह्मणिमता । ब्राह्मणिहता । पुल्लिङ्गसाधारणत्येत्युक्तेः पृथिवीतरेत्यत्र न ॥
Sutra Prayogas¶
पाशीकल्पां (शिशुपालवधम्): घरूपकल्पचेलब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः इति ह्रस्वो न भवति।