63042: पुंवत् कर्मधारयजातीयदेशीयेषु

Padacheda: पुंवत् | S | 0 | 0 |

कर्मधारय-जातीय-देशीयेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The feminine (unless it ends in ऊ) having an equivalent and uniform masculine becomes masculine in a कर्मधारय समास and before 1. जातीय and 2. देशीय।

Vasu English Translation

The feminine (unless it ends in ऊ) having an equivalent and uniform masculine becomes masculine in a कर्मधारय समास and before 1. जातीय and 2. देशीय। This sutra is enunciated as a prohibition to the preceding sutras. Thus it applies even to words having a penultimate क (6.3.37). Thus पाचकवृन्दारिका, पाचकजातीया, पाचकदेशीया ॥ It applies even to Names and the feminines which are ordinals in opposition to (6.3.38). Thus दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया, पंचमवृन्दारिका, पंचमजातीया, पंचमदेशीया ॥ It applies even in opposition to (6.3.39): स्रौघ्नवृन्दारिका, स्रौघ्नजातीया, स्रौघ्नदेशीया ॥ So also in opposition to (6.3.40), as श्लक्ष्णमुखवृन्दारिका, श्लक्ष्णमुखजातीया and श्लक्ष्णमुखदेशीया ॥ So also in opposition to (6.3.41), as कठवृन्दारिका, कठजातीया, कठदेशीया ॥

The feminine must have a corresponding masculine (भाषितपुंस्क), So the rule does not apply खट्वावृन्दारिका, as खट्वा has no corresponding masculine. The feminine should not end in ऊ; as ब्रह्मबन्धूवृन्दारिका ॥

Vart:- The words कुक्कुटी &c becomes masculine before अण्ड &c : as, कुक्कुट्या अण्डं = कुक्कुटाण्डन् । भृग्याः पदं = भृगपदम्, मृग्याः क्षीरं = मृगक्षीरम्, काक्याः शावः = काकशावः ॥ This rule need not be made, as the first member in these compounds may be considered as class denoting words of common gender.

Vart:- When a word formed by an affix having an indicatory ख, or the affixes तर and तम &c (6.3.43) follow, the final long vowel of the first term becomes short instead of its becoming masculine. As कालीमात्मानं मन्यते काल्येवाहम् = कालिंमन्या (compare (6.3.66)) हरिणिंमन्या, पट्वितरा, पट्वितमा, पट्विरूपा, पट्विकल्पा, पट्विका, मृद्विका ॥ We have said that the rule does not apply to the feminines in ऊ ॥ The words इडविट्, दरद्, पृथ and उशिज are names of countries denoting Kshatriya clans. The tadraja affix (6.1.168) and (6.1.170), is elided in forming the feminine of these (4.1.177). Thus we have the compound of इडविट् वृन्दारिका ॥ When the first words become masculine, we have ऐडविड, दारद्, &c. Thus ऐडविडवृन्दारिका, औशिजवृन्दारिका ॥

Bhashya

पुंवत्कर्मधारयजातीयदेशीयेषु (2901) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न सामान्येन सिद्धम् ? (6444 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - पुंवत्कर्मधारये प्रतिषिद्धार्थम् - प्रतिषिद्धार्थोऽयमारम्भः । न कोपधायाः (37) इत्युक्तं तत्रापि पुंवद्भावो भवति । कारिका वृन्दारिका - कारकवृन्दारिका, कारकजातीया, कारकदेशीया ॥ संज्ञापूरण्योश्च (38) इत्युक्तं तत्रापि पुंवद्भवति । दत्ता वृन्दारिका - दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया । पञ्चमी वृन्दारिका - पञ्चमवृन्दारिका, पञ्चमजातीया, पञ्चमदेशीया ॥ वृद्धिनिमित्तस्य - (39) इत्युक्तं तत्रापि पुंवद्भावो भवति । स्रौघ्नी वृन्दारिका - स्रौघ्नवृन्दारिका, स्रौघ्नजातीया, स्रौघ्नदेशीया ॥ स्वाङ्गाच्चेतोऽमानिनि (40) इत्युक्तं तत्रापि पुंवद्भावो भवति । श्लक्ष्णमुखी वृन्दारिका - श्लक्ष्णमुखवृन्दारिका, श्लक्ष्णमुखजातीया, श्लक्ष्णमुखदेशीया ॥ जातेश्च (41) इत्युक्तं तत्रापि पुंवद्भवति । कठी वृन्दारिका - कठवृन्दारिका, कठजातीया, कठदेशीया ॥ (6445 उपसंख्यानवार्तिकम् ॥ 2 ॥) - कुक्कुट्यादीनामण्डादिषु पुंवद्वचनम् - कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्या अण्डं - कुक्कुटाण्डम् । मृग्याः पदं - मृगपदम् । काक्याः शावः - काकशावः ॥ (6446 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - न वाऽस्त्रीपूर्वपदविवक्षितत्वात् - न वा वक्तव्यम् । किं कारणम् ? अस्त्रीपूर्वपदविवक्षितत्वात् । नात्र स्त्रीपूर्वपदं विवक्षितम् । किं तर्हि ? अस्त्रीपूर्वपदं विवक्षितम् । उभयोरण्डम्, उभयोः पदम्, उभयोः शावः ॥ यद्यपि तावदत्रैतच्छक्यते वक्तुम् । इह तु कथं-मृग्याः क्षीरं - मृगक्षीरम् ? अत्रापि न वाऽस्त्रीपूर्वपदविवक्षितत्वादित्येव । कथं पुनः सतो नामाविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा - अलोमिका एडका, अनुदरा कन्या । असतश्च विवक्षा भवति । तद्यथा - समुद्रः कुण्डिका, विन्ध्यो वर्द्धितकमिति ॥ (6447 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 4 ॥) - अग्नेरीत्वाद्वरुणवृद्धिर्विप्रतिषेधेन - अग्नेरीत्वाद्वरुणस्य वृद्धिर्भवति विप्रतिषेधेन । अग्नेरीत्वस्यावकाशः - अग्नीषोमौ । वरुणस्य वृद्धेरवकाशः - वायुवारुणम् । इहोभयं प्राप्नोति - आग्नीवारुणीमनड्वाहीमालभेत । वरुणस्य वृद्धिर्भवति विप्रतिषेधेन ॥ (आक्षेपभाष्यम्) नैष युक्तो विप्रतिषेधः । द्विकार्ययोगो हि विप्रतिषेधः, नात्रैको द्विकार्ययुक्तः । कथम् ? अग्नेरीत्वम्, वरुणस्य वृद्धिः - इति ॥ (समाधानभाष्यम्) नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किं तर्हि ? असंभवोऽपि, स चात्रास्त्यसम्भवः । कोऽसावसंभवः ? अग्नेरीत्वमभिनिर्वर्तमानं वरुणस्य वृद्धिं बाधते । वरुणस्य वृद्धिरभिनिर्वर्तमाना अग्नेरीत्वं बाधते । एषोऽसंभवः । सत्यसंभवे युक्तो विप्रतिषेधः ॥ (6448 विप्रतिषेधवार्तिकम् ॥ 5 ॥) - पुंवद्भावात् ह्रस्वत्वं खिद्धादिकेषु - पुंवद्भावाद् ह्रस्वत्वं भवति विप्रतिषेधेन । पुंवद्भावस्यावकाशः - पटुभार्यः, मृदुभार्यः । खिति ह्रस्वत्वं भवतीत्यस्यावकाशः - कालिम्मन्यः, हरिणिम्मन्यः । इहोभयं प्राप्नोति - कालिम्मन्या, हरिणिम्मन्या । ह्रस्वो भवति विप्रतिषेधेन ॥ घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा । पुंवद्भावस्यावकाशः - दर्शनीयतरा, दर्शनीयतमा । इहोभयं प्राप्नोति - पटि्वतरा, पटि्वतमा । ह्रस्वो भवति विप्रतिषेधेन ॥ के ह्रस्वो भवतीत्यस्यावकाशः - नर्तकिका । पुंवद्भावस्यावकाशः - दारदिका । इहोभयं प्राप्नोति - पटि्वका, मृद्विका । ह्रस्वत्वं भवति विप्रतिषेधेन ॥ अथेदानीं ह्रस्वत्वे कृते पुनः प्रसङ्गविज्ञानात्पुंवद्भावः कस्मान्न भवति ? सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥

Kashika

कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। प्रतिषेधार्थोऽयमारम्भः। न कोपधायाः (६.३.३७) इत्युक्त म् , तत्रापि भवति। पाचकवृन्दारिका। पाचकजातीया। पाचकदेशीया। संज्ञापूरण्योश्च (६.३.३८) इत्युक्त म्, तत्रापि भवति। दत्तवृन्दारिका। दत्तजातीया। दत्तदेशीया। पूरण्याः — पञ्चमवृन्दारिका। पञ्चमजातीया। पञ्चमदेशीया। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (६.३.३९) इत्युक्तम्, तत्रापि भवति। स्रौघ्नवृन्दारिका। स्रौघ्नजातीया। स्रौघ्नदेशीया। स्वाङ्गाच्चेतोऽमानिनि**(६.३.४०) इत्युक्तम्, तत्रापि भवति। श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। **जातेश्च (६.३.४०) इत्युक्त म्, तत्रापि भवति। कठवृन्दारिका। कठजातीया। कठदेशीया। भाषितपुंस्कादित्येव — खट्वावृन्दारिका। अनूङित्येव — ब्रह्मबन्धूवृन्दारिका॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः॥ कुक्कुट्या अण्डं कुक्कुटाण्डम्। मृग्याः पदं मृगपदम्। मृग्याःक्षीरं मृगक्षीरम्। काक्याः शावः काकशावः। न वास्त्रीपूर्वपदस्य विवक्षितत्वात्। स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जातिः सामान्येन विवक्षितः। पुंवद्भावाद् ह्रस्वत्वं खिद्घादिकेषु भवति विप्रतिषेधेन। खित् — कालिंमन्या। हरिणिंमन्या। घादि — पाट्वितरा। पट्वितमा। पट्विरूपा। पट्विकल्पा। क — पट्विका। मृद्विका। इहेडबिड् दरद् पृथ् उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः। तत्र तद्राजप्रत्ययस्य स्त्रियाम् अतश्च (४.१.१७७) इति लुकि कृत इडबिट् चासौ वृन्दारिका चेति विगृह्य समासः क्रियते। ततः पुंवद्भावेन ऐडबिडादयः पुंशब्दाः क्रियन्ते। ऐडबिडवृन्दारिका। औशिजवृन्दारिका॥

Siddhanta Kaumudi

कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥

Balamanorama

पुंवत् कर्मधारयजातीयदेशीयेषु - पुंवत्कर्मधारय ।स्त्रियाः पुंवद्भाषितपुंस्कादनू॑ङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशेऽधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह — कर्मधारये इति ।तथाभूत॑मित्यनन्तरंस्त्रीवाचक॑मिति शेषः ।भाषितपुंस्कादनू॑ङित्येतत् ‘स्त्रियाः पुंवत्’ इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारयेस्त्रियाः पुंव॑दित्यनेन सिद्धं पुंवत्त्वं, जातीयदेशीययोस्तुतसिलादिष्वाकृत्वसुचः॑ इत्यनेन सिद्धमित्यत आह — पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः ।सन्महदि॑त्यादिना समासः । नवानां पूरणी नवमी ।तस्य पूरणे डट्॒नान्तादसंख्यादेर्मट् । टित्त्वान्ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे ‘स्त्रियाः पुंवत्’ इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पुंवत्त्वे ‘आन्महतः’ इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी-चतुर्दशी । डट । ‘नस्तद्धिते’ इति टिलोपः । टित्त्वान्ङीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः । ॒पुंवत्कर्मधारय॑ इत्यस्य प्रयोजनान्तरमाह — तथा कोपधादेरिति । ‘न कोरधायाः’ ‘संज्ञीपूरण्योश्च’वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑ ‘स्वाङ्गाच्चेतः’जातेश्चे॑ति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र ‘न कोपधायाः’ इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या पञ्चमभार्येति दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्रसंज्ञापूरण्योश्चे॑ति प्रतिषेधः प्राप्तः । रुआऔग्घ्नभार्येति । रुआऔग्घ्नी चासौ भार्या चेति कर्मधारयः । अत्रवृद्धिनिमित्तस्य चे॑ति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेसी चासौ भार्या चेति कर्मधारयः । अत्र ‘स्वाङ्गाच्चेत’ इति निषेधः प्राप्तः । ब्राआहृणभार्येति । ब्राआहृणी चासौ भार्या चेति कर्मधारयः । अत्रजातेश्चे॑ति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति — एवं पाचकजातीया पाचकदेशीयेति । ‘प्रकारवचने’ इति जातीयर् । ‘ईषदसमाप्तौ’ इति दैशीयर् । उभयत्रापि ‘तसिलादिषु’ इति पुंवत्त्वस्य ‘न कोपधायाः’ इति निषेधः । प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । रुआऔघ्नजातीया, रुआऔघ्नदेशीया । सुकेशजातीया, सुकेषदेशीया । ब्राआहृणजातीया, ब्राआहृणदेशीया । तदेवं पुंवत्कर्मधारये॑ति सूत्रं निरूप्यपोटायुवती॑ति सूत्रस्य क्रमेणोदाहरणान्याह — इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणेति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः= अल्पः, स चासौ अग्निश्चेति विग्रहः । उदइआत्कतिपयमिति । ‘तक्रं ह्रुदइआत्’ इत्यमरः । कतिपयं च तदुदइआच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः बेहद्नर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । ‘चिरसूता बष्कयणी’ इत्यमरः ।तरुणवत्से॑त्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्ता=अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । अध्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः ।धूर्तोऽक्षदेव॑त्यमरः विट इत्यन्ये । नचकुत्सितानि कुत्सनैः॑ इत्यनेन सिद्धिः शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितदम् ।

Tattvabodhini

पुंवत् कर्मधारयजातीयदेशीयेषु - भाषुतपुंस्कादित्यादि । एतच्चस्त्रियाः पुंव॑दिति सूत्रे स्फुटीकरिष्यते । ननु तेनैव कर्मधारयेऽपि सिद्धं जातीयदेशीययोस्तुतसिलादिष्वि॑ति सिद्धं, तत्किमनेन सूत्रेणेत्यत आह — पूरणीप्रियादिष्विति । तथेति च । महानवमीति । नवानां पूरणी ।तस्य पूरणे डट्॒नान्तादसङ्ख्यादेर्मट॑ । टित्त्वान्ङीप् । महती चासौ नवमी चेत् विग्रहः । पुंवद्भावे कृते वक्ष्यमाणेन महत आकारः । कोपधादेरिति ।न कोपधायाः॑संज्ञापूरण्योश्च॑वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑त्वाह्गाच्चेतः॒॑जातेश्चे॑ति पञ्चसूत्र्या प्रितषिद्ध इत्यर्थः । क्रमेणोदाहरति — पाचकस्त्रीति । जातीयदेशययोरपि प्रतिप्रसवमुदाहरति — एवमिति । पाचिकाप्रकारवती पाचकजातीया । प्रकारवचने जातीयर् । पाचकदेशीयेति ।ईषदसमाप्तौ॑इति देशीयर् । उभयत्रतसिलादिषु॑इति पुंवद्भावस्यन कोपधायाः॑ इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थत्वात् । इत्यादीति । आदिपदाद्दत्तजातीया, पञ्चमजातीया, रुआऔग्ध्नजातीया, सुकेशजातीयै, ब्राआहृणजातीया । एवं दत्तदेशीयेत्याद्युदाहार्यम् । स्त्रीपुंसलक्षणेति । स्तनश्मश्र्वादियुक्ता स्त्रीत्यर्थः । उदइआदिति ।तक्रं ह्रुदइआन्मथितं प#आदाम्ब्वार्धाऽम्बु निर्जल॑मित्यमरः । कठधूर्त इति । नात्र कठत्वं कुत्स्यते, अतःकित्सितानि कुत्सनैः॑ इति गतार्थता शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः ।जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्याना॑मित्यत्रधूर्तबक॑इत्यसाधुरेव ।

Padamanjari

ननु कर्मधारये स्त्रियाः पुंवत् इत्यादिना सिद्धः पुंवद्भावः जातीयदेशीययोरपि तसिलादिष्विति, किमर्थोऽयमारम्भः इत्यत आह - प्रतिषिद्धार्थोऽयमिति । प्रतिषिद्धोऽपि पुंवद्भावो यथा स्यादित्येवमर्थमित्यर्थः । प्रतिषेधार्थोऽयमिति पाठे प्रतिषेधाविषयः प्रतिषेधशब्देनोक्तः । निवृत्तिवचनो वार्थशब्दः । कुक्कुट।लदीनामित्यादि । अस्त्र्यर्थेमसमानाधिकरणार्थं वचनम् । न वेत्यादि । उपसंख्यानं प्रत्याचष्टे । न वा वक्तव्यम्, किं कारणम् स्त्रीपूर्वपदस्याविवक्षितत्वात् । नात्र स्त्रीत्वावसायः आरभ्यमाणेऽपि पुंवद्भावे समाश्रयणीयः, अनारम्भऽपि तथा भविष्यति । यदि तर्हि स्त्रीलिङ्गेन समासो न भविष्यति । यद्यपि तावदत्रैतच्छक्यते वक्तुम्, इह तु कथं मृग्या क्षीरं मृगक्षीरमिति, नहि पुंसः क्षीरेण सम्बन्धोऽस्ति अत्रापि जात्यन्तरनिवृत्तिपरत्वाच्चोदनायाः स्त्रीत्वमाकिञ्चित्करत्वादविवक्षितम् । यत्र तु लिङ्ग, विशेष उपकारकस्तत्रासौ विवक्षित एव यथा - अडामूत्रेण पर्युक्षितं दातव्यमिति । पूर्वपदार्थोऽत्र जातिरिति । कुक्कुटाण्डाजौ पूर्वपदार्थो जातिः स च समामान्येन स्त्रीत्वादिविशेषरहितेन रुपेण विवक्षित इत्यर्थः । खिद्घादिष्विति । तत्र खिति विप्रतिषेधः स्त्रियाः पुंवत् इत्यत्रैवोदाहृतः । घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरुपा, नर्तकिकल्पा, यत्र पुंवद्भावः प्रतिषिध्यते न कोपधायाः इति - तसिलादिष्विति । पुंद्भावस्यावकाशः यद् ङ्यन्तं न भवति - दर्शनीयतरेत्यादि । पट्वितरेत्यादावुभयप्रसङ्गे विप्रतिषेधः । केऽणो ह्रस्वो भवतीत्यावकाशः - नर्तकिका, पुंवद्भावस्यावकारः - दरदोऽपत्यं स्त्री, द्व्यञ्मगध इत्यण्, तस्य अतश्च लुक्, ततः प्रागिवात्कः, तसिलादिष्विति पुंवद्भावाद्दारदशब्दः, प्रत्ययस्थात् इतीत्वं दारिदिका । ननु च परिगणितास्तसिलादयः न च कप्रत्ययस्तेषु समस्ति एवं तर्हि विप्रतिषेधादेव कप्रत्ययोऽपि तत्राभ्युपगम्यत इति अनुमीयते, पट्विका मृट्विकेत्यादावुभयप्रसङ्गे परत्वाद् ह्रस्वः, सर्वत्र चात्र सकृदित्याश्रयणाद् पुंवद्भावाभावः । अनूङिति यदुक्तं तस्य प्रयोजनं दर्शयति - इहेत्यादि । तद्राजप्रत्ययस्येति । ये द्व्यचस्तेषु द्व्यञ्मगध इत्यण्, शेषेषु जनपदशब्दात् इत्यञ् , पृथ तैति थकारान्तः ॥ घरुपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ 6।3 - 43 ॥ एचेलादीनां वृत्ति विषये कुत्सनवचनत्वातैः कुसितानि कुत्सनैः इति समासः । ङ्य इत्यत्र ईयाश्च्छन्दसि बहुलम् इत्यादिवदागमः प्राप्तः, सौत्रत्वान्न कृतः ॥ दतातरेति । ननु च स्वाङ्गाच्चेतः इत्यतः ईतः इत्यनुवर्तिष्यते । एवमपि प्रामणीतरः - अत्रापि प्राप्नोति स्त्रियामिति वर्तते । एवमपि प्रमणीतरा - अत्रापि प्राप्नोति स्त्रियाम इति वर्तते, स्त्रीया ईतः स्त्रीवाचिन ईकार स्येत्यर्थः, ग्रामणीशब्दे त्वनर्थक ईकारः । शेषप्रवलृप्त्यर्थं तर्हि ङीब्ग्रहणम्, क्रियमाणे हि ङीब्ग्रहणे ङ्योऽनेकाचः इति श्रुतत्वातदपेक्षः शेषो लभ्यते - अङीब् या नदी ङ्यन्तं च यदेकाजिति । अन्तरणापि ङीब्ग्रहणं प्रवलृप्तः शेषः, कथम् ईत इति वर्तते, अनीच्च या नदी ईदन्तं च यदेकाजिति । तदेतन्ङीग्रहणं तिष्ठतु तावत् ॥

Nyaas

ननु च कर्मधारये स्त्रियाः पुंवत् (6.3.33) इत्यादिना पुंवद्भावः सिद्धः, जातीयदेशीयशब्दयोरपि तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यादिना, तत्? किमर्थोऽयमारंभः? इत्यत आह - प्रतिषेधार्योऽयमारमभः इति। परतिषेधविषयः प्रतिषेधशब्देनोक्तः। साहचर्यात्? प्रतिषेधोऽर्थः प्रयोजनं यस्येति स तथोक्तः। यत्र विषये प्रतिषेध उक्तस्तत्र पुंवद्भावः प्रयोजनमित्यर्थः। अथ वा - अर्थशब्दो निवृत्ताविह - वर्तते, यथा - मशकार्थो धूम इति। तेनायमर्थो भवति - प्रतिषेधनिवृत्यर्थोऽयमारम्भ इति।भाषितपुंस्कादित्येव इति। यदि भाषितपुंस्कादनूङ् (6.3.33) इति च नानुवर्तते, तदाऽभाषितपुंस्कार्थमनूङर्थञ्चेदं वचनं स्यात्, न प्रतिषेधार्थम्। एवं च खट्वावृन्दारिका, ब्राहृबन्धूवृन्दारिकेत्यात्रापि पुंवद्भावः स्यात्। तस्माद्भाषितपुंस्कादनूङित्यनुवर्तनीयम्।कुक्कुटआदीनाम् इत्यादि। उत्तरपदस्यान्तादेरस्त्रीत्वादसामानाधिकरण्याच्च पुंवद्भावो न प्राप्नोतीत्युपसंख्यायते। न वा इत्यनेनोपसंख्यानं प्रत्याचष्टे - न वा वक्तव्यः, कस्मात्? अस्त्रीपूर्वपदस्य विवक्षितत्वात्। अस्त्रीलिङ्गस्य पूर्वपदस्य विवक्षितत्वादित्यभिप्रायः। अस्यैवार्थं विस्पष्टीकर्त्तुमाह - स्त्रीत्वेन विना इत्यादि। अत्र हि मयूरादिजात्यन्तरस्या निवृत्तिर्विवक्षिता। जात्यन्तरनिवृत्तिपरायां देशनायां लिङ्गविशेषोपादानमनुपकारकमेव। विनापि तेन जात्यन्तरनिवृत्तिः शक्यत एव कर्तम्। तथा हि - मृगमांसमित्युक्ते अन्तरेणापि लिङ्गविशेषोपादानं जात्यन्तरसय व्यवच्छेद उपपद्यते - मृगजातिसम्बन्धि मांसम्, नान्यजातिसम्बन्धीति। तस्मात्? स्त्रीत्वमत्रानुपकारित्वान्न विवक्षितम्, अतः स्त्रीत्वेन विना पूर्वपदस्यार्थोऽत्रि कुक्कुटाण्डादौ जातिसामान्येन स्त्रीत्वदविशेषविहितो विवक्षित इत्यर्थः। ततश्चास्त्रीलिङ्गा एवात्र कुक्कुटादयः शब्दा अण्डादिभिः शब्दं समस्यन्त इति भावः। कः पुनरसौ पूर्वपदार्थः? कुक्कुटादिजात्या व्यवछिन्नं द्रव्यमात्रम्।पुंवद्भावात् इत्यादि। अत्र खिति पुंवद्भावाद्घ्रस्वत्वं विप्रतिषेधेन भवतीति पूर्वमेव व्याख्यातम्। घादिषु तु व्याख्यायते। घादिषु ङ्यो ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरूपा, नर्तकिकल्पेति; पुंवद्भावस्यावकाशः - दर्शनीयतरा, दर्शनीयतमां, दर्शनीयरूपा, दर्शनीयकल्पेति; इहोभयं प्राप्नोति - पट्वितरा, पट्वितमा; पट्विरूपा, पट्विकल्पेति; विप्रतिषेधेन ह्रस्वत्वं भवति। केऽणः (7.4.13) इति ह्रस्वस्यावकाशः - नर्तकिकेति; अज्ञातादावर्थे प्रागिवात्? कः (5.3.70) पूर्वद्भावस्यावकाशः - दारदिकेति। दरच्छब्दस्यात्र के परतः तसलादिष्वाकृत्वासुचः (6.3.34) इति पुंवद्भावेन दारदशब्दो भवति। अतष्टापि कृते प्रत्ययस्थात्? कात् (7.3.44) इत्यादिनेत्त्वमिहोभयं प्राप्नोति। पट्विका इति। अत्र विप्रतिषेधेन ह्रस्वत्वं भविष्यति। केन पुनः पुंवद्भावः, यावता तसिलादिषु परिगणनं कृतम्, न च ततर कप्रत्ययः परिगणितः? एतत्? भाष्यकारः प्रष्टव्यो यः परिगणनं करोति, न तु सूत्रकारः। पूर्व यस्य सिद्धयेऽनूङिति प्रसज्यप्रतिषेध आश्रितस्तद्दर्शनार्थमाह - इह इत्यादि। तत्र तद्राजप्रत्ययस्य इत्यादि। तत्रेडविट्, पृथु इत्येताभ्यां जनपदशब्दात् क्षत्रियादञ् (4.1.168) इति विहितस्याञस्तद्राजप्रत्ययस्य अतश्च (4.1.175) इति लुक्। दरद्? उशिजित्येताभ्यां तु द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिना विहितस्याणः। इडविट्? चासौ वृन्दारिका चेति विगृह्र समास इति। विशेषण इत्यादिना, अत्रैडविडादयः [नास्ति - काशिका] इति आदिशब्देन दारदः, पारथः, औशिज इत्येते गृह्यन्ते॥

Prakriyasarvasvam

एषु भाषितपुंस्कादनूङ्स्त्रियाः प्रतिषेधविषयेऽपि पुंवत्त्वं स्यात् । तत्र कोपधादौ—रसिका नारी रसिकनारी । रसिकजातीया । रसिकदेशीया । एवं दत्तवृन्दारिका । पञ्चमभार्या । मधुरवधूः । सुकेशतरुणी । ब्राह्मणवनिता इति । ‘अपूरणीप्रियादिष्विति निषेधोऽप्यत्र ने’ति हरः । महानवमी । कृष्णचतुर्दशी । सुन्दरप्रिया ।<!सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वं वाच्यम् ।!> (वा० २-१-५१) वृत्तिः समासादिः । अन्यस्यां सक्तोऽन्यसक्तः । भवत्याः पतिर्भवत्पतिः इति ॥

Vartika

कुक्कुट्यादीनामण्डादिषु ।

Sutra Prayogas

  • निर्यातशेषा (रघुवंशम्): पुंवत्कर्मधारयजातीयदेशीयेषु इति पुंवद्भावः।