63043: घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ========================================================= **Padacheda:** घ-रूप-कल्प-चेलट्-ब्रूव-गोत्र-मत-हतेषु | S | 7 | 3 | ङ्यः | S | 6 | 1 | अनेकाचः | S | 6 | 1 | ह्रस्वः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before the affixes 1. तर 2. तम 3. रूप 4. कल्प 5. चेल (with the feminine affix ई) 6. ब्रुव 7. गोत्र 8 मत and 9. हत a word ending in the feminine affix ङी becomes short when the feminine consists of two or more syllables and has an equivalent and uniform masculine. Vasu English Translation ------------------------ Before the affixes 1. तर 2. तम 3. रूप 4. कल्प 5. चेल (with the feminine affix ई) 6. ब्रुव 7. गोत्र 8 मत and 9. हत a word ending in the feminine affix ङी becomes short when the feminine consists of two or more syllables and has an equivalent and uniform masculine. Thus घ-ब्राह्मणितरा, ब्राह्मणितमा ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा ब्राह्मणिगोत्रा, ब्राह्मणिमता and ब्राह्मणिहता ॥ घ, रूप and कल्प are affixes, चेलड् &c are words as second members; ब्रुवः is formed by अच् (3.1.134) added to ब्रू, *guna* and वच substitution being prevented anomalously. Why do we say ending in ई (ङी)? Observe दत्तातरा, गुप्तातरा ॥ Why do we say consisting of more than one syllable ? Because words of one syllable optionally become shortened by the next rule. Why do we say having a corresponding masculine? Observe आमलकीतरा कुवलीतरा, where आमलकी and कुवली have no equivalent masculine forms. Bhashya ------- घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (2902) (ह्रस्वाधिकरणम्) (पदकृत्यभाष्यम्) ङीग्रहणं किमर्थम् ? अनेकाचो ह्रस्व इतीयत्युच्यमाने खट्वातरा - मालातरा - अत्रापि प्रसज्येत । नैतदस्ति प्रयोजनम् । भाषितपुंस्कादित्युच्यते ॥ एवमपि दत्तातरा -गुप्तातरा -अत्रापि प्राप्नोति । इर्त इति वर्तते । क्व प्रकृतम् ? स्वाङ्गाच्चेतोऽमानिनि (6.3.40) इति ॥ एमवपि ग्रामणीतरः -सेनानीतरः -अत्रापि प्राप्नोति । स्त्रियामिति वर्तते ॥ एवमपि ग्रामणीतरा -सेनानीतरा -अत्रापि प्राप्नोति । स्त्रियाः स्त्रियामिति वर्तते ॥ शेषप्रकॢप्त्यर्थं तर्हि ङीग्रहणं कर्तव्यम् । नद्याः शेषस्यान्यतरस्याम् (6.3.44) इति । कश्च शेषः ? अङी च या नदी, ङ्यन्तं च यदेकाच् ॥ (ङीग्रहणप्रत्याख्यानभाष्यम्) अन्तरेणापि ङीग्रहणं प्रकॢप्तः शेषः । कथम् ? इर्त इति वर्तते । अनीच्च या नदी, इर्दन्तं चापि यदेकाच् ॥ (शेषग्रहणप्रत्याख्यानभाष्यम्) शेषग्रहणं चापि शक्यमकर्तुम् । कथम् ? अविशेषेण घादिषु नद्या अन्यतरस्यां ह्रस्वत्वमुत्सर्गः, तस्य अनेकाचः इति नित्यं ह्रस्वत्वमपवादः । तस्मिन्नित्ये प्राप्ते उगितो विभाषेयमारभ्यते ॥ यद्येवं लक्ष्मितरा -तन्त्रितरा -इति न सिध्यति, लक्ष्मीतरा -तन्त्रीतरा -इति प्राप्नोति । इष्टमेवैतत्संगृहीतम्, लक्ष्मीतरा -तन्त्रीतरा -इत्येव भवितव्यम् । एवं हि सौनागाः पठन्ति - घादिषु नद्या ह्रस्वत्वे कृन्नद्याः प्रतिषेध इति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥ Kashika ------- घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्कात् परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति। घ — ब्राह्मणितरा। ब्राह्मणितमा। रूप — ब्राह्मणिरूपा। कल्प — ब्राह्मणिकल्पा। चेलट् — ब्राह्मणिचेली। ब्रुव — ब्राह्मणिब्रुवा। गोत्र — ब्राह्मणिगोत्रा। मत — ब्राह्मणिमता। हत — ब्राह्मणिहता। घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि। ब्रुव इति ब्रुवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाद् न भवति। ङ्य इति किम्? दत्तातरा। गुप्तातरा। अनेकाच इति किम्? **नद्याः शेषस्यान्यतरस्याम्** (६.३.४४) इति वक्ष्यति। भाषितपुंस्कादित्येव — आमलकीतरा। कुवलीतरा॥ Siddhanta Kaumudi ----------------- भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः (SK732) इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥ Balamanorama ------------ **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** - अथ समासाश्रयविधिर्निरूप्यते — घरूप । 'उत्तरपदे' इत्यधिकृतं चेलडादिष्वन्वेति, नतु घरूपकल्पेषु , घशब्दवाच्यतरप्तमपोः रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यं,ह्मदयस्य हल्लेखे॑त्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभाव इति भाष्ये उक्तत्वात् ।स्त्रियाः पुंव॑दित्यतो भाषित पुंस्कादित्यनुत्तम् । ङ्य इतितदन्तग्रहणं, केवस्यानेकाच्त्वाऽभावात् । तदाह -भाषितपुंस्काद्यो ङीति । एतदर्तमेवस्त्रियाः पुंव॑दित्यत्र बाशितपुंस्कादिति पञ्चम्यन्तमुपात्तं ष तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्र 'भाषितपुंस्काया' इति षष्ठन्तोपादाने तु इह तदनुवत्तिर्न स्यात्, असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात्, अनूङिति पर्युदासात्स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाऽभावादिति वाच्यम्, तत्र स्त्रिया॑इत्यस्वरितत्वात्स्त्रीप्रत्ययग्रहणं नेत्य#उक्तत्वात् । ब्राआहृणितरा ब्राआहृणितमेति । अतिशायने तरप्तमपौ । नचतसिलादिष्वि॑ति पुंवत्त्वेन ङीफो निवृत्तिः सङ्ख्याः,जातेश्चे॑ति निषेधात् । ब्राआहृणिरूपेतिप्रशंसायां रूपप् । ब्राआहृणिकल्पेति ।ईषदसमाप्तौ॑इति कल्पप् । ब्राआहृणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्त्वान्ङीप् । इत्यादीति । ब्राआहृणिमता । ब्राआहृणिहता । ब्राऊञ इति । ब्राऊञ्धातोरचि कृतेब्राउवो वचि॑रिति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलङ् ब्राउवगोत्रहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वाकुत्सितानि कुत्सनै॑रिति कर्मधारय इत्यर्थः । आमलकोतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद्भाशितपुंस्कत्वाऽभावेन न ह्रस्व इति भावः । ननुन पदान्ते॑ति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात्कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह — कुवलीतरेति । बृक्षनिषेशे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तुकर्कन्धूर्बदरी कोली घोण्टा 'कुबलफनिले' इति नपुंसकत्वमाह । Tattvabodhini ------------- **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** - घरूपकल्प । तरप्तमपौ घः । प्रशंसायां रूपप् । चिल वसने । चेलडिति पचादौ टित्पठते ङीवर्थम् । प्रत्ययेष्विति । लेखग्रहणेन उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापयिष्य इति भावः । ब्राआहृणितरेति । जातेश्चेति निषेधात् तसिलादिषु इति न पुंवद्भावः । चेलीति । पचादौ चेलट् इति पाठात् टिड्ढेति ङीप् । आमलकीति । आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रीलिङ्गौ । Nyaas ----- चेलडब्राउवगोत्रशब्दानां कुत्सार्थत्वात्? `कुत्सितानि कुत्सनैः (2.1.52) इति समासः। मतहतशब्दाभ्यां तु **विशेषणं विशेष्येण बहुलम्** (2.1.57) इत्यनेन। चेलडिति पचादौ पठते, टकारो ङीबर्थः। यदि `ब्राउवः` इति पचाद्यजन्तमेतत्? एवं सति `ब्राउवो वचिः` (2.4.53) इति वच्यादेशो गुणश्च प्राप्नोति, स कस्मान्न भवतीति? यश्चोदयेतत्, तं प्रत्याह -`वच्यादेशो गुणश्च निपातनान्न भवति` इति। `आमकलकीतरा, कुवलीतरा` इति। आमलककुवलशब्दौ वृक्षे नित्यं स्त्रीलिङ्गै। फले तु नपुंसकलिंगावित्युभावप्यभाषितपुंस्कौ, ताभ्यां गौरादित्वान्ङीष्॥ Prakriyasarvasvam ----------------- घादिषु परेषु पुल्लिङ्गसाधारणस्य ङ्यन्तस्यानेकाचो ह्रस्वः स्यात् । ह्रस्वोक्तेर्न पुंवत् । सुन्दरितरा, सुन्दरितमा, तरुणीरूपा, तरुणिकल्पा । 'चेलढादयः । कुत्सिते' । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रा । ब्राह्मणिमता । ब्राह्मणिहता । पुल्लिङ्गसाधारणत्येत्युक्तेः पृथिवीतरेत्यत्र न ॥ Sutra Prayogas -------------- * **पाशीकल्पां** (शिशुपालवधम्): `घरूपकल्पचेलब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः` इति ह्रस्वो न भवति।