63042: पुंवत् कर्मधारयजातीयदेशीयेषु =================================== **Padacheda:** पुंवत् | S | 0 | 0 | कर्मधारय-जातीय-देशीयेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine (unless it ends in ऊ) having an equivalent and uniform masculine becomes masculine in a कर्मधारय समास and before 1. जातीय and 2. देशीय। Vasu English Translation ------------------------ The feminine (unless it ends in ऊ) having an equivalent and uniform masculine becomes masculine in a कर्मधारय समास and before 1. जातीय and 2. देशीय। This *sutra* is enunciated as a prohibition to the preceding *sutras*. Thus it applies even to words having a penultimate क (6.3.37). Thus पाचकवृन्दारिका, पाचकजातीया, पाचकदेशीया ॥ It applies even to Names and the feminines which are ordinals in opposition to (6.3.38). Thus दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया, पंचमवृन्दारिका, पंचमजातीया, पंचमदेशीया ॥ It applies even in opposition to (6.3.39): स्रौघ्नवृन्दारिका, स्रौघ्नजातीया, स्रौघ्नदेशीया ॥ So also in opposition to (6.3.40), as श्लक्ष्णमुखवृन्दारिका, श्लक्ष्णमुखजातीया and श्लक्ष्णमुखदेशीया ॥ So also in opposition to (6.3.41), as कठवृन्दारिका, कठजातीया, कठदेशीया ॥ The feminine must have a corresponding masculine (भाषितपुंस्क), So the rule does not apply खट्वावृन्दारिका, as खट्वा has no corresponding masculine. The feminine should not end in ऊ; as ब्रह्मबन्धूवृन्दारिका ॥ Vart:- The words कुक्कुटी &c becomes masculine before अण्ड &c : as, कुक्कुट्या अण्डं = कुक्कुटाण्डन् । भृग्याः पदं = भृगपदम्, मृग्याः क्षीरं = मृगक्षीरम्, काक्याः शावः = काकशावः ॥ This rule need not be made, as the first member in these compounds may be considered as class denoting words of common gender. Vart:- When a word formed by an affix having an indicatory ख, or the affixes तर and तम &c (6.3.43) follow, the final long vowel of the first term becomes short instead of its becoming masculine. As कालीमात्मानं मन्यते काल्येवाहम् = कालिंमन्या (compare (6.3.66)) हरिणिंमन्या, पट्वितरा, पट्वितमा, पट्विरूपा, पट्विकल्पा, पट्विका, मृद्विका ॥ We have said that the rule does not apply to the feminines in ऊ ॥ The words इडविट्, दरद्, पृथ and उशिज are names of countries denoting *Kshatriya* clans. The *tadraja* affix (6.1.168) and (6.1.170), is elided in forming the feminine of these (4.1.177). Thus we have the compound of इडविट् वृन्दारिका ॥ When the first words become masculine, we have ऐडविड, दारद्, &c. Thus ऐडविडवृन्दारिका, औशिजवृन्दारिका ॥ Bhashya ------- पुंवत्कर्मधारयजातीयदेशीयेषु (2901) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न सामान्येन सिद्धम् ? (6444 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - पुंवत्कर्मधारये प्रतिषिद्धार्थम् - प्रतिषिद्धार्थोऽयमारम्भः । न कोपधायाः (37) इत्युक्तं तत्रापि पुंवद्भावो भवति । कारिका वृन्दारिका - कारकवृन्दारिका, कारकजातीया, कारकदेशीया ॥ संज्ञापूरण्योश्च (38) इत्युक्तं तत्रापि पुंवद्भवति । दत्ता वृन्दारिका - दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया । पञ्चमी वृन्दारिका - पञ्चमवृन्दारिका, पञ्चमजातीया, पञ्चमदेशीया ॥ वृद्धिनिमित्तस्य - (39) इत्युक्तं तत्रापि पुंवद्भावो भवति । स्रौघ्नी वृन्दारिका - स्रौघ्नवृन्दारिका, स्रौघ्नजातीया, स्रौघ्नदेशीया ॥ स्वाङ्गाच्चेतोऽमानिनि (40) इत्युक्तं तत्रापि पुंवद्भावो भवति । श्लक्ष्णमुखी वृन्दारिका - श्लक्ष्णमुखवृन्दारिका, श्लक्ष्णमुखजातीया, श्लक्ष्णमुखदेशीया ॥ जातेश्च (41) इत्युक्तं तत्रापि पुंवद्भवति । कठी वृन्दारिका - कठवृन्दारिका, कठजातीया, कठदेशीया ॥ (6445 उपसंख्यानवार्तिकम् ॥ 2 ॥) - कुक्कुट्यादीनामण्डादिषु पुंवद्वचनम् - कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्या अण्डं - कुक्कुटाण्डम् । मृग्याः पदं - मृगपदम् । काक्याः शावः - काकशावः ॥ (6446 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - न वाऽस्त्रीपूर्वपदविवक्षितत्वात् - न वा वक्तव्यम् । किं कारणम् ? अस्त्रीपूर्वपदविवक्षितत्वात् । नात्र स्त्रीपूर्वपदं विवक्षितम् । किं तर्हि ? अस्त्रीपूर्वपदं विवक्षितम् । उभयोरण्डम्, उभयोः पदम्, उभयोः शावः ॥ यद्यपि तावदत्रैतच्छक्यते वक्तुम् । इह तु कथं-मृग्याः क्षीरं - मृगक्षीरम् ? अत्रापि न वाऽस्त्रीपूर्वपदविवक्षितत्वादित्येव । कथं पुनः सतो नामाविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा - अलोमिका एडका, अनुदरा कन्या । असतश्च विवक्षा भवति । तद्यथा - समुद्रः कुण्डिका, विन्ध्यो वर्द्धितकमिति ॥ (6447 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 4 ॥) - अग्नेरीत्वाद्वरुणवृद्धिर्विप्रतिषेधेन - अग्नेरीत्वाद्वरुणस्य वृद्धिर्भवति विप्रतिषेधेन । अग्नेरीत्वस्यावकाशः - अग्नीषोमौ । वरुणस्य वृद्धेरवकाशः - वायुवारुणम् । इहोभयं प्राप्नोति - आग्नीवारुणीमनड्वाहीमालभेत । वरुणस्य वृद्धिर्भवति विप्रतिषेधेन ॥ (आक्षेपभाष्यम्) नैष युक्तो विप्रतिषेधः । द्विकार्ययोगो हि विप्रतिषेधः, नात्रैको द्विकार्ययुक्तः । कथम् ? अग्नेरीत्वम्, वरुणस्य वृद्धिः - इति ॥ (समाधानभाष्यम्) नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किं तर्हि ? असंभवोऽपि, स चात्रास्त्यसम्भवः । कोऽसावसंभवः ? अग्नेरीत्वमभिनिर्वर्तमानं वरुणस्य वृद्धिं बाधते । वरुणस्य वृद्धिरभिनिर्वर्तमाना अग्नेरीत्वं बाधते । एषोऽसंभवः । सत्यसंभवे युक्तो विप्रतिषेधः ॥ (6448 विप्रतिषेधवार्तिकम् ॥ 5 ॥) - पुंवद्भावात् ह्रस्वत्वं खिद्धादिकेषु - पुंवद्भावाद् ह्रस्वत्वं भवति विप्रतिषेधेन । पुंवद्भावस्यावकाशः - पटुभार्यः, मृदुभार्यः । खिति ह्रस्वत्वं भवतीत्यस्यावकाशः - कालिम्मन्यः, हरिणिम्मन्यः । इहोभयं प्राप्नोति - कालिम्मन्या, हरिणिम्मन्या । ह्रस्वो भवति विप्रतिषेधेन ॥ घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा । पुंवद्भावस्यावकाशः - दर्शनीयतरा, दर्शनीयतमा । इहोभयं प्राप्नोति - पटि्वतरा, पटि्वतमा । ह्रस्वो भवति विप्रतिषेधेन ॥ के ह्रस्वो भवतीत्यस्यावकाशः - नर्तकिका । पुंवद्भावस्यावकाशः - दारदिका । इहोभयं प्राप्नोति - पटि्वका, मृद्विका । ह्रस्वत्वं भवति विप्रतिषेधेन ॥ अथेदानीं ह्रस्वत्वे कृते पुनः प्रसङ्गविज्ञानात्पुंवद्भावः कस्मान्न भवति ? सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ Kashika ------- कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। प्रतिषेधार्थोऽयमारम्भः। **न कोपधायाः** (६.३.३७) इत्युक्त म् , तत्रापि भवति। पाचकवृन्दारिका। पाचकजातीया। पाचकदेशीया। **संज्ञापूरण्योश्च** (६.३.३८) इत्युक्त म्, तत्रापि भवति। दत्तवृन्दारिका। दत्तजातीया। दत्तदेशीया। पूरण्याः — पञ्चमवृन्दारिका। पञ्चमजातीया। पञ्चमदेशीया। **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** (६.३.३९) इत्युक्तम्, तत्रापि भवति। स्रौघ्नवृन्दारिका। स्रौघ्नजातीया। स्रौघ्नदेशीया। **स्वाङ्गाच्चेतोऽमानिनि**(६.३.४०) इत्युक्तम्, तत्रापि भवति। श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। **जातेश्च** (६.३.४०) इत्युक्त म्, तत्रापि भवति। कठवृन्दारिका। कठजातीया। कठदेशीया। भाषितपुंस्कादित्येव — खट्वावृन्दारिका। अनूङित्येव — ब्रह्मबन्धूवृन्दारिका॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः॥ कुक्कुट्या अण्डं कुक्कुटाण्डम्। मृग्याः पदं मृगपदम्। मृग्याःक्षीरं मृगक्षीरम्। काक्याः शावः काकशावः। न वास्त्रीपूर्वपदस्य विवक्षितत्वात्। स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जातिः सामान्येन विवक्षितः। पुंवद्भावाद् ह्रस्वत्वं खिद्घादिकेषु भवति विप्रतिषेधेन। खित् — कालिंमन्या। हरिणिंमन्या। घादि — पाट्वितरा। पट्वितमा। पट्विरूपा। पट्विकल्पा। क — पट्विका। मृद्विका। इहेडबिड् दरद् पृथ् उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः। तत्र तद्राजप्रत्ययस्य स्त्रियाम् **अतश्च** (४.१.१७७) इति लुकि कृत इडबिट् चासौ वृन्दारिका चेति विगृह्य समासः क्रियते। ततः पुंवद्भावेन ऐडबिडादयः पुंशब्दाः क्रियन्ते। ऐडबिडवृन्दारिका। औशिजवृन्दारिका॥ Siddhanta Kaumudi ----------------- कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥ Balamanorama ------------ **पुंवत् कर्मधारयजातीयदेशीयेषु** - पुंवत्कर्मधारय ।स्त्रियाः पुंवद्भाषितपुंस्कादनू॑ङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशेऽधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह — कर्मधारये इति ।तथाभूत॑मित्यनन्तरंस्त्रीवाचक॑मिति शेषः ।भाषितपुंस्कादनू॑ङित्येतत् 'स्त्रियाः पुंवत्' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारयेस्त्रियाः पुंव॑दित्यनेन सिद्धं पुंवत्त्वं, जातीयदेशीययोस्तुतसिलादिष्वाकृत्वसुचः॑ इत्यनेन सिद्धमित्यत आह — पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः ।सन्महदि॑त्यादिना समासः । नवानां पूरणी नवमी ।तस्य पूरणे डट्॒नान्तादसंख्यादेर्मट् । टित्त्वान्ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पुंवत्त्वे 'आन्महतः' इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी-चतुर्दशी । डट । 'नस्तद्धिते' इति टिलोपः । टित्त्वान्ङीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः । ॒पुंवत्कर्मधारय॑ इत्यस्य प्रयोजनान्तरमाह — तथा कोपधादेरिति । 'न कोरधायाः' 'संज्ञीपूरण्योश्च'वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑ 'स्वाङ्गाच्चेतः'जातेश्चे॑ति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या पञ्चमभार्येति दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्रसंज्ञापूरण्योश्चे॑ति प्रतिषेधः प्राप्तः । रुआऔग्घ्नभार्येति । रुआऔग्घ्नी चासौ भार्या चेति कर्मधारयः । अत्रवृद्धिनिमित्तस्य चे॑ति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेसी चासौ भार्या चेति कर्मधारयः । अत्र 'स्वाङ्गाच्चेत' इति निषेधः प्राप्तः । ब्राआहृणभार्येति । ब्राआहृणी चासौ भार्या चेति कर्मधारयः । अत्रजातेश्चे॑ति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति — एवं पाचकजातीया पाचकदेशीयेति । 'प्रकारवचने' इति जातीयर् । 'ईषदसमाप्तौ' इति दैशीयर् । उभयत्रापि 'तसिलादिषु' इति पुंवत्त्वस्य 'न कोपधायाः' इति निषेधः । प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । रुआऔघ्नजातीया, रुआऔघ्नदेशीया । सुकेशजातीया, सुकेषदेशीया । ब्राआहृणजातीया, ब्राआहृणदेशीया । तदेवं पुंवत्कर्मधारये॑ति सूत्रं निरूप्यपोटायुवती॑ति सूत्रस्य क्रमेणोदाहरणान्याह — इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणेति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः= अल्पः, स चासौ अग्निश्चेति विग्रहः । उदइआत्कतिपयमिति । 'तक्रं ह्रुदइआत्' इत्यमरः । कतिपयं च तदुदइआच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः बेहद्नर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः ।तरुणवत्से॑त्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्ता=अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । अध्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः ।धूर्तोऽक्षदेव॑त्यमरः विट इत्यन्ये । नचकुत्सितानि कुत्सनैः॑ इत्यनेन सिद्धिः शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितदम् । Tattvabodhini ------------- **पुंवत् कर्मधारयजातीयदेशीयेषु** - भाषुतपुंस्कादित्यादि । एतच्चस्त्रियाः पुंव॑दिति सूत्रे स्फुटीकरिष्यते । ननु तेनैव कर्मधारयेऽपि सिद्धं जातीयदेशीययोस्तुतसिलादिष्वि॑ति सिद्धं, तत्किमनेन सूत्रेणेत्यत आह — पूरणीप्रियादिष्विति । तथेति च । महानवमीति । नवानां पूरणी ।तस्य पूरणे डट्॒नान्तादसङ्ख्यादेर्मट॑ । टित्त्वान्ङीप् । महती चासौ नवमी चेत् विग्रहः । पुंवद्भावे कृते वक्ष्यमाणेन महत आकारः । कोपधादेरिति ।न कोपधायाः॑संज्ञापूरण्योश्च॑वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑त्वाह्गाच्चेतः॒॑जातेश्चे॑ति पञ्चसूत्र्या प्रितषिद्ध इत्यर्थः । क्रमेणोदाहरति — पाचकस्त्रीति । जातीयदेशययोरपि प्रतिप्रसवमुदाहरति — एवमिति । पाचिकाप्रकारवती पाचकजातीया । प्रकारवचने जातीयर् । पाचकदेशीयेति ।ईषदसमाप्तौ॑इति देशीयर् । उभयत्रतसिलादिषु॑इति पुंवद्भावस्यन कोपधायाः॑ इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थत्वात् । इत्यादीति । आदिपदाद्दत्तजातीया, पञ्चमजातीया, रुआऔग्ध्नजातीया, सुकेशजातीयै, ब्राआहृणजातीया । एवं दत्तदेशीयेत्याद्युदाहार्यम् । स्त्रीपुंसलक्षणेति । स्तनश्मश्र्वादियुक्ता स्त्रीत्यर्थः । उदइआदिति ।तक्रं ह्रुदइआन्मथितं प#आदाम्ब्वार्धाऽम्बु निर्जल॑मित्यमरः । कठधूर्त इति । नात्र कठत्वं कुत्स्यते, अतःकित्सितानि कुत्सनैः॑ इति गतार्थता शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः ।जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्याना॑मित्यत्रधूर्तबक॑इत्यसाधुरेव । Padamanjari ----------- ननु कर्मधारये स्त्रियाः पुंवत् इत्यादिना सिद्धः पुंवद्भावः जातीयदेशीययोरपि तसिलादिष्विति, किमर्थोऽयमारम्भः इत्यत आह - प्रतिषिद्धार्थोऽयमिति । प्रतिषिद्धोऽपि पुंवद्भावो यथा स्यादित्येवमर्थमित्यर्थः । प्रतिषेधार्थोऽयमिति पाठे प्रतिषेधाविषयः प्रतिषेधशब्देनोक्तः । निवृत्तिवचनो वार्थशब्दः । कुक्कुट।लदीनामित्यादि । अस्त्र्यर्थेमसमानाधिकरणार्थं वचनम् । न वेत्यादि । उपसंख्यानं प्रत्याचष्टे । न वा वक्तव्यम्, किं कारणम् स्त्रीपूर्वपदस्याविवक्षितत्वात् । नात्र स्त्रीत्वावसायः आरभ्यमाणेऽपि पुंवद्भावे समाश्रयणीयः, अनारम्भऽपि तथा भविष्यति । यदि तर्हि स्त्रीलिङ्गेन समासो न भविष्यति । यद्यपि तावदत्रैतच्छक्यते वक्तुम्, इह तु कथं मृग्या क्षीरं मृगक्षीरमिति, नहि पुंसः क्षीरेण सम्बन्धोऽस्ति अत्रापि जात्यन्तरनिवृत्तिपरत्वाच्चोदनायाः स्त्रीत्वमाकिञ्चित्करत्वादविवक्षितम् । यत्र तु लिङ्ग, विशेष उपकारकस्तत्रासौ विवक्षित एव यथा - अडामूत्रेण पर्युक्षितं दातव्यमिति । पूर्वपदार्थोऽत्र जातिरिति । कुक्कुटाण्डाजौ पूर्वपदार्थो जातिः स च समामान्येन स्त्रीत्वादिविशेषरहितेन रुपेण विवक्षित इत्यर्थः । खिद्घादिष्विति । तत्र खिति विप्रतिषेधः स्त्रियाः पुंवत् इत्यत्रैवोदाहृतः । घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरुपा, नर्तकिकल्पा, यत्र पुंवद्भावः प्रतिषिध्यते न कोपधायाः इति - तसिलादिष्विति । पुंद्भावस्यावकाशः यद् ङ्यन्तं न भवति - दर्शनीयतरेत्यादि । पट्वितरेत्यादावुभयप्रसङ्गे विप्रतिषेधः । केऽणो ह्रस्वो भवतीत्यावकाशः - नर्तकिका, पुंवद्भावस्यावकारः - दरदोऽपत्यं स्त्री, द्व्यञ्मगध इत्यण्, तस्य अतश्च लुक्, ततः प्रागिवात्कः, तसिलादिष्विति पुंवद्भावाद्दारदशब्दः, प्रत्ययस्थात् इतीत्वं दारिदिका । ननु च परिगणितास्तसिलादयः न च कप्रत्ययस्तेषु समस्ति एवं तर्हि विप्रतिषेधादेव कप्रत्ययोऽपि तत्राभ्युपगम्यत इति अनुमीयते, पट्विका मृट्विकेत्यादावुभयप्रसङ्गे परत्वाद् ह्रस्वः, सर्वत्र चात्र सकृदित्याश्रयणाद् पुंवद्भावाभावः । अनूङिति यदुक्तं तस्य प्रयोजनं दर्शयति - इहेत्यादि । तद्राजप्रत्ययस्येति । ये द्व्यचस्तेषु द्व्यञ्मगध इत्यण्, शेषेषु जनपदशब्दात् इत्यञ् , पृथ तैति थकारान्तः ॥ घरुपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ 6।3 - 43 ॥ एचेलादीनां वृत्ति विषये कुत्सनवचनत्वातैः कुसितानि कुत्सनैः इति समासः । ङ्य इत्यत्र ईयाश्च्छन्दसि बहुलम् इत्यादिवदागमः प्राप्तः, सौत्रत्वान्न कृतः ॥ दतातरेति । ननु च स्वाङ्गाच्चेतः इत्यतः ईतः इत्यनुवर्तिष्यते । एवमपि प्रामणीतरः - अत्रापि प्राप्नोति स्त्रियामिति वर्तते । एवमपि प्रमणीतरा - अत्रापि प्राप्नोति स्त्रियाम इति वर्तते, स्त्रीया ईतः स्त्रीवाचिन ईकार स्येत्यर्थः, ग्रामणीशब्दे त्वनर्थक ईकारः । शेषप्रवलृप्त्यर्थं तर्हि ङीब्ग्रहणम्, क्रियमाणे हि ङीब्ग्रहणे ङ्योऽनेकाचः इति श्रुतत्वातदपेक्षः शेषो लभ्यते - अङीब् या नदी ङ्यन्तं च यदेकाजिति । अन्तरणापि ङीब्ग्रहणं प्रवलृप्तः शेषः, कथम् ईत इति वर्तते, अनीच्च या नदी ईदन्तं च यदेकाजिति । तदेतन्ङीग्रहणं तिष्ठतु तावत् ॥ Nyaas ----- ननु च कर्मधारये `स्त्रियाः पुंवत्` (6.3.33) इत्यादिना पुंवद्भावः सिद्धः, जातीयदेशीयशब्दयोरपि **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यादिना, तत्? किमर्थोऽयमारंभः? इत्यत आह - `प्रतिषेधार्योऽयमारमभः` इति। परतिषेधविषयः प्रतिषेधशब्देनोक्तः। साहचर्यात्? प्रतिषेधोऽर्थः प्रयोजनं यस्येति स तथोक्तः। यत्र विषये प्रतिषेध उक्तस्तत्र पुंवद्भावः प्रयोजनमित्यर्थः। अथ वा - अर्थशब्दो निवृत्ताविह - वर्तते, यथा - मशकार्थो धूम इति। तेनायमर्थो भवति - प्रतिषेधनिवृत्यर्थोऽयमारम्भ इति।`भाषितपुंस्कादित्येव` इति। यदि `भाषितपुंस्कादनूङ्` (6.3.33) इति च नानुवर्तते, तदाऽभाषितपुंस्कार्थमनूङर्थञ्चेदं वचनं स्यात्, न प्रतिषेधार्थम्। एवं च खट्वावृन्दारिका, ब्राहृबन्धूवृन्दारिकेत्यात्रापि पुंवद्भावः स्यात्। तस्माद्भाषितपुंस्कादनूङित्यनुवर्तनीयम्।`कुक्कुटआदीनाम्` इत्यादि। उत्तरपदस्यान्तादेरस्त्रीत्वादसामानाधिकरण्याच्च पुंवद्भावो न प्राप्नोतीत्युपसंख्यायते। `न वा` इत्यनेनोपसंख्यानं प्रत्याचष्टे - न वा वक्तव्यः, कस्मात्? अस्त्रीपूर्वपदस्य विवक्षितत्वात्। अस्त्रीलिङ्गस्य पूर्वपदस्य विवक्षितत्वादित्यभिप्रायः। अस्यैवार्थं विस्पष्टीकर्त्तुमाह - `स्त्रीत्वेन विना` इत्यादि। अत्र हि मयूरादिजात्यन्तरस्या निवृत्तिर्विवक्षिता। जात्यन्तरनिवृत्तिपरायां देशनायां लिङ्गविशेषोपादानमनुपकारकमेव। विनापि तेन जात्यन्तरनिवृत्तिः शक्यत एव कर्तम्। तथा हि - मृगमांसमित्युक्ते अन्तरेणापि लिङ्गविशेषोपादानं जात्यन्तरसय व्यवच्छेद उपपद्यते - मृगजातिसम्बन्धि मांसम्, नान्यजातिसम्बन्धीति। तस्मात्? स्त्रीत्वमत्रानुपकारित्वान्न विवक्षितम्, अतः स्त्रीत्वेन विना पूर्वपदस्यार्थोऽत्रि कुक्कुटाण्डादौ जातिसामान्येन स्त्रीत्वदविशेषविहितो विवक्षित इत्यर्थः। ततश्चास्त्रीलिङ्गा एवात्र कुक्कुटादयः शब्दा अण्डादिभिः शब्दं समस्यन्त इति भावः। कः पुनरसौ पूर्वपदार्थः? कुक्कुटादिजात्या व्यवछिन्नं द्रव्यमात्रम्।`पुंवद्भावात्` इत्यादि। अत्र खिति पुंवद्भावाद्घ्रस्वत्वं विप्रतिषेधेन भवतीति पूर्वमेव व्याख्यातम्। घादिषु तु व्याख्यायते। घादिषु ङ्यो ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरूपा, नर्तकिकल्पेति; पुंवद्भावस्यावकाशः - दर्शनीयतरा, दर्शनीयतमां, दर्शनीयरूपा, दर्शनीयकल्पेति; इहोभयं प्राप्नोति - पट्वितरा, पट्वितमा; पट्विरूपा, पट्विकल्पेति; विप्रतिषेधेन ह्रस्वत्वं भवति। `केऽणः` (7.4.13) इति ह्रस्वस्यावकाशः - नर्तकिकेति; अज्ञातादावर्थे `प्रागिवात्? कः` (5.3.70) पूर्वद्भावस्यावकाशः - दारदिकेति। दरच्छब्दस्यात्र के परतः `तसलादिष्वाकृत्वासुचः` (6.3.34) इति पुंवद्भावेन दारदशब्दो भवति। अतष्टापि कृते `प्रत्ययस्थात्? कात्` (7.3.44) इत्यादिनेत्त्वमिहोभयं प्राप्नोति। `पट्विका` इति। अत्र विप्रतिषेधेन ह्रस्वत्वं भविष्यति। केन पुनः पुंवद्भावः, यावता तसिलादिषु परिगणनं कृतम्, न च ततर कप्रत्ययः परिगणितः? एतत्? भाष्यकारः प्रष्टव्यो यः परिगणनं करोति, न तु सूत्रकारः। पूर्व यस्य सिद्धयेऽनूङिति प्रसज्यप्रतिषेध आश्रितस्तद्दर्शनार्थमाह - `इह` इत्यादि। `तत्र तद्राजप्रत्ययस्य` इत्यादि। तत्रेडविट्, पृथु इत्येताभ्यां **जनपदशब्दात् क्षत्रियादञ्** (4.1.168) इति विहितस्याञस्तद्राजप्रत्ययस्य `अतश्च` (4.1.175) इति लुक्। दरद्? उशिजित्येताभ्यां तु **द्व्यञ्मगधकलिङ्गसूरमसादण्** (4.1.170) इत्यादिना विहितस्याणः। इडविट्? चासौ वृन्दारिका चेति विगृह्र समास इति। `विशेषण` इत्यादिना, `अत्रैडविडादयः` [नास्ति - काशिका] इति आदिशब्देन दारदः, पारथः, औशिज इत्येते गृह्यन्ते॥ Prakriyasarvasvam ----------------- एषु भाषितपुंस्कादनूङ्स्त्रियाः प्रतिषेधविषयेऽपि पुंवत्त्वं स्यात् । तत्र कोपधादौ—रसिका नारी रसिकनारी । रसिकजातीया । रसिकदेशीया । एवं दत्तवृन्दारिका । पञ्चमभार्या । मधुरवधूः । सुकेशतरुणी । ब्राह्मणवनिता इति । 'अपूरणीप्रियादिष्विति निषेधोऽप्यत्र ने'ति हरः । महानवमी । कृष्णचतुर्दशी । सुन्दरप्रिया । (वा० २-१-५१) वृत्तिः समासादिः । अन्यस्यां सक्तोऽन्यसक्तः । भवत्याः पतिर्भवत्पतिः इति ॥ Vartika ------- कुक्कुट्यादीनामण्डादिषु । Sutra Prayogas -------------- * **निर्यातशेषा** (रघुवंशम्): `पुंवत्कर्मधारयजातीयदेशीयेषु` इति पुंवद्भावः।