63038: संज्ञापूरण्योश्च¶
Padacheda: संज्ञा-पूरण्योः | S | 6 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The feminine is not changed to masculine when it is a Name or an Ordinal Numeral.
Vasu English Translation¶
The feminine is not changed to masculine when it is a Name or an Ordinal Numeral. Thus दत्ताभार्यः । गुप्ताभार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्तामानिनी । पूरण्याः । पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमीपाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ॥
Kashika¶
संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति। दत्ताभार्यः। गुप्ताभार्यः। दत्तापाशा। गुप्तापाशा। दत्तायते। गुप्तायते। दत्तामानिनी। गुप्तामानिनी। पूरण्याः — पञ्चमीभार्यः। दशमीभार्यः। पञ्चमीपाशा। दशमीपाशा। पञ्चमीयते। दशमीयते। पञ्चमीमानिनी। दशमीमानिनी॥
Siddhanta Kaumudi¶
अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥
Balamanorama¶
संज्ञापूरण्योश्च - ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दित्यस्य प्रसक्तेरेवाऽभावात्क तन्निषेधेनेत्यत आह — दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्थादिशब्दवन्न, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषिपुंस्कत्वात्पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुंवत्त्वनिषेधमुदाहरति — पञ्चमीभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्रस्त्रियाः पुंव॑दिति प्राप्तं निषिध्यते । पञ्चमीपाशेति । निन्दिता पञ्चमीत्यर्थः ।याप्ये पाशप् । अत्र तसिलादिषु॑ इति प्राप्तं पुंवत्वं निषिध्यते ।
Tattvabodhini¶
संज्ञापूरण्योश्च - संज्ञापूरण्योश्च । यत्तुदत्तायते॑इति क्यङन्तमपि वृत्त्यादिषूदाहृतं, तत्तु विशेषाऽभावादिहोपेक्षितम् । पञ्चमीपाशेति ।याप्ये पाशव् ।तसिलादिषु॑इति प्राप्तिः ।
Padamanjari¶
संज्ञाशब्दा ये दानादिक्रियानिभिताः पुंसि च स्त्रियां च लोके प्रयुज्यन्ते तदर्थः संज्ञाप्रतिषेधः । ये त्वेकद्रव्यनिमिता देशनिमिता वा संज्ञाशब्दास्तत्राभाषितपुंस्कत्वादेवाप्रसङ्गः । दतायते, गुप्तायते इति । अत्र यद्यपि सत्यसति वा प्रतिषेधे विषेषाभावः, तथापि वस्तुतः प्रतिषेधस्यच विषय इत्येतावताऽस्योपन्यासः ॥
Nyaas¶
कथं पुनः संज्ञाशब्दस्य पुंवद्भवस्य प्राप्तिः, यावता भाषितपुंस्कस्य पुंवद्भाव उक्तः, न च यः संज्ञाशब्दः स्त्रियां वर्तते स भाषितपुंस्को भवति, एकद्रव्यनिवेशित्वात्? संज्ञाशब्दानाम्? नैतदस्ति; न ह्रयं नियोग एकद्रव्यनिवेशित्वात संज्ञाशब्दानाम्? नैतदस्ति; न ह्रं नियोग एकद्रव्यनिवेशिभिरेव संज्ञाशब्दैर्भवितव्यमिति। तथा हि -देवदत्तादिशब्दोऽनेकद्रव्यदानक्रियादिसम्बन्दान्नैकवस्तुसंज्ञाभूत एव लरोके प्रयुज्यमान उपलभ्यते, शास्त्रेष्वपि स्वादिशब्दः। या त्वेकद्रव्यनिवेशिनी संज्ञा तां प्रति नैवायं प्रतिषेधः क्रियत इत्यसारं चोद्यम्। ननु भवन्तु संज्ञाशब्दा अनेकार्थवृत्तयः भाषितपुंस्कास्त्वेकस्यामाकृतौ, कथं तर्हि तेषां किञ्चित्? प्रवृत्तिनिमित्तमस्ति, यदृच्छाशब्दत्वात्? एतदप्यसारम्; यतस्तेषामपि केषांचित्? किञ्चित्? प्रवृत्तिनिमित्तमस्त्येव, सप्तपर्णादिशब्दवत्। यत्राप्येतन्नास्ति, तत्रापि स्वरूपमेव प्रवृत्तिनिमित्तमुपादायाभिधेये वर्तन्ते। तत्राभिन्ने प्रवृत्तिनिमित्ते यैर्भाषितः पुमान्? ते भाषितपुंस्का इति किमत्रानुपपन्नम्? दत्ताभ्र्यः इति। अत्र यासौ दानक्रियाकृतिस्तस्यामेव दत्ताशब्दो भाषितप#उ#ंस्कः। गुप्ताभार्यः इति। अत्रापि गुप्ताशब्दो गोपनक्रियाकृतौ स्वरूपे वा प्रवृत्तिनिमित्ते। उभावपि भाषितपुंस्कशब्दौ दत्तायते गुप्तायते इति। कथमेते प्रतिषेधस्योदाहरणे उपन्यस्ते, यावता सत्यपि पुंवद्भावे अकृत्सार्वधातुकयोदीर्घः (7.4.25) इति दीर्घत्वेनोभयमप्येतत्? सिद्धम्? एवं मन्यते संज्ञापूर्वो विधिरनित्यः (व्य।प।64) इति, तत्र यदि पुंवद्भावप्रतिषेधो न स्यात्, तदा दीर्घत्वाभावोऽनुमीयते। तस्मिन्? पक्षे दत्तयते गुप्तयत इत्यपि स्यादिति। न कोपधासंज्ञापूरणीनाम् इत्येकस्मिन्नेव योगे कत्तव्ये योगविभागः न कोपधायाः (6.3.37) इत्यस्य प्रतिषेधस्यानित्यत्वज्ञापनार्थः कृतः। तेन यदुक्तम् -`कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्? (वा।733) इति, तन्न कर्तव्यं भवति॥
Prakriyasarvasvam¶
अनयोर्न पुंवत् । दत्ताभार्यः । पञ्चमीभार्यः ॥
Sutra Prayogas¶
चपलाजनं (शिशुपालवधम्): संज्ञापूरण्योश्च इति पुंवद्भावप्रतिषेधः।