63039: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे¶
Padacheda: वृद्धिनिमित्तस्य | S | 6 | 1 |
च | S | 0 | 0 |
तद्धितस्य | S | 6 | 1 |
अ-रक्तविकारे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The feminine is not changed into masculine when it is formed by such a तद्धित affix which causes the वृद्धि of the first syllable with exception however of तद्धित-substitute meaning ‘coloured therewith’ and ‘made thereof’.
Vasu English Translation¶
The feminine is not changed into masculine when it is formed by such a तद्धित affix which causes the वृद्धि of the first syllable with exception however of तद्धित-substitute meaning ‘coloured therewith’ and ‘made thereof’. Thus स्रौघ्नीभार्यः, माथुरीभार्यः, स्रौघ्नीपाशा, माथुरीपाशा, स्रौघ्नीयते, माथुरीयते, स्रौघ्नीमानिनी and माथुरीमानिनी ॥
Why do we says ‘which causes Vriddhi’? Observe मध्यमभार्यः (मध्ये भवा = मध्यमा formed by the affix म (4.3.8) which does not cause Vriddhi). Why do we say ‘of a Taddhita’? Observe काण्डलावभार्यः (काण्डं लुनाति = काण्डलावी with अण् (कर्मण्यण्) and ङीप्). Why do we say when not meaning ‘colored there with’ or ‘made thereof’? Observe कषायेण रक्ता = काषायी, काषायी वृहतिका यस्य = काषायवृहतिकः, लोहस्य विकारोलौही लौही ईषा यस्य स्थस्य = लोहेषः (4.3.134). The word वृद्धिनिमित्तस्य should be explained as a Bahuvrihi, and not a Tatpurusha, i. e. a taddhita affix, in which there is an element like ण् or ञ् or क् &c which causes Vriddhi. Therefore this exception does not apply to तावद्भार्यः यावद्भार्यः (तावती भार्या यस्य &c). Here the affix वतुप् (5.2.39) added to तद् does not cause Vriddhi by its own force, but by (6.3.91).
Kashika¶
नेति वर्तते। वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः, स यदि रक्ते ऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद् भवति। स्रौघ्नीभार्यः। माथुरीभार्यः। स्रौघ्नीपाशा। माथुरीपाशा। स्रौघ्नीयते। माथुरीयते। स्रौघ्नीमानिनी। माथुरीमानिनी। वृद्धिनिमित्तस्येति किम्? मध्यमभार्यः। तद्धितस्येति किम्? काण्डलावभार्यः। बहुव्रीहिपरिग्रहः किमर्थः? तावद्भार्यः। यावद्भार्यः। अरक्त विकार इति किम्? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य य काषायबृहतिकः। लोहस्य विकारो लौही, लौही ईषा यस्य रथस्य स लौहेषः। खादिरेषः॥
Siddhanta Kaumudi¶
वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥
Balamanorama¶
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे - वृद्धिनिमित्तस्य च । वृद्धेर्निमित्तं हेतुरिति विग्रहः । रक्तं च विकारश्चेति समाहारद्वन्द्वः । तता नञ्तत्पुरुषः । रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह — वृद्धिशब्देनेत्यादिना । तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । रुआऔग्घ्नीति । रुआउग्घ्नो देशः । ‘तत्र भव’ इत्यण् । ‘यस्येति च’ इत्यकारलोपः । णित्त्वादादिवृद्धिःटिड्ढाण॑ञिति ङीप् । रुआऔघ्नी भार्या यस्येति विग्रहः । ‘स्त्रियाः पुंवत्’ इति प्राप्तमिह निषिध्यते । माथुरीयते माथुरीमानिनीति । मथुरायां भवा माथुरी, ‘तत्र भवः’ इत्यण् । ‘यस्येति च’ इत्यकारलोपः, आदिवृद्धिः,टिड्ढे॑ति ङीप् । माथछुरीवाचरतीत्यर्थेकर्तुः क्य॑ङिति क्यङ् । ‘सनाद्यन्ताः’ इति धातुत्वाल्लडादि । माथुरीयते । माथुरीं मन्यते माथुरीमानिनी । ‘मनः’ इति णिनिः । उपधावृद्धिः । उपपदसमासः । सुब्लुक् । नान्तत्वान्ङीप् । इहोभयत्रापिक्यङ्भानिनोश्चे॑ति प्राप्तं पुंवत्त्वं निषिध्यते । मध्यमभार्य इति । मध्ये भवा मद्यमा । ‘मध्यान्मः’ इति मः । म ध्यमा भार्या यस्येति विग्रहः । स्त्रियाः पुंव॑दिति पुंत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाऽभावान्न पुंवत्त्वनिषेधः । काण्डलाभार्य इति । काण्डं लुनातीति काण्डलावी । ‘कर्मण्यण्’ इत्यण्प्रत्ययः कृत् । ‘अचो ञ्णिति’ इति वृद्धिः, आवादेशः, उपपदसमासः, टिड्ढाण॑ञिति ङीष् । काण्डलावी भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः । अत्राऽणः कृत्त्वात्तद्धितत्वाऽभावान्न पुंवत्त्वनिषेधः । तावद्भार्य इति । तत् परिमाणमस्यास्तावती ।यत्तदेतेभ्यः परिमाणे वतुप् इति तच्छब्दाद्वतुप् तद्धितः, ‘आ सर्वनाम्नः’ इत्याकारः, उगित्त्वान्ङीप् । तावती भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः, ‘आ सर्वनाम्नः’ इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाऽभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः । रक्ते त्विति । रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायीति । कषायो गौरिको धातुविशेषः । तेन रक्ता काषायी ।तेन रक्तं रागा॑दित्यणियस्येति चे॑ति लोपः, आदिवृद्धिः,टिड्ढाण॑ञिति काषायकन्थ इति । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽणस्तद्धितस्य रक्तार्थकत्वान्न पुंवत्त्वनिषेधः । विकारे त्विति । विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । हैमीति । हेम्नो विकारभूतेत्यर्थः ।अनुदात्तादेश्चे॑त्यञ्, टलोपः, आदिवृद्धि,टिड्ढे॑ति ङीप् । हैमीचि रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽञस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः । स्यादेतत् । व्याकरणमदीते वेत्ति वा स्त्री वैयाकरणी,तदधीते तद्वेदे॑त्यण् तद्धितः ।यस्येति चे॑त्यकारलोपः । अणो णित्त्वात्तन्निमित्तिकाया यकाराकारस्य पर्जन्यबल्लक्षणप्रवृत्त्या प्राप्ताया वृद्धेःन य्वाभ्या॑मिति निषेधः । यकारात्प्रागैकारागमश्च,टिड्ढाण॑ञिति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ ‘वैयाकरणभार्य’ इति रूपम् । तथा स्वस्वस्यापत्यं स्त्री ।अत इञ्इति इञोऽपवादः शिबाद्यण्,यस्येति चे॑ति लोपः । प्रथमवकारात्परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः । प्रथमबकारात्प्रागौकारागमश्च,टिड्ढे॑ति ङीप् । सौवआई भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ ‘सौवआभार्य’ इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेःन य्वाभ्या॑मिति निषेधेऽपि अणस्तस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्वनिषेधो दुर्वार इत्यत आह — वृदिंध प्रति फलोपधानाऽभावादिति । प्रतीत्यनन्तरंनिमित्तस्य तद्धितस्ये॑ति शेषः । अणो वृद्धिनिमित्तस्य यत् फलं=वृद्धिस्तेन उपधानं=तात्कालिकसाहित्यं, तदभावादित्यर्थः ।वृद्धेस्तद्धितस्ये॑त्येतावत्युक्तेऽपि निमित्तत्वसंबन्धे वृद्धेरिति षष्ठीमाश्रित्यवृद्धिनिमित्ततद्धितस्ये॑त्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति बावः । यद्यप्यैजागमसिद्धवृदिंध प्रति अण्प्रत्ययः फलोपिहतमेव निमित्तन्तथापि वृद्धिशब्देन विहितां वृदिंध प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिरिग गृह्रत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा एजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात्तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः ।
Tattvabodhini¶
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे - वृद्धिनिमित्तस्य । रुआऔग्घ्नीति । रुआउग्घ्ने भवा ।तत्र भवः॑इत्यणिटिड्ढे॑ति ङीप् । माथुरीयत इति । मथुरायां भवा माथुरी । सेवाऽऽचरतीत्यर्थेकर्तुः क्य॑ङिति क्यङ् । मध्यमेति । मध्ये भवा मध्यमा ।मध्यान्मा॑इति मः । काण्डलावेति । काण्डं लुनातीति काण्डलावी ।कर्मण्यण् । कृदयम् । तावदिति । तत्परिमाणमस्यास्तावती ।यत्तदेतेभ्यः॑इति वतुपिआ सर्वनाम्नः॑ इत्याकारो न वृद्धिशब्देन विहित इति भावः । काषायीति । कषायेण रक्तेत्यर्थेतेन रक्तं रागा॑त्यणि ङीप् । हैमीति । हेम्नो विकार इत्यर्थेअनुदात्तदेश्चे॑त्यञ् । फलोपधानेति । मिमित्तशब्दः फलोपहितपरः । स्वरूपयोग्यपरत्वे तुवैयाकरणभार्य॑इत्यत्र पुंवद्भावो न सिध्येदिति भावः । व्याकरणमधीते वेत्ति वा वैयाकरणी ।तदधिते तद्वेदे॑त्यण् । स्वआस्यापत्यं स्त्री सौवआई ।तस्यापत्यम् इत्यण् । उभयत्र णित्त्वात्प्राप्ता आदिवृद्धिःन य्वाभ्या॑मित्यनेन प्रतिषिध्यत इति नायं वृदिंध प्रति फलोपहितः, किं तु स्वरूपयोग्यः । यद्यप्यैजागमनिमित्तत्वाद्वृदिंध प्रति फलोपहितोऽपि भवत्ययं तद्धितस्तथापि वृद्धिशब्देन विहितां वृदिंध प्रति न भवतीति भावः । अत्र व्याचक्षते -सूत्रे निमित्तशब्द#ः फलोपहितपरः, अन्यथा निमित्तग्रहणमनर्थकं स्यात् । वृद्धिस्तद्धितस्येत्युक्तेऽपि निमित्तत्वमेव सम्बन्ध इति वृद्धिनिमित्तं यस्तद्धित इत्यर्थलाभात् । तेन वृद्धिरित्ययमर्थो लभ्यते । अन्यथा फलोपहितपरत्वलाभो निष्फलः स्यात्, उक्तदोषतादवस्थ्यादिति । अमानिनीति वक्तव्यम् । सुकेशीति ।स्वाङ्गाच्चोपसर्जना॑दिति ङीष् । अकेशेति ।सहनञ्विद्यमाने॑ति निषेधान्ङीषभावः ।
Padamanjari¶
वृद्धेनिमितं णकारः । इह निमितग्रहणं न कर्तव्यम्, वृद्धेस्तद्धितस्य इत्येव वक्तव्यम् - वृद्धेर्यस्तद्धितः, कश्च वृद्धेस्तद्धितः यस्तस्या निमितमेवं सिद्धे निमितग्रहणाद्व्यधिकरणपदो बहुव्रीहिः । अपर आह - षष्ठीसमासादर्शाअद्यच्प्रत्यय इति । यद्वा - निमितग्रहणाद्वहुवचनान्तस्य समासः वृद्धीनां तिसृणामपि निमितं वृद्धिनिमितमिति । वतुस्त्वाकारस्यैव निमितम् । इह तु सर्वस्मै हिता सार्वा सा भार्या यस्य स सार्वभार्य इति यद्यपि सर्वपुरुषाभ्याम् इति णप्रत्यये आकार एव वृद्धिर्भवति, तथापि नासौ स्वरुपेण वृद्धेर्निमितम्, किं तर्हि णित्वेन । तच्च तिसृणामपि निमितम् । मध्ये भवा मध्यमा, तमध्यान्मः । काण्डं लुगातीति काण्डलावी, कर्मण्यण् टिट्ञाणञ् इति ङीप् , यतदेतेभ्यः परिमाणे वतुप् आ सर्वनाम्नः अगितश्चं ङ्प्, तावती । तत्पुरषाश्रयणेऽस्यापि प्रतिषेघः स्यात्, बहुव्रीहौ तु णकारदेरभावान् न भवति । काषायीति । तेन रक्तं रागात् इत्यण् । लौहीति । प्राणिरजतादिभ्योऽञ् । खदिरशब्दः पलाशादिः ईषा - रथावयवविशेषः ॥
Nyaas¶
वृद्धिनिमित्तं ञणकाः। रुआऔध्नीभार्यः इति। रुआउध्ने भवा, तत्र भवः (4.3.53) इत्यण्। टिड्ढाणञ् (4.1.15) इति ङीप्। एवं माथुरीभार्यः इत्यत्रापि। मध्यमभार्यः इति। मध्ये भवा, मध्यान्मः (4.3.8) इति मप्रत्ययः। काण्डलावभार्यः इति। काण्डं लुनातीति कर्मण्यण् (3.2.1) पूर्ववन्ङीप्। तावद्भार्यः इति। तावच्छब्दात्? तत्परिमाणमस्या इति यत्तदेतेभ्यः परिमाणे वतुप् (5.2.39) आ सर्वनाम्नः (6.3.91) इति दकारम्याकारः, उगितश्च (6.3.45) इति ङीप्। तावती भार्याऽस्य तावद्भार्यः, यदि वृद्धिनिमित्तस्येति तत्पुरुषो गृह्रेत तदात्रापि प्रतिषेधः स्यात्, भवति हि वतुब्? वृद्धेराकारास्य निमित्तम्। बहुव्रीहिपरिग्रहे तु न दोषः; न हि वतुपि ञकारादिकं वृद्धेर्निमित्तमस्ति। काषायी इति। तेन रक्तम् (4.2.1) इत्यण्। लौही इति। प्राणिरजतादिभ्योऽञ् (4.3.154) इत्यञ्, पूर्ववन्? ङीप्। खादिरेषः इति। पलाशादिभ्यो वा (4.3.141) इत्यञणोरन्यतरः। खादिरी ईषा यस्य स खादिरेषः॥
Prakriyasarvasvam¶
अरक्तविकारार्थस्य ञिदादितद्धितान्तस्य न पुंवत्त्वम् । माधुरीभार्यः । रक्ते तु—कौसुम्भपटीकः । विकारे—हैरण्यमेखलः । वैयाकरणी भार्या अस्य वैयाकरणभार्य इत्यादौ वृद्धिं निषिध्यैञ्विधानाद् वृद्धिनिमित्तत्वाभावात्पुंवत्त्वम् ॥