63037: न कोपधायाः

Padacheda: न | S | 0 | 0 |

कोपधायाः | S | 6 | 1 |

Sutrartha


Vasu English Summary

A feminine word having a penultimate क् does not assume the masculine form.

Vasu English Translation

A feminine word having a penultimate क् does not assume the masculine form. Thus पाचिकाभार्यः, कारिकाभार्यः, वृजिकाभार्यः, मद्रिकाभार्यः, मद्रिकाकल्पा, मद्रिकायते ॥ वृजिकायते, मद्रिकामानिनी, वृजिकामानिनी, वैलेपिकं (वैलेपिकाया धर्म्यं). This rule is an exception to all the previous rules (6.3.34) — (6.3.36) : and not only to (6.3.34).

Vart :- The rule applies to the क of the affix वु and the Taddhita क and not to every क ॥ Therefore the masculine transformation takes place here पाकभार्यः, भेकभार्यः ॥ The word पाका means “young”; and भेकी means ‘action’.

Bhashya

न कोपधायाः (2896) (निषेधविषये पक्षद्वयोपस्थापकं भाष्यम्) किमिदमेवमाद्यनुक्रमणं -आद्यस्य योगस्य विषये, आहोस्वित् पुंवद्भावमात्रस्य ? किं चातः ? (प्रथमपक्षे दोषभाष्यम्) यद्याद्यस्य योगस्य विषये, माध्यमिकीयाः - शालूकिकीयाः - अत्र न प्राप्नोति । विधिरप्यत्र न सिध्यति । किं कारणम् ? भाषितपुंस्कादनूङित्युच्यते, न ह्येतद्भाषितपुंस्कादनूङ् । इह तर्हि विलेपिकाया र्धम्यम् - वैलेपिकम्, विधिश्च सिद्धो भवति, प्रतिषेधश्च न प्राप्नोति ॥ (द्वितीयपक्षे दोषभाष्यम्) अथ पुंवद्भावमात्रस्य विषये, हस्तिनीनां समूहः - हास्तिकम् । जातिलक्षणः पुंवद्भावप्रतिषेधः प्राप्नोति ॥ (सिद्धान्तपक्षोंपपादकभाष्यम्) एवं तर्हि न कोपधायाः इत्ययं योगः पुंवद्भावमात्रस्य विषये । तत उक्तम् - एवमाद्यनुक्रमणमाद्यस्य योगस्य विषये ॥ (6442 उपसंख्यानवार्तिकम् ॥ 1 ॥) - कोपधप्रतिषेधे तद्धितवुग्रहणम् - कोपधप्रतिषेधे तद्धितस्य यः ककारो वोश्च यः, तस्य ग्रहणं कर्तव्यम् । इह मा भूत् - पाकभार्यः, भेकभार्यः ॥

Kashika

कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। विलेपिकाया धर्म्यं वैलेपिकम्॥ कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्॥ इह मा भूत् — पाकभार्यः, भेकभार्य इति॥

Siddhanta Kaumudi

कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥<!कोपधप्रतिषेधे तद्धितवुग्रणम् !> (वार्तिकम्) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥

Balamanorama

न कोपधायाः - न कोपधायाः । पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि । पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका । ‘अत इनिठनौ’ इति ठन् ।ठस्येकः॑ । टाप् । पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेषे भवा मद्रिका ।मद्रवृज्योः कन् । टाप् । इत्त्वम् । मद्रिकेवाटचरतीत्यर्थः ।क्यह्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थेमनश्चे॑ति णिनिः । उपपदसमासः । इहापिक्यङ्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात् । तद्धितवुग्रहणमिति ।न तद्धितवुकोपधायाः॑ इति सूत्रं पठनीयमिति यावत् । तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति ।तद्धितकोपधोदाहरण् । पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम् । तद्धितबुग्रहणस्य प्रयोजनमाह — नेहेति । पाकेति ।अर्भकपृथुकपाका वयसी॑त्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः ।

Tattvabodhini

न कोपधायाः - पाचिकाभार्य इति । पचतीति पाचिका । ण्वुल् ।युवो॑रित्यकादेशे टापिप्रत्ययस्था॑दितीत्त्वम् । रसिकाभार्य इति । रसोऽस्त्यास्या इति रसिका ।अत इनिठनौ॑इति ठन् । मद्रिकायत इति ।क्यङ्भानिनोश्चे॑ति पुंवत्त्वप्राप्तिः । मुद्रेषु भवा मद्रिका ।मद्रवृज्योः कन् । सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः ।तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाका भार्येति ।अर्भकपृथुकपाका वयसी॑ति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः ।वयसि प्रथम् इति ङीपं बाधित्वाऽजादित्वाट्टाप् ।

Padamanjari

मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढेअ तद्धिते एइति ह्याइपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ॥

Nyaas

पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। पाचिकाभार्यः, कारिकाभार्यः इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्। प्रत्ययस्थात्? कात्पूर्वस्यात इदाप्यसुपः (7.3.44) इतीत्त्वम्। अत्र स्त्रियाः पुंवत् (6.3.33) इत्यादिना प्राप्तिः। मद्रिकाभार्यः वृजिकाभार्यः इति। मद्रेषु भवा, वृजिषु भवेति मद्रवृज्योः कन्? (4.2.130) इति कन्। अत्रापि `स्त्रियाः पुंवत्? (6.3.33) इत्यादिना प्राप्तिः। `मद्रिकाकल्पा; वृजिकाकल्पा इति। अत्र तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन प्राप्तिः। मद्रिकायते इत्यादौ क्यङ्मानिनोश्च (6.3.36) इति प्राप्तिः। विलेपिकाया धम्र्यम् इति। लिप उपदेहे (धातुपाठः-1433) इत्यस्माण्ण्वुल्। वैलेपिकम् इति। अण्? महिष्यदिभ्यः (4.4.48) इत्यण्। अत्र भस्याढे तद्धिते (वा।731) इति वा प्राप्तिः। कोपधप्रतिषेधे इत्यादि। अस्मिन्? कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्। इह मा भूत् -पाकभार्यः इति। पाकशब्दोऽयं अर्भकपृथुकपाका वयसि (द।उ।3।50) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्। यदि तद्धितवुग्रहणं क्रियते, तर्हि पूर्वत्रासिद्धम् (8.2.1) इत्यत्र यद्वक्ष्यति -शुष्कजङ्घ इत्यत्र -शुषः कः (8.2.51) इत्यस्यासिद्धत्वात्? न कोपधयाः (6.3.36) इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्` इति तन्नोपपद्यते, असत्यपि शुषः कः इत्यस्यासिद्धत्वेनैवात्र न कोपधायाः (6.3.37) इति प्रतिषेधेन भवितव्यम्, न ह्यत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्। तत्? पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति॥

Prakriyasarvasvam

पाचिकाभार्यः । रसिकाभार्यः । अत्र तद्धितवुग्रहणं कार्यमिति तद्धितान्तानां ण्वुलाद्यन्तानां च कोपधानामेव पुंवत्त्वनिषेधः । पाका बाला । सा भार्यास्येति पाकभार्यः ॥

Vartika

कोपधप्रतिषेधे तद्धितवुग्रहणम् ।