63037: न कोपधायाः ================= **Padacheda:** न | S | 0 | 0 | कोपधायाः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A feminine word having a penultimate क् does not assume the masculine form. Vasu English Translation ------------------------ A feminine word having a penultimate क् does not assume the masculine form. Thus पाचिकाभार्यः, कारिकाभार्यः, वृजिकाभार्यः, मद्रिकाभार्यः, मद्रिकाकल्पा, मद्रिकायते ॥ वृजिकायते, मद्रिकामानिनी, वृजिकामानिनी, वैलेपिकं (वैलेपिकाया धर्म्यं). This rule is an exception to all the previous rules (6.3.34) — (6.3.36) : and not only to (6.3.34). Vart :- The rule applies to the क of the affix वु and the *Taddhita* क and not to every क ॥ Therefore the masculine transformation takes place here पाकभार्यः, भेकभार्यः ॥ The word पाका means "young"; and भेकी means 'action'. Bhashya ------- न कोपधायाः (2896) (निषेधविषये पक्षद्वयोपस्थापकं भाष्यम्) किमिदमेवमाद्यनुक्रमणं -आद्यस्य योगस्य विषये, आहोस्वित् पुंवद्भावमात्रस्य ? किं चातः ? (प्रथमपक्षे दोषभाष्यम्) यद्याद्यस्य योगस्य विषये, माध्यमिकीयाः - शालूकिकीयाः - अत्र न प्राप्नोति । विधिरप्यत्र न सिध्यति । किं कारणम् ? भाषितपुंस्कादनूङित्युच्यते, न ह्येतद्भाषितपुंस्कादनूङ् । इह तर्हि विलेपिकाया र्धम्यम् - वैलेपिकम्, विधिश्च सिद्धो भवति, प्रतिषेधश्च न प्राप्नोति ॥ (द्वितीयपक्षे दोषभाष्यम्) अथ पुंवद्भावमात्रस्य विषये, हस्तिनीनां समूहः - हास्तिकम् । जातिलक्षणः पुंवद्भावप्रतिषेधः प्राप्नोति ॥ (सिद्धान्तपक्षोंपपादकभाष्यम्) एवं तर्हि न कोपधायाः इत्ययं योगः पुंवद्भावमात्रस्य विषये । तत उक्तम् - एवमाद्यनुक्रमणमाद्यस्य योगस्य विषये ॥ (6442 उपसंख्यानवार्तिकम् ॥ 1 ॥) - कोपधप्रतिषेधे तद्धितवुग्रहणम् - कोपधप्रतिषेधे तद्धितस्य यः ककारो वोश्च यः, तस्य ग्रहणं कर्तव्यम् । इह मा भूत् - पाकभार्यः, भेकभार्यः ॥ Kashika ------- कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। विलेपिकाया धर्म्यं वैलेपिकम्॥ कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्॥ इह मा भूत् — पाकभार्यः, भेकभार्य इति॥ Siddhanta Kaumudi ----------------- कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥ (वार्तिकम्) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥ Balamanorama ------------ **न कोपधायाः** - न कोपधायाः । पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि । पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका । 'अत इनिठनौ' इति ठन् ।ठस्येकः॑ । टाप् । पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेषे भवा मद्रिका ।मद्रवृज्योः कन् । टाप् । इत्त्वम् । मद्रिकेवाटचरतीत्यर्थः ।क्यह्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थेमनश्चे॑ति णिनिः । उपपदसमासः । इहापिक्यङ्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात् । तद्धितवुग्रहणमिति ।न तद्धितवुकोपधायाः॑ इति सूत्रं पठनीयमिति यावत् । तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति ।तद्धितकोपधोदाहरण् । पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम् । तद्धितबुग्रहणस्य प्रयोजनमाह — नेहेति । पाकेति ।अर्भकपृथुकपाका वयसी॑त्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । Tattvabodhini ------------- **न कोपधायाः** - पाचिकाभार्य इति । पचतीति पाचिका । ण्वुल् ।युवो॑रित्यकादेशे टापिप्रत्ययस्था॑दितीत्त्वम् । रसिकाभार्य इति । रसोऽस्त्यास्या इति रसिका ।अत इनिठनौ॑इति ठन् । मद्रिकायत इति ।क्यङ्भानिनोश्चे॑ति पुंवत्त्वप्राप्तिः । मुद्रेषु भवा मद्रिका ।मद्रवृज्योः कन् । सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः ।तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाका भार्येति ।अर्भकपृथुकपाका वयसी॑ति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः ।वयसि प्रथम् इति ङीपं बाधित्वाऽजादित्वाट्टाप् । Padamanjari ----------- मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढेअ तद्धिते एइति ह्याइपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ॥ Nyaas ----- पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। `पाचिकाभार्यः, कारिकाभार्यः` इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्। `प्रत्ययस्थात्? कात्पूर्वस्यात इदाप्यसुपः` (7.3.44) इतीत्त्वम्। अत्र `स्त्रियाः पुंवत्` (6.3.33) इत्यादिना प्राप्तिः। `मद्रिकाभार्यः वृजिकाभार्यः` इति। मद्रेषु भवा, वृजिषु भवेति `मद्रवृज्योः कन्? (4.2.130) इति कन्। अत्रापि `स्त्रियाः पुंवत्? (6.3.33) इत्यादिना प्राप्तिः। `मद्रिकाकल्पा; वृजिकाकल्पा` इति। अत्र **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन प्राप्तिः। `मद्रिकायते` इत्यादौ **क्यङ्मानिनोश्च** (6.3.36) इति प्राप्तिः। `विलेपिकाया धम्र्यम्` इति। `लिप उपदेहे` (धातुपाठः-1433) इत्यस्माण्ण्वुल्। `वैलेपिकम्` इति। `अण्? महिष्यदिभ्यः` (4.4.48) इत्यण्। अत्र `भस्याढे तद्धिते` (वा।731) इति वा प्राप्तिः। `कोपधप्रतिषेधे` इत्यादि। अस्मिन्? कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्। इह मा भूत् -`पाकभार्यः` इति। पाकशब्दोऽयं `अर्भकपृथुकपाका वयसि` (द।उ।3।50) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्। यदि तद्धितवुग्रहणं क्रियते, तर्हि **पूर्वत्रासिद्धम्** (8.2.1) इत्यत्र यद्वक्ष्यति -`शुष्कजङ्घ` इत्यत्र -**शुषः कः** (8.2.51) इत्यस्यासिद्धत्वात्? `न कोपधयाः` (6.3.36) इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्` इति तन्नोपपद्यते, असत्यपि `शुषः कः` इत्यस्यासिद्धत्वेनैवात्र **न कोपधायाः** (6.3.37) इति प्रतिषेधेन भवितव्यम्, न ह्यत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्। तत्? पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति॥ Prakriyasarvasvam ----------------- पाचिकाभार्यः । रसिकाभार्यः । अत्र तद्धितवुग्रहणं कार्यमिति तद्धितान्तानां ण्वुलाद्यन्तानां च कोपधानामेव पुंवत्त्वनिषेधः । पाका बाला । सा भार्यास्येति पाकभार्यः ॥ Vartika ------- कोपधप्रतिषेधे तद्धितवुग्रहणम् ।