63032: मातरपितरावुदीचाम्¶
Padacheda: मातरपितरौ | S | 1 | 2 |
उदीचाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
According to Northern Grammarians मातरपितरौ is a valid form.
Vasu English Translation¶
According to Northern Grammarians मातरपितरौ is a valid form. This is formed by अरङ् substitution of the ऋ of मातृ ॥ The other form is मातापितरौ ॥
Bhashya¶
मातरपितरावुदीचाम् (2891) (निपातनबोधकभाष्यम्) किं निपात्यते ? पूर्वोत्तरपदयोर्ऋकारस्यारारौ निपात्येते । मातरपितरौ भोजय, मातरपितरावानय, आ मा गन्तां पितरामातरा चा मा सोमो अमृतत्वाय गम्यात् ॥ इति श्रीभगवत्पतञ्जलिप्रणीते महाभाष्ये षष्ठाध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥
Kashika¶
मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते। मातरपितरौ। उदीचामिति किम्? मातापितरौ॥
Siddhanta Kaumudi¶
मातरपितरौ । उदीचां किम् । मातापितरौ ॥
Prakriyasarvasvam¶
उदङ्मत एवं स्यात् । अन्यत्र मातापितरौ ॥