63031: उषासोषसः¶
Padacheda: उषासा | S | 1 | 1 |
उषसः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
For उषस् is substituted उषासा in a देवता - द्वन्द समास।
Vasu English Translation¶
For उषस् is substituted उषासा in a देवता - द्वन्द समास। Thus:- उषासासूर्यम्, उषासानक्ता ॥
Kashika¶
उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। उषासासूर्यम्। उ॒षासा॒नक्त ा॑ (ऋ० १.१२२.२)॥
Siddhanta Kaumudi¶
उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥
Tattvabodhini¶
उषासोषसः - उषासासूर्यमिति । उषाश्च सूर्यश्च तयोः समाहारः । मातरपितरौ । मातृशब्दस्याऽरङादेशो निपात्यते ।
Padamanjari¶
उषासानक्तेति । छान्दसोऽयं प्रयोगः । उषाश्च नक्तं चेति द्वन्द्वः, प्रथमाद्विवचनस्य डादेशः । अत्र पदकाले पदकाले पदकाराः - उषसानक्तेति ह्रस्वमधीयते ॥
Nyaas¶
आनङोऽपवादः [नास्तीदं वाक्यं काशिकायाम्] इति एवमुत्तरावपि योगौ। उषासानक्तम्` इति। उषांश्च नक्तञ्चेति विग्रहः॥
Prakriyasarvasvam¶
देवताद्वन्द्व उषस उषासा इति स्यात् । उषो नक्तं च उषासानक्तम् ।।