63030: दिवसश्च पृथिव्याम्¶
Padacheda: दिवसः | S | 1 | 1 |
च | S | 0 | 0 |
पृथिव्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
For दिव् is also substituted दिवस् (as well as a द्यावा) when पृथिवी follows in a द्वन्द समास of names of देवता-s.
Vasu English Translation¶
For दिव् is also substituted दिवस् (as well as a द्यावा) when पृथिवी follows in a द्वन्द समास of names of देवता-s. Thus दिवस्पृथिव्यौ, द्यावापृथिव्यौ ॥ The word दिवस् is exhibited in the aphorism as दिवस् ending in अ, in order to indicate that the स् of दिवस् is not changed to ह् or a visarga or upadhmaniya when followed by पृथिवी ॥ Following is an anomalous use there being no Dvandva compounding here. द्यावा चिदस्मै पृथिवी ममेते ॥
Kashika¶
पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति, चकाराद् द्यावा च। दि॒वस्पृ॑थि॒व्यौ (ऋ०२.२.३)। द्यावापृथिव्यौ। अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वादीनि न भवन्ति। कथं द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ (ऋ० २.१२.१३) इति ? कर्तव्योऽत्र यत्नः॥
Siddhanta Kaumudi¶
दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥
Balamanorama¶
दिवसश्च पृथिव्याम् - दिवसश्च पृथिव्यां । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह — चादिति । तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । ‘दिवस्पृथिव्याः’ इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह — आदेशेऽकारोच्चारणमिति । सामर्थ्यात्ससजुषो रु॑रिति रुत्वं नेति भावः । ननुद्यावा चिदस्मै पृथिवी सन्नमेते॑ इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः , कथं वा दिवो द्यावा देशः, उत्तरपदस्य ‘चिदस्मै’ इत्यनेन व्यवहितत्वादित्यत आह — छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति ।दिवस्पृथिव्यो॑रित्यवग्रहे विसर्गं पठन्तीत्यर्थः । ‘पदकारा’ इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् । उषासोषसः । उषासासूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितरावुदीचाम् । उदीचां मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशब्दस्याऽरङादेशो निपात्यते । मातापितराविति । अरङभावे ‘आनङृतः’ इत्यानङ् । द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । ‘राजाहःसखिभ्यः’ इत्यतस्तदनुवृत्तेरिति भावः । वाक्त्वचमिति । वाक्य त्वक्चेति समाहारद्वन्द्वः । कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच् ।एवं त्वक्रुआजमित्यत्रापि । त्वक्च रुआक्चेति विग्रहः । शमीदृषदमिति । शमी च दृषच्चेति विग्रहः । दकारान्तत्वाट्टच् । वाक्त्विषमिति । वाक्च त्विट् । चेति विग्रहः । षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्शरदाविति । प्रावृट् च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ।*****इति बालमनोरमायांद्वन्द्वसमासः*****अथ द्विरुक्तप्रक्रिया । — — — — — — —
Tattvabodhini¶
दिवसश्च पृथिव्याम् - रुत्वं मा भूदिति । अकारे सति सकारस्य श्रवणं भवति, तेन प्रयोगे विकाराऽभावोऽनुमीयत इति भावः ।छन्दसि दृष्टानुविधिः । विसर्गमिति । तथा चक्वचिद्वकारो ने॑त्येवानुमेयं, लक्ष्यामुरोधादिति भावः ।
Nyaas¶
आनङोपवादः। अथाकारः किमर्थमुच्चार्यते, सकारस्येत्संज्ञापरित्राणार्थ इति चेत्? न; प्रयोजनाभावादेवेत्संज्ञा न भविष्यतीत्याह -अकारणोच्चारणम् इत्यादि। असति ह्रकारेऽन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां सकारस्य ससजुषो रुः (8.2.66) इति रुत्वं विकारः स्यात्, तस्यापि खरवसानयोर्विसर्जनीवः (8.3.15) तस्यापि कुप्वोः क पौ च (8.3.37) इत्युपध्मानीयः स्यात्। अकार स्योच्चारणे तु सति न भवति, कथम्? अकारस्योच्चारणेन यद्विकृतस्य सकारस्योपादानं तस्यैतदेव प्रयोजम् -अविकृतस्यास्य प्रयोगो यथा स्यादिति -द्यावा दिवसमित्यादिकम्। वाक्मेतत्।इह च सूत्रे द्वन्द्वग्रहणम्, उत्तरपदग्रहणं चानुवर्तते। द्यावा इत्ययमादेशो वाक्ये न प्राप्नोतीत्याह -कथम् इत्यादि। कर्तव्योऽत्र यत्नः इति। तत्रायं यत्नः -तत्पुरुषे कृति बहुलम् (6.3.14) इत्यतो बहुलग्रहणमनुवर्तते तेन द्यावा इत्ययमादेशश्छन्दसि वाक्येऽपि भविष्यतीति। अथ वा-चकारोत्र क्रियते, तस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। द्यावाशब्दस्तु स्वरितत्वादेवानुवर्त्तिष्यत इति नार्थस्तदनुकर्षणार्थेन चकारेण। अथ वा -दिक्शब्देन समानार्थो द्यावाशब्दः प्रकृत्यन्तरमस्ति, तस्यायं प्रयोगः। आदेशवचनं तु दिवः प्रयोगनिवृत्त्यर्थमिति॥
Prakriyasarvasvam¶
पृथिव्यां परतो दिवो दिवसेत्यादेशो द्यावा च स्यात् । अकारः सस्य विसर्गाभावार्थः । दिवस्पृथिव्यौ । द्यावापृथिव्यौ ।।
Sutra Prayogas¶
द्यावापृथिव्योः (रघुवंशम्): दिवसश्च पृथिव्याम् इति चकारात् `दिव्`शब्दस्य द्यावादेशः।