63029: दिवो द्यावा¶
Padacheda: दिवः | S | 6 | 1 |
द्यावा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
For दिव् is substituted द्यावा in a द्वन्द समास of names of देवता-s.
Vasu English Translation¶
For दिव् is substituted द्यावा in a द्वन्द समास of names of देवता-s. Thus द्यावाक्षामा, द्यावाभूमी ॥
Kashika¶
दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। द्यावा॑क्षामा॒ (ऋ० ८.१८.१६)। द्यावा॒भूमी॑ (ऋ० १०.६५.४)॥
Siddhanta Kaumudi¶
देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥
Balamanorama¶
दिवो द्यावा - दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे — देवताद्वन्द्वे इति । द्यावाभूमि इति । द्यौश्च भूमिश्चेति विग्रहः । द्यावाक्षामा रुक्मो अन्तर्विभाति॑ इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्यौश्च क्षामा चेति विग्रहः । क्षामाशब्दो भुमिपर्यायो वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठआस्तुसुपां सुलुक्इति डादेशः,देवताद्वन्द्वे चे॑ति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् ।
Nyaas¶
देवताद्वन्द्व उत्तरपदे इति। देवताद्वन्द्वे यदुत्तरपदं तत्र परत इत्यर्थः॥
Prakriyasarvasvam¶
द्यावाभूम्यौ ।।