63026: देवताद्वन्द्वे च¶
Padacheda: देवताद्वन्द्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The आनङ् is the substitute for the final of the first member in a द्वन्द समास of the names of the देवता-s.
Vasu English Translation¶
The आनङ् is the substitute for the final of the first member in a द्वन्द समास of the names of the देवता-s. Thus इन्द्रावरुणौ, इन्द्रासोमौ, इन्द्राबृहस्पती, मित्रावरुणौ ॥ The repetition of the word Dvandva in this sutra, in spite of its anuvritti from the last, shows that the rule applies only to such Dvandvas which are generally found in the Vedas and are well-known. It does not apply to compounds like ब्रह्मप्रजापति, शिववैश्रवणौ ॥ In fact it applies to the Dvandva of those Devatas whose companionship is well-known.
Vart:- Prohibition must be stated with regard to वायु in both cases, whether first or last, as अग्निवायू or वाय्वग्नी ॥
Bhashya¶
देवताद्वन्द्वे च (2885) (6418 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - देवताद्वन्द्व उभयत्र वायोः प्रतिषेधः - देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधो वक्तव्यः । अग्निवायू, वाय्वग्नी ॥ (6419 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 2 ॥) - ब्रह्मप्रजापत्यादीनां च - ब्रह्मप्रजापत्यादीनां च प्रतिषेधो वक्तव्यः । ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) स तर्हि वक्तव्यः । न वक्तव्यः । द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणस्यैतत्प्रयोजनम् - लोकवेदयोर्यो द्वन्द्वस्तत्र यथा स्यात् । कश्च लोकवेदयोर्द्वन्द्वः ? वेदे ये सहनिर्वापनिर्दिष्टाः । न चैते वेदे सह निर्वापनिर्दिष्टाः ॥
Kashika¶
देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। इन्द्रा॒वरु॑णौ (ऋ० ६.६८.१)। इन्द्रा॑सोमौ (ऋ० ६.७२.३)। इ॒न्द्॒राबृ॒ह॒स्प॒ती॒ (ऋ० ४.४९.१)। द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतद् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषामिह ग्रहणं भवति। तेन ब्रह्मप्रजापती, शिववैश्रवणावित्येवमादौ न भवति॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः॥ अग्निवायू। वाय्वग्नी॥
Siddhanta Kaumudi¶
इहोत्तरपदे परे आनङ् । मित्रावरुणौ ।<!वायुशब्दप्रयोगे प्रतिषेधः !> (वार्तिकम्) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥
Tattvabodhini¶
देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्।
Padamanjari¶
अनृकारन्तार्थमविद्यायोनिसम्बन्धार्थं वचनम्। द्वन्द्व इति वर्तमान इत्यादि । प्रकृतं द्वन्द्वग्रहणं एसमासविशेषप्रतिपत्यर्थम्, इदं प्रसिद्धं साहचर्यं यस्य युगलस्य तत्परिग्रहर्थम् । कथं पुनर्न परिग्रहः तैत्यत आह अत्यन्तसहचारत इत्यादि । द्वन्द्वं रहस्यमर्यादा इत्यत्राभिव्यक्तिग्रहणेनात्यन्तसहचरितयुगले द्वन्द्व इति निपात्यते, तस्यात्र ग्रहणं देवतापदेन, समस्तं चेदम्प्रकृतस्य द्वन्द्वस्यार्थद्वारकं विशेषणम् - अत्यन्तसहचरितयुगलाभिधायिनि द्वन्द्व इति यावत् । साहचर्यमेव विशिनष्टि - तत्रेति । सहवापः - सहनिर्वापः । अग्नीषोमाभ्यां जुष्ट्ंअ निर्वपामि इत्यादि । उभयत्रेति । पूर्वपत्वेनोतरपदत्वेनेत्यर्थः ॥
Nyaas¶
अनुकारार्थमविद्यायोनिसम्बन्धार्थ च वचनम्। ननु च आनङृतो द्वन्द्वे (6.3.24) इत्यतो द्वन्द्वगरहणमनुवर्तत एव, तत्? किमर्थमिह पुनद्र्वन्द्वग्रहणम्? इत्याह -द्वन्द्व इत्यनुवर्तमाने इत्यादि। पूर्वकं हि द्वन्द्वग्रहणं समासविशेषप्रतिपत्त्यर्थम्, इदं तु प्रसिद्धसाहचर्यार्थम् -येषां लोके वेदे च प्रसिद्धं साहचर्यमेषां पुनः -परिग्रहो यता स्यादित्येवमर्थम्। अथ क्रियमाणेऽपि पुनद्र्वन्द्वग्रहणे कथमयमर्थो लभ्यते? इत्याह -अत्यन्तसहचरिते इत्यादि। द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण (8.1.15) इत्यत्रेदमुच्यते। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते इति। तेनायमर्थो लभ्यत इति दर्शयति। वेदे च ये सहवापनिर्दिष्टाः इति। सहवापः=सहदानम्, तत्र निर्दिष्टाः सहवापनिर्दिष्टाः के पुनरेकहविसम्बन्धिनः? य एकं हूयमानं हविः प्रति सम्प्रदानत्वेन निर्दिष्टा एकत्र मन्त्रे -इन्द्रावरुणाभ्यां छागं हविर्निर्वपामीत्यादौ, ते वेदितव्याः। उभयत्रि इत्यादि। पूर्वपदत्व उत्तरपदत्वे च सति वायोरानङादेशस्य प्रतिषेधो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम् -विभाषा स्वसृपत्योः (6.3.24) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन वायोरुत्तरपदत्वे पूर्वपदत्वे च सति न भविष्यतीति॥
Prakriyasarvasvam¶
इह पूर्वपदस्यानङ् । मित्रावरुणौ । वायोः पूर्वत्व उत्तरत्वेऽपि नानङ् । वाय्वग्नी । अग्निवायू । एकहविर्भागित्वेनाप्रसिद्धेरिन्द्रप्रजापती इत्यादौ न ।।
Vartika¶
वायुशब्दप्रयोगे प्रतिषेधो वक्तव्यः ।
Sutra Prayogas¶
मित्रा-वरुणौ (भट्टिकाव्यम्): देवताद्वन्द्वे च इत्यानङ्।