63025: आनङ् ऋतो द्वन्द्वे¶
Padacheda: आनङ् | S | 1 | 1 |
ऋतः | S | 6 | 1 |
द्वन्द्वे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a द्वन्द समास of words ending in the short ऋ and expressing relationship through study or blood, the आनङ् is the substitute of ऋ of the first member.
Vasu English Translation¶
In a द्वन्द समास of words ending in the short ऋ and expressing relationship through study or blood, the आनङ् is the substitute of ऋ of the first member. Thus होतापोतारौ, नेष्टोद्गातारौ, प्रशास्ताप्रतिहर्त्तारौ मातापितरौ, याताननान्दरौ ॥ The substitute is really आ, the न् is useful only to prevent the application of (1.1.51), by which a र comes after every simple vowel substitute of ऋ ॥
Why do we say ‘both words ending in ऋ’? Observe पितृपितामहौ ॥ The anuvritti of पुत्र is understood here, so that the ऋ of the first member is changed to आ before पुत्र also, though it does not end in ऋ. As पितापुत्रौ, मातापुत्रौ ॥
Bhashya¶
आनङ् ऋतो द्वन्द्वे (2884) (आनङोऽधिकरणम्) (नकारप्रयोजनभाष्यम्) क्वायं नकारः श्रूयते ? न क्वचिच्छ्रूयते, लोपोऽस्य भवति नलोपः प्रातिपदिकान्तस्य (8.2.7) इति । यदि न क्वचिच्छ्रूयते, किमर्थमुच्चार्यते ? रपरत्वं मा भूदिति ॥ क्रियमाणेऽपि वै नकारे रपरत्वं प्राप्नोति । किं कारणम् ? नलोपे कृते एषोऽपि हि उः स्थाने अण् शिष्यते । नैष दोषः । उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते, न चायमुः स्थाने अणेव शिष्यते । किं तर्हि ? अण् चानण् च ॥ (वार्तिकावतरणभाष्यम्) कथं पुनरिदं विज्ञायते - किमृकारान्तानां यो द्वन्द्व इति, आहोस्वित् द्वन्द्वे ऋकारान्तस्येति ? कश्चात्र विशेषः ? (6415 पूर्वस्मिन् पक्षे उपसंख्यानवार्तिकम् ॥ 1 ॥) - ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् - ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानं कर्तव्यम् । पितापुत्रौ ॥ (6416 पूर्वस्मिन् पक्षे दोषवार्तिकम् ॥ 2 ॥) - कार्यी चानिर्दिष्टः - कार्यी चानिर्दिष्टो भवति । ऋकारान्तानां द्वन्द्वे न ज्ञायते - कस्यानङा भवितव्यमिति ॥ (द्वितीयपक्षोपस्थापकभाष्यम्) अस्तु तर्हि द्वन्द्वे ऋकारान्तस्येति ॥ (6417 द्वितीयपक्षे दोषवार्तिकम् ॥ 3 ॥) - अविशेषेण पितृपितामहादिष्वतिप्रसङ्गः - अविशेषेण पितृपितामहादिष्वतिप्रसङ्गो भवति । पितृपितामहाविति ॥ (प्रथमपक्षे दोषोद्धारभाष्यम्) अस्तु तर्हि ऋकारान्तानां यो द्वन्द्व इति । ननु चोक्तम् ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् इति । नैष दोषः । पुत्रग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? पुत्रेऽन्यतरस्याम् (22) इति । यदि तदनुवर्तते, विभाषा स्वसृपत्योः (24) पुत्रे च - इति पुत्रेऽपि विभाषा प्राप्नोति । नैष दोषः । सम्बन्धमनुवर्तिष्यते । षष्ठ्या आक्रोशे (21) । पुत्रेऽन्यतरस्याम् (22), षष्ठ्या आक्रोशे ॥ ऋतो विद्यायोनिसम्बन्धेभ्यः (23), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ॥ विभाषा स्वसृपत्योः (24), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ॥ आनङ् ऋतो द्वन्द्वे । पुत्रग्रहणमनुवर्तते, षष्ठ्या आक्रोश इति निवृत्तम् ॥ (द्वितीयदोषनिवारकभाष्यम्) यदप्युच्यते - कार्यी चानिर्दिष्टः इति, कार्यी च निर्दिष्टः । कथम् ? उत्तरपद इति वर्तते । ङिच्चायं क्रियते । सोऽन्तरेणापि कार्यिनिर्देशमृकारान्तस्यैव भविष्यति ॥ पुत्रे तर्हि कार्यी अनिर्दिष्टः । पुत्रे च कार्यी निर्दिष्टः । कथम् ? ऋकारग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ऋतो विद्यायोनिसम्बन्धेभ्यः इति । तद्वै पञ्चमीनिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः । पुत्र इत्येषा सप्तमी ऋत इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति - तस्मिन्निति निर्दिष्टे पूर्वस्य इति ॥
Kashika¶
ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसंबन्धेभ्यः — मातापितरौ। याताननान्दरौ। नकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋत इति किम्? पितृपितामहौ। पुत्र इत्यनुवर्तते, ऋत इति च। तेन पुत्रशब्देऽप्युत्तरपद ऋकारान्तस्यानङादेशो भवति। पितापुत्रौ। मातापुत्रौ॥
Siddhanta Kaumudi¶
विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥
Balamanorama¶
देवताद्वन्द्वे च - देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम्,वेदे ये सहनिर्वापनिर्दिष्टाः॑ इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेआरावित्यादावतिप्रसङ्गाच्च ।
Tattvabodhini¶
देवताद्वन्द्वे च - देवता । अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम् ।
Padamanjari¶
अत्र यद्यःकारस्य द्वन्द्वे आनङ् भवतीत्यवं विज्ञायेत, पितृपितामहादप्याङ् स्यात् ऋतः त्येतिच्चानर्थकं प्रकृतत्वात्, तस्माद् द्वन्द्वविशेपणमृत इति । जातौ चेदमेकवचनमिति मन्यमान आह - ऋकारान्तानामित्यादि। इह कार्यार्थः श्रवणार्थो वा वर्णानामुपदेशः, नकारश्चायं न क्वचित् श्रूयते सर्वत्र नलोपः प्रातिपदिकान्तस्य इति नलोपेन भवितव्यम्, कार्यमपि चास्य न किञ्चिदुपदिश्यते, तस्मान्नार्थ एतेन इत्यत आह - नकारोञ्चारणमित्यादि । असति नकारे उः स्थानेऽणेव शिष्यते इति उरण् रपरः इति रपरत्वं स्यात्, तस्मिश्च न्यमणेव शिष्यते, किं तर्हि थाण् चान्यच्चेति, नास्ति रपरत्वप्रसङ्गः । तस्माद्रपरत्वनिवृत्यर्थं नकारोच्चारणम् । ङ्कारः ङ्च्चि इत्यन्त्यादेशार्थः । यत्र च निर्दिश्यमानं कार्यिणो विशेषणम्, तत्र निर्दिश्यमानस्यादेशा भवन्तीत्येतद्भवति, नात्र ऋतः इति कार्यिणो विशेषणम्, किं तर्हि द्वन्द्वस्य विशेषणम् । पुत्र इत्यत्रानुवर्तत इति । पुत्रेऽन्यतरस्याम् इत्यतः । यद्यत्र पुत्र थैति वर्तते, विभाषा स्वसृपत्योः इत्यत्रानुवर्तेत, ततश्च भ्रातुष्पुत्र इत्यादावनाक्रोशेऽपि विकल्पप्रसङ्गः एवं तर्हि व्याख्यानादत्रैव सम्बध्यते, अत एव ह्यत्रेत्युक्तम् । एवमपि पुत्र उतरपदे पूर्वपदमात्रस्यानङ् प्रप्नोति, कार्यिणोऽनिर्देशात्, ऋतः इति श्रुतस्य द्वन्द्वविशेषमत्वादत ताअह - ऋत इति चेति । अनुवर्तते इत्युषङ्गः । ञतोविद्यायोनि इत्यतः ञतः इत्यनुवर्तते, तत्कार्यिणं विशेषयिष्यतीत्यर्थः । यद्यपि तत् पञ्चम्यन्तम्, तथापि तदिह व्याख्यानात्षष्ठ।ल्न्तं विपरिणम्यते ॥
Nyaas¶
ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वः इत्यादि। अथ ऋकारान्तसय द्वन्द्व आनङ् भवतीत्येवं कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; इहापि प्रसज्येत - पितृपितामहाविति। ङकारोऽन्त्यादेशार्थः। इह हि वर्णानामुपदेशः - कार्यार्थः, श्रवणार्थो वेति, नकारश्चायं न क्वचित्? श्रूयते, सर्वत्रैव ह्रस्य नलोपः प्रातपदिकान्तस्य (8.2.7) इति लोपेन भवितव्यम्, नापि किञ्चित्? कार्यमस्योपलभ्यते, तत्? किमर्थं नकारस्योच्चारणम्? इत्याह - नकारोच्चारणम् इत्यादि। असति नकार ऋकारस्या स्थानेऽणेव शिष्यते, ततश्च उरण्? रपरः (1.1.50) इति रपरत्वं स्यात्। नकारे तु सति नायमणेव शिष्यते, अपि तवण्? चानङ् चेति न भवति रपत्वप्रसङ्गः। न हि यत्राण्? अनण्? चेति शिष्यते तत्र रपरत्वं भवति। यथा सुधातुरकङ्? च (4.1.97) इति सौधातकिरित्यत्र। तस्मादत्र रपरत्वनिवृत्त्यर्थ नकारोच्चारणम्। अथ पितापुत्रौ, मातापुत्रौ इत्यतर कथमानङादेशः, न ह्यत्र ऋकारान्तानां द्वन्द्वः? इत्याह - पुत्र इत्यत्रानुवर्तते इति। पुत्रेऽन्यतरस्याम् (6.3.22) इत्यतः पुत्र इत्येतदत्रानुवर्तत इत्यभिप्रायः। यदि तु पुत्र इत्यनुवर्तते, तदा विभाषा स्वसृपत्योः (6.3.24) इत्यत्र पुत्रेऽपि विभाषा प्राप्नोति? नैष दोषः; मण्डूकप्लुतिन्यायेन तदनुवर्तते। अत एवात्रेत्युक्तं तत्रैवानुवर्तते, न पर्वत्रेति प्रतिपादनार्थम्। नन्वेवमपि पुत्रशब्द उत्तरपदे पूर्पदमात्रस्यानङ् प्राप्नति; कार्यिणेहानिर्देशादुत्तरपदशब्देन च पूर्वपदमात्रस्याक्षिप्तत्वात्, न च शक्यते वक्तुम् - ऋत इति वचनादृकारस्य भविष्यतीति, तस्मादेकमिह ऋत इति वचनं द्वन्द्वस्य विशेषणम्, न कार्यिणः? इत्याह - ऋत इति च इति। अत्रानुवर्तत इति सम्बन्धः। ऋतो विद्यायोनिसम्बन्धेभ्यः (6.3.23) इत्यत ऋत इत्यनुवर्तते, तत्? कार्यिणो विशेषणं भविष्यति। ननु तत्? पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैषदोषः; पुत्र इत्येषा सप्तमी ऋत इत्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति - तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति। नन्वेवमपि विरोधः, तथा हि - यदि पुत्रशब्द उत्तरपदम्, कथं तदा ऋकारान्तानां द्वन्द्वः, ऋकारान्तानां द्वन्द्वो न तर्हि पुत्रशब्द उत्तरपदमिति? नैतदस्ति; अन्य एव हि स द्वन्द्वो यस्य ऋत इत्येतद्विशेषणम्। अन्यशाच स यस्य पुत्रशब्द उत्तरपदमिति कोऽत्र विरोधः॥
Prakriyasarvasvam¶
विद्यायोनिसम्बन्धार्थानामृदन्तानां द्वन्द्वे पूर्वपदस्यानङ् स्यात् । ङित्त्वादृत्त आनङ् । होतारं पोतृ । ‘न लोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नलोपः । आकारमात्रविधौ रपरत्वं स्यादिति नः कृतः । होतापोतारौ । मातापितरौ । पुत्र इत्यनुवृत्तेर्ऋत आनङ् । पितांपुत्रौ ।।