63026: देवताद्वन्द्वे च ======================= **Padacheda:** देवताद्वन्द्वे | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The आनङ् is the substitute for the final of the first member in a द्वन्द समास of the names of the देवता-s. Vasu English Translation ------------------------ The आनङ् is the substitute for the final of the first member in a द्वन्द समास of the names of the देवता-s. Thus इन्द्रावरुणौ, इन्द्रासोमौ, इन्द्राबृहस्पती, मित्रावरुणौ ॥ The repetition of the word *Dvandva* in this *sutra*, in spite of its *anuvritti* from the last, shows that the rule applies only to such *Dvandvas* which are generally found in the Vedas and are well-known. It does not apply to compounds like ब्रह्मप्रजापति, शिववैश्रवणौ ॥ In fact it applies to the *Dvandva* of those *Devatas* whose companionship is well-known. Vart:- Prohibition must be stated with regard to वायु in both cases, whether first or last, as अग्निवायू or वाय्वग्नी ॥ Bhashya ------- देवताद्वन्द्वे च (2885) (6418 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - देवताद्वन्द्व उभयत्र वायोः प्रतिषेधः - देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधो वक्तव्यः । अग्निवायू, वाय्वग्नी ॥ (6419 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 2 ॥) - ब्रह्मप्रजापत्यादीनां च - ब्रह्मप्रजापत्यादीनां च प्रतिषेधो वक्तव्यः । ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) स तर्हि वक्तव्यः । न वक्तव्यः । द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणस्यैतत्प्रयोजनम् - लोकवेदयोर्यो द्वन्द्वस्तत्र यथा स्यात् । कश्च लोकवेदयोर्द्वन्द्वः ? वेदे ये सहनिर्वापनिर्दिष्टाः । न चैते वेदे सह निर्वापनिर्दिष्टाः ॥ Kashika ------- देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। इन्द्रा॒वरु॑णौ (ऋ० ६.६८.१)। इन्द्रा॑सोमौ (ऋ० ६.७२.३)। इ॒न्द्॒राबृ॒ह॒स्प॒ती॒ (ऋ० ४.४९.१)। द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतद् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषामिह ग्रहणं भवति। तेन ब्रह्मप्रजापती, शिववैश्रवणावित्येवमादौ न भवति॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः॥ अग्निवायू। वाय्वग्नी॥ Siddhanta Kaumudi ----------------- इहोत्तरपदे परे आनङ् । मित्रावरुणौ । (वार्तिकम्) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥ Tattvabodhini ------------- देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्। Padamanjari ----------- अनृकारन्तार्थमविद्यायोनिसम्बन्धार्थं वचनम्। द्वन्द्व इति वर्तमान इत्यादि । प्रकृतं द्वन्द्वग्रहणं एसमासविशेषप्रतिपत्यर्थम्, इदं प्रसिद्धं साहचर्यं यस्य युगलस्य तत्परिग्रहर्थम् । कथं पुनर्न परिग्रहः तैत्यत आह अत्यन्तसहचारत इत्यादि । द्वन्द्वं रहस्यमर्यादा इत्यत्राभिव्यक्तिग्रहणेनात्यन्तसहचरितयुगले द्वन्द्व इति निपात्यते, तस्यात्र ग्रहणं देवतापदेन, समस्तं चेदम्प्रकृतस्य द्वन्द्वस्यार्थद्वारकं विशेषणम् - अत्यन्तसहचरितयुगलाभिधायिनि द्वन्द्व इति यावत् । साहचर्यमेव विशिनष्टि - तत्रेति । सहवापः - सहनिर्वापः । अग्नीषोमाभ्यां जुष्ट्ंअ निर्वपामि इत्यादि । उभयत्रेति । पूर्वपत्वेनोतरपदत्वेनेत्यर्थः ॥ Nyaas ----- अनुकारार्थमविद्यायोनिसम्बन्धार्थ च वचनम्। ननु च `आनङृतो द्वन्द्वे` (6.3.24) इत्यतो द्वन्द्वगरहणमनुवर्तत एव, तत्? किमर्थमिह पुनद्र्वन्द्वग्रहणम्? इत्याह -`द्वन्द्व इत्यनुवर्तमाने` इत्यादि। पूर्वकं हि द्वन्द्वग्रहणं समासविशेषप्रतिपत्त्यर्थम्, इदं तु प्रसिद्धसाहचर्यार्थम् -येषां लोके वेदे च प्रसिद्धं साहचर्यमेषां पुनः -परिग्रहो यता स्यादित्येवमर्थम्। अथ क्रियमाणेऽपि पुनद्र्वन्द्वग्रहणे कथमयमर्थो लभ्यते? इत्याह -`अत्यन्तसहचरिते` इत्यादि। `द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण` (8.1.15) इत्यत्रेदमुच्यते। `अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते` इति। तेनायमर्थो लभ्यत इति दर्शयति। `वेदे च ये सहवापनिर्दिष्टाः` इति। सहवापः=सहदानम्, तत्र निर्दिष्टाः सहवापनिर्दिष्टाः के पुनरेकहविसम्बन्धिनः? य एकं हूयमानं हविः प्रति सम्प्रदानत्वेन निर्दिष्टा एकत्र मन्त्रे -इन्द्रावरुणाभ्यां छागं हविर्निर्वपामीत्यादौ, ते वेदितव्याः। `उभयत्रि` इत्यादि। पूर्वपदत्व उत्तरपदत्वे च सति वायोरानङादेशस्य प्रतिषेधो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम् -**विभाषा स्वसृपत्योः** (6.3.24) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन वायोरुत्तरपदत्वे पूर्वपदत्वे च सति न भविष्यतीति॥ Prakriyasarvasvam ----------------- इह पूर्वपदस्यानङ् । मित्रावरुणौ । वायोः पूर्वत्व उत्तरत्वेऽपि नानङ् । वाय्वग्नी । अग्निवायू । एकहविर्भागित्वेनाप्रसिद्धेरिन्द्रप्रजापती इत्यादौ न ।। Vartika ------- वायुशब्दप्रयोगे प्रतिषेधो वक्तव्यः । Sutra Prayogas -------------- * **मित्रा-वरुणौ** (भट्टिकाव्यम्): `देवताद्वन्द्वे च` इत्यानङ्।