63021: षष्ठ्या आक्रोशे

Padacheda: षष्ठ्या | S | 6 | 1 |

आक्रोशे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The Genitive 6th-Case-affix is retained when the compound expresses an ‘affront or insult’.

Vasu English Translation

The Genitive 6th-Case-affix is retained when the compound expresses an ‘affront or insult’. Thus चौरस्यकुलम्, वृषलस्यकुलम् ॥ Why do we say when insult is meant ? Observe ब्राह्मणकुलम् ॥

Vart:- The Genitive is not elided after वाक् when followed by युक्ति, after दिश् before दण्ड, and after पश्यत् before हर ॥ As, वाचोयुक्तिः , दिशोदण्डः, पश्यतोहरः ॥

Vart:- The Genitive affix is not elided in the following words आमुष्यायणः, आमुष्यपुत्रिका and आमुष्यकुलिका ॥ अमुष्य is the Genitive Singular of the Pronoun अदस्, and is enumerated in the नडादि class (4.1.99) and takes फक् in forming the Patronymic, अमुष्यापत्यम् = अमुष्यायणः, अमुष्यपुत्रस्य भावः = आमुष्यपुत्रिका formed by वुञ् (5.1.133) ॥ So also आमुष्यकुलिका ॥

Vart:- The Genitive affix is not elided in the compound देवानांप्रियः ॥ The author of Siddhanta Kaumudi says “when the sense is that of a fool, the affix is not elided in devanam-priya” There is no authority for this, either in the Mahabhashya or the Kasika. This was the title of the famous Buddhist monarch Asoka, who would not have adopted it, had it meant ‘a fool’. The phrase इति च मूर्खे has been added by Bhattoji Dikshit through Brahmanical spite.

Vart:- The Genitive affix is not elided after श्वन् when शेप, पुच्छ and लांगुल follow it :- शुन शेपः, शुनः पुच्छः, शुनोलांगुलः ॥

Vart:- The Genitive affix is not elided after दिव् when दास follows: as दिवोदासः ॥

Bhashya

षष्ठ्या आक्रोशे (2880) (6409 उपसंख्यानवार्तिकम् ॥ 1 ॥) - षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानम् - षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानं कर्तव्यम् । वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः ॥ (6410 उपसंख्यानवार्तिकम् ॥ 2 ॥) - आमुष्यायणामुष्यपुत्रिका - आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानं कर्तव्यम् । आमुष्यायणः, अमुष्यपुत्रिका ॥ अमुष्यकुलिकेति च वक्तव्यम् । अमुष्यकुलिका ॥ (6411 उपसंख्यानवार्तिकम् ॥ 3 ॥) - देवानांप्रिय इति च - देवानां प्रिय इति चोपसंख्यानं कर्तव्यम् । देवानांप्रियः ॥ (6412 उपसंख्यानवार्तिकम् ॥ 4 ॥) - शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानम् - शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानं कर्तव्यम् । शुनः शेपः, शुनः पुच्छः, शुनोलाङ्गूलः ॥ (6413 उपसंख्यानवार्तिकम् ॥ 5 ॥) - दिवश्च दासे - दिवश्च दासे उपसंख्यानं कर्तव्यम् । दिवोदासाय गायत ॥

Kashika

आक्रोशे गम्यमान उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोश इति किम्? ब्राह्मणकुलम्॥ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः॥ वाचोयुक्ति ः। दिशोदण्डः। पश्यतोहरः॥ आमुष्यायणामुष्य — पुत्रिकामुष्यकुलिकेति चालुग् वक्तव्यः॥ अमुष्यापत्यमामुष्यायणः। नडादित्वात् (४.१.९९) फक्। अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका। मनोज्ञादित्वाद् (५.१.१३३) वुञ्। तथा आमुष्यकुलिकेति॥ देवानांप्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः॥ देवानांप्रियः॥ शेपपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग् वक्तव्यः॥ शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः॥ दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः॥ दिवोदासाय गायति॥

Siddhanta Kaumudi

चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ।<!वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु !> (वार्तिकम्) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ।<!आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च !> (वार्तिकम्) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ।<!देवानांप्रिय इति च मूर्खे !> (वार्तिकम्) ॥ अन्यत्र देवप्रियः ।<!शेपपुच्छलाङ्गलेषु शुनः !> (वार्तिकम्) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ।<!दिवसश्च दासे !> (वार्तिकम्) ॥ दिवोदासः ॥

Balamanorama

षष्ठ्या आक्रोशे - षष्ठआ आक्रोशे । ‘अलुगुत्तरपदे’ इति शेषः । आक्रोशो-निन्दा । वाग्दिक् । वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठआ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पस्यन्तमनादृत्य हरतीत्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी । आमुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्याषत्यमित्यर्थेनडादिभ्यः फगि॑ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे ‘आमुष्यायण’ इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठआ अलुकि ‘अमुष्यपुत्र’ शब्दः । अमुष्यपुत्रस्य भाव इत्यर्थेद्वन्द्वमनोज्ञादिभ्यश्चे॑ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापिप्रत्ययस्था॑दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठआ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् ।मूर्खः-अज्ञः ।दिवु क्रीडायाम् । देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोषप्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादितिअजेर्वी॑त्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठआ अलु॑गिति सेषः । संज्ञायामिति ।भाष्यम् ष शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः ।मेढ्रो मेहनशेपसी॑ । शेफशब्दोऽप्यस्ति, ‘शेपाय स्वाहा’ इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषणां संज्ञा एताः । दिवश्च दासे इति । वार्तिकम् ।षष्ठआ अलु॑गिति शेषः । दिवोदास इति कश्चिद्राजर्षिरयम् ।

Padamanjari

एपश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः । शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥

Nyaas

चौरस्यकुलम् इति। आक्रोशप्रतिपादनपरमेतत्, न त्वनेन तस्य सम्बन्धो विवक्षितः। वक्तव्यः इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। पश्यतोहरः इति। पश्यत इति षष्ठी चानादरे (2.3.38) इति षष्ठी। हरतीति हरः पचाद्यच्। अमुष्य इति। अदसस्त्यदाद्यत्वम्, अदसोऽसेर्दादु दो मः (8.2.80) इत्युत्त्वमत्वे, उत्त्वस्यासिद्धवात्**टाङसिङसामिनात्स्याः** (7.1.12) इति ङसः स्यादेशः। तथा अमुष्यकुलिकेति (इति)। यथा अमुष्यपुत्रिकेत्यत्र भनोज्ञादित्वात्? (5.1.132) वुञ्, तथात्रापीत्यर्थः। देवानाम्प्रियः इति। प्रीणातीति प्रियः, इगुपधज्ञाप्रीकिरः कः (3.1.135) इति कप्रत्ययः इयङादेशः। शुनःशेपः इति। आयुवमघोनामतद्धिते (6.4.133) इति सम्प्रसारणम्॥

Prakriyasarvasvam

क्षेपे द्योत्ये षष्ठ्या अलुक् । चोरस्यकुलम् । देवानांप्रियोऽसमर्थः । ‘वाग्दिक्- पश्यद्भ्यो युक्तिदण्डहरेषु’, वाग्योजनं वाचोयुक्तिः । तद्वानित्यन्ये । दिशोदण्डः । पश्यतोहरः । शुनः शेपपुच्छलाङ्गूलेषु संज्ञायाम् । शुनःशेपः शुनःपुच्छः शुनो लाङ्गूल इत्यृषयः । ‘दिवश्च दासे’ । दिवोदासः ॥

Vartika

वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु ।