63021: षष्ठ्या आक्रोशे ====================== **Padacheda:** षष्ठ्या | S | 6 | 1 | आक्रोशे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Genitive 6th-Case-affix is retained when the compound expresses an 'affront or insult'. Vasu English Translation ------------------------ The Genitive 6th-Case-affix is retained when the compound expresses an 'affront or insult'. Thus चौरस्यकुलम्, वृषलस्यकुलम् ॥ Why do we say when insult is meant ? Observe ब्राह्मणकुलम् ॥ Vart:- The Genitive is not elided after वाक् when followed by युक्ति, after दिश् before दण्ड, and after पश्यत् before हर ॥ As, वाचोयुक्तिः , दिशोदण्डः, पश्यतोहरः ॥ Vart:- The Genitive affix is not elided in the following words आमुष्यायणः, आमुष्यपुत्रिका and आमुष्यकुलिका ॥ अमुष्य is the Genitive Singular of the Pronoun अदस्, and is enumerated in the नडादि class (4.1.99) and takes फक् in forming the Patronymic, अमुष्यापत्यम् = अमुष्यायणः, अमुष्यपुत्रस्य भावः = आमुष्यपुत्रिका formed by वुञ् (5.1.133) ॥ So also आमुष्यकुलिका ॥ Vart:- The Genitive affix is not elided in the compound देवानांप्रियः ॥ The author of *Siddhanta* *Kaumudi* says "when the sense is that of a fool, the affix is not elided in *devanam*-*priya*" There is no authority for this, either in the *Mahabhashya* or the *Kasika*. This was the title of the famous Buddhist monarch *Asoka*, who would not have adopted it, had it meant 'a fool'. The phrase इति च मूर्खे has been added by *Bhattoji* *Dikshit* through Brahmanical spite. Vart:- The Genitive affix is not elided after श्वन् when शेप, पुच्छ and लांगुल follow it :- शुन शेपः, शुनः पुच्छः, शुनोलांगुलः ॥ Vart:- The Genitive affix is not elided after दिव् when दास follows: as दिवोदासः ॥ Bhashya ------- षष्ठ्या आक्रोशे (2880) (6409 उपसंख्यानवार्तिकम् ॥ 1 ॥) - षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानम् - षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानं कर्तव्यम् । वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः ॥ (6410 उपसंख्यानवार्तिकम् ॥ 2 ॥) - आमुष्यायणामुष्यपुत्रिका - आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानं कर्तव्यम् । आमुष्यायणः, अमुष्यपुत्रिका ॥ अमुष्यकुलिकेति च वक्तव्यम् । अमुष्यकुलिका ॥ (6411 उपसंख्यानवार्तिकम् ॥ 3 ॥) - देवानांप्रिय इति च - देवानां प्रिय इति चोपसंख्यानं कर्तव्यम् । देवानांप्रियः ॥ (6412 उपसंख्यानवार्तिकम् ॥ 4 ॥) - शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानम् - शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानं कर्तव्यम् । शुनः शेपः, शुनः पुच्छः, शुनोलाङ्गूलः ॥ (6413 उपसंख्यानवार्तिकम् ॥ 5 ॥) - दिवश्च दासे - दिवश्च दासे उपसंख्यानं कर्तव्यम् । दिवोदासाय गायत ॥ Kashika ------- आक्रोशे गम्यमान उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोश इति किम्? ब्राह्मणकुलम्॥ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः॥ वाचोयुक्ति ः। दिशोदण्डः। पश्यतोहरः॥ आमुष्यायणामुष्य — पुत्रिकामुष्यकुलिकेति चालुग् वक्तव्यः॥ अमुष्यापत्यमामुष्यायणः। नडादित्वात् (४.१.९९) फक्। अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका। मनोज्ञादित्वाद् (५.१.१३३) वुञ्। तथा आमुष्यकुलिकेति॥ देवानांप्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः॥ देवानांप्रियः॥ शेपपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग् वक्तव्यः॥ शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः॥ दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः॥ दिवोदासाय गायति॥ Siddhanta Kaumudi ----------------- चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् । (वार्तिकम्) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । (वार्तिकम्) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका । (वार्तिकम्) ॥ अन्यत्र देवप्रियः । (वार्तिकम्) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः । (वार्तिकम्) ॥ दिवोदासः ॥ Balamanorama ------------ **षष्ठ्या आक्रोशे** - षष्ठआ आक्रोशे । 'अलुगुत्तरपदे' इति शेषः । आक्रोशो-निन्दा । वाग्दिक् । वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठआ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पस्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी । आमुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्याषत्यमित्यर्थेनडादिभ्यः फगि॑ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे 'आमुष्यायण' इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठआ अलुकि 'अमुष्यपुत्र' शब्दः । अमुष्यपुत्रस्य भाव इत्यर्थेद्वन्द्वमनोज्ञादिभ्यश्चे॑ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापिप्रत्ययस्था॑दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठआ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् ।मूर्खः-अज्ञः ।दिवु क्रीडायाम् । देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोषप्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादितिअजेर्वी॑त्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठआ अलु॑गिति सेषः । संज्ञायामिति ।भाष्यम् ष शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः ।मेढ्रो मेहनशेपसी॑ । शेफशब्दोऽप्यस्ति, 'शेपाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषणां संज्ञा एताः । दिवश्च दासे इति । वार्तिकम् ।षष्ठआ अलु॑गिति शेषः । दिवोदास इति कश्चिद्राजर्षिरयम् । Padamanjari ----------- एपश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः । शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥ Nyaas ----- `चौरस्यकुलम्` इति। आक्रोशप्रतिपादनपरमेतत्, न त्वनेन तस्य सम्बन्धो विवक्षितः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `पश्यतोहरः` इति। पश्यत इति **षष्ठी चानादरे** (2.3.38) इति षष्ठी। हरतीति हरः पचाद्यच्। `अमुष्य` इति। अदसस्त्यदाद्यत्वम्, **अदसोऽसेर्दादु दो मः** (8.2.80) इत्युत्त्वमत्वे, उत्त्वस्यासिद्धवात्**टाङसिङसामिनात्स्याः** (7.1.12) इति ङसः स्यादेशः। तथा `अमुष्यकुलिकेति` (इति)। यथा अमुष्यपुत्रिकेत्यत्र भनोज्ञादित्वात्? (5.1.132) वुञ्, तथात्रापीत्यर्थः। `देवानाम्प्रियः` इति। प्रीणातीति प्रियः, **इगुपधज्ञाप्रीकिरः कः** (3.1.135) इति कप्रत्ययः इयङादेशः। `शुनःशेपः` इति। `आयुवमघोनामतद्धिते` (6.4.133) इति सम्प्रसारणम्॥ Prakriyasarvasvam ----------------- क्षेपे द्योत्ये षष्ठ्या अलुक् । चोरस्यकुलम् । देवानांप्रियोऽसमर्थः । 'वाग्दिक्- पश्यद्भ्यो युक्तिदण्डहरेषु', वाग्योजनं वाचोयुक्तिः । तद्वानित्यन्ये । दिशोदण्डः । पश्यतोहरः । शुनः शेपपुच्छलाङ्गूलेषु संज्ञायाम् । शुनःशेपः शुनःपुच्छः शुनो लाङ्गूल इत्यृषयः । 'दिवश्च दासे' । दिवोदासः ॥ Vartika ------- वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु ।