62197: द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ¶
Padacheda: द्वित्रिभ्याम् | S | 5 | 2 |
पाद्-दत्-मूर्धसु | S | 7 | 3 |
बहुव्रीहौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास the words 1. पाद् 2. दत् and 3. मूर्धन् have optionally acute accent (उदात्त) on the final after द्वि and त्रि।
Vasu English Translation¶
In a बहुव्रीहि समास the words 1. पाद् 2. दत् and 3. मूर्धन् have optionally acute accent (उदात्त) on the final after द्वि and त्रि। Thus द्वौ पादावस्य = द्विपा꣡त् or द्विपा꣡त्, त्रिपा꣡द् or त्रिपा꣡द्, द्विद꣡म् or द्विद꣡म्, त्रिद꣡न् or त्रिद꣡न्, द्विमूर्द्धा꣡ or द्वि꣡मूर्धा ॥ The word पाद् is पाद with its अ elided, (5.4.140) दत् is the substitute of दन्त (5.4.141) and मूर्धन् retains its न् not allowing samasanta affix. This also indicates that the samasanta rule is not universal. When the samasanta affix is added, then also the acute is on the final, for the कार्यी is here the Bahuvrihi compound, and this is only a part of it. Thus द्विमूर्द्धः, त्रिमूर्द्धः ॥ Why after द्वि and त्रि ? Observe कल्या꣡णमूर्धा here the first member is middle acute by Phit II.19 and this accent is retained (VI.2. I). Why ‘पाद् &c’? Observe द्विहस्तम्, त्रिहस्तम् ॥ Why ‘Bahuvrihi’? Observe दयोमूर्द्धा = द्विमूर्द्धा ॥
Bhashya¶
द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (2857) (पक्षद्वयोपस्थापकभाष्यम्) किमिदं द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणम्, आहोस्विन्नकारान्तग्रहणम् ? कश्चात्र विशेषः ? (6379 प्रथमपक्षे दोषवार्तिकम् ॥ 1 ॥) - द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नकारान्तस्योपसंख्यानम् - द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नकारान्तस्योपसंख्यानं कर्तव्यम् । द्विमूर्धा, त्रिमूर्धा ॥ अस्तु तर्हि नकारान्तग्रहणम् । (6380 द्वितीयपक्षे दोषवार्तिकम् ॥ 2 ॥) - नकारान्तेऽकारान्तस्य - नकारान्ते सत्यकारान्तस्योपसंख्यानं कर्तव्यम् । द्विमूर्धः, त्रिमूर्धः ॥ (6381 द्वितीयपक्षे दोषोद्धारवार्तिकम् ॥ 3 ॥) - उदात्तलोपात्सिद्धम् - अस्तु तर्हि नकारान्तग्रहणम्, अन्तोदात्तत्वे कृते लोपः, उदात्तनिवृत्तिस्वरेण सिद्धम् ॥ (दोषोद्धाराक्षेपभाष्यम्) इदमिह संप्रधार्यम् - अन्तोदात्तत्वं क्रियतां लोप इति, किमत्र कर्तव्यम् ? परत्वाल्लोपः ॥ (समाधानभाष्यम्) एवं तर्हि इदमिह संप्रधार्यम् - अन्तोदात्तत्वं क्रियतां समासान्त इति, किमत्र कर्तव्यम् ? परत्वादन्तोदात्तत्वम् । नित्यः समासान्तः । कृतेऽप्यन्तोदात्तत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति । अन्तोदात्तत्वमपि नित्यम् । कृतेऽपि समासान्ते प्राप्नोत्यकृतेऽपि प्राप्नोति । अनित्यमन्तोदात्तत्वम्, न हि कृते समासान्ते प्राप्नोति । परत्वाल्लोपेन भवितव्यम् । भवत्येव लोपः ॥ (सिद्धान्तभाष्यम्) यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च समासान्त एवान्तोदात्तत्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं लोपः प्रतीक्ष्यः । उभयोर्नित्ययोः परत्वादन्तोदात्तत्वम्, अन्तोदात्तत्वे कृते समासान्तः, टिलोपः, टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् ॥ (सिद्धान्तपक्षस्य युक्तत्वोपपादनभाष्यम्) युक्तं पुनरिदं विचारयितुम् - नन्वनेनासन्दिग्धेन नकारान्तग्रहणेन भवितव्यम्, यावता मूर्धस्वित्युच्यते । यद्यकारान्तग्रहणं स्यात् मूर्धेष्विति ब्रूयात् । सैषा समासान्तार्था विचारणा ॥ एवं तर्हि ज्ञापयत्याचार्यः - विभाषा समासान्तो भवतीति ॥
Kashika¶
द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्धन् इत्येतेषूत्तरपदेषु यो बहुव्रीहिस्तत्र विभाषान्त उदात्तो भवति। द्वौ पादावस्य द्वि॒पात् (तै०सं० २.६.८.४), द्विपा॑त्। त्र्िापात्, त्रिपा॑त्। द्वि॒दन्, द्विद॑न्। त्रि॒दन्,त्रिद॑न्। द्वि॒मू॒र्धा, द्विमू॑र्धा। त्रि॒मू॒र्धा, त्रिमू॑र्धा। पादिति कृताकारलोपः पादशब्दो गृह्यते। ददिति कृतददादेशो दन्तशब्दः। मूर्धन्निति त्वकृतसमासान्तो नान्त एव मूर्धन्शब्दः। तस्यैतत् प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात्। एतदेव ज्ञापकमनित्यः समासान्तः (परि० ८४) भवतीति। यदापि समासान्तः क्रियते, तदापि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वात् च समासान्तस्यान्तोदात्तत्वं पक्षे भवत्येव। द्वि॒मू॒र्धः। त्रि॒मू॒र्धः। द्वित्रिभ्यामिति किम्? क॒ल्याण॑मूर्धा। पादादिष्विति किम्? द्विह॑स्तम्। बहुव्रीहाविति किम्? द्वयोर्मूर्धा द्वि॒मू॒र्धा॥
Siddhanta Kaumudi¶
आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥
Nyaas¶
द्वित्रिभ्याम् इति। दिग्योगलक्षणा (2.3.29) पञ्चमी। पाद्दन्मूर्धसु इति। यस्य च भावेन भावलक्षणम् (2.3.37) इति भावलक्षणा सप्तमी। बहुव्रीहीः कार्यी। अत आह -द्वि त्रि इत्येताभ्याम् इत्यादि। द्विपात्, त्रिपात् इति। पादस्य लोपोऽहस्त्यादिभ्यः (5.4.138) , संख्यासुपूर्वस्य (5.4.140) इत्यकारलोपः। पादशब्दो घञन्तत्वादाद्युदात्त इति पाच्छब्दश्चाद्युदात्तः एव भवति। द्विदन् इति। वयसि दन्तस्य (5.4.141) इति दत्रादेशः। दन्तशब्द आद्युदात्त इत्युक्तम्। तेन दत्रादेशोऽपि स्थानिवद्भावेनाद्युदात्त एव भवति। द्विमूर्धा इति। मूर्धशब्दः आन्नुक्षन्पूषन्प्लीहन् (द।उ।6।55) इत्यादिना रन्प्रत्ययान्तो निपात्यते। तेनाद्युदात्तः। मूर्धन् इत्यादि। द्वित्रिभ्यां ष मूर्ध्नः (5.4.115) [षो इति मु। पाठः] इति षः समासान्तः प्राप्नोति, स न कृतः। तेनात्र नान्त एव मूर्धशब्दः। किं पुनः कारणमकृतसमासान्त एव मूर्धञ्शब्द उपात्तः? इत्यात आह -तस्य इत्यादि। यदि कृतसमासान्त उपादीयेत तदा सत्येव समासान्तेऽन्तोवात्तत्वं स्यात्, असति न स्यात्। तस्मादसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यादित्येतत्? प्रयोजनमकृतसमासान्तनिर्देशस्य। ननुच नित्यमेव समासन्तेन भवितव्यम्, तत्? कुतस्तस्यासत्त्वम्? इत्यत आह -एतदेव इत्यादि। यदिदमस्य प्रयोजनस्य सम्पादनारथमकृतसमासान्तस्य मूर्धन्शब्दस्योपादनाम्, एतदेव ज्ञापकम् -अनित्यः समासान्तो भवतीति। तेन द्विमूर्धत्यादिप्रयोग उपपन्नो भवति। यदि तह्र्रकृतसमासान्त इह मूर्धन्शब्द उपात्तः, एवं सति यदा समासान्तः क्रियते तदान्तोदात्तेन न भवितव्यम्। कृतसमासान्तस्य शब्दान्तरत्वादित्यत आह -यद्यपि इत्यादि। इह हि बहुव्रीहिः कार्यी, तदेकदेशित्वं च समासान्तस्य। एकदेशोऽस्यासतीत्येकदेशी, स बहुव्रीहिरेकदेशी यस्य समासान्तस्य स तदेकदेशी, तद्भावसतदेकदेशित्वम्। एतेन बहुव्रीह्रवयवत्वं समासान्तस्य दर्शयन्? कृतसमासान्तस्य शब्दान्तरत्वं निरस्यति। तदेवं यस्मादिह बहुव्रीहिः कार्यी तदेकदेशित्वञ्च समासान्तस्य, तस्माद्यदापि समासान्तः क्रियते तदापि पक्षेऽन्तोदात्तत्वं भवत्येव। कल्याणमूर्धा इति। कल्याणशब्दः नब्विषयस्य (फि।सू।2।26) इत्याद्युदात्तः। द्वयोर्मूर्धा इति। अत्र नित्यमेव समासान्तोदात्तत्वं भवति॥
Prakriyasarvasvam¶
द्वित्रिभ्यामेषु परेषु अन्त उदात्तो वा स्यात् । द्विपात् । त्रिपादप्रभ्ये(?)ति । द्विदन् । दिमूर्धा । एवं त्रिपादित्यादि मूर्ध्नः समासान्ताभावे विधिः । समासान्ते कृतेऽपि तस्य समासांशत्वात् स्यादेव । द्विमूर्धः । त्रिमूर्धः ।