62198: सक्थं चाक्रान्तात्

Padacheda: सक्थम् | S | 1 | 1 |

च | S | 0 | 0 |

अक्रान्तात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The word सक्थ has acute accent (उदात्त) on the final optionally when preceded by any word other than what ends in क्र।

Vasu English Translation

The word सक्थ has acute accent (उदात्त) on the final optionally when preceded by any word other than what ends in क्र। The word सक्थ is the samasanta form of सक्थि (5.4.113). Thus गौरसक्थः꣡ or गौर꣡सक्थः, श्लक्ष्णसक्थः꣡ or श्लक्ष्ण꣡सक्थः The word गौर being formed by प्रज्ञादि अण् and श्लक्ष्ण by कस्न (Unadi III.19) are both end-acute. Why ‘not after a word ending in क्र’? Observe चक्रसक्थः꣡ which is always oxytone as it is formed by षच् (5.4.113) a चित् affix.

Kashika

सक्थमिति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते, सोऽक्रान्तात् परो विभाषान्तोदात्तो भवति। गौ॒र॒स॒क्थः, गौ॒र॒स॑क्थः। श्ल॒क्ष्ण॒स॒क्थः, श्ल॒क्ष्णस॑क्थः। अक्रान्तादिति किम् ? च॒क्॒रस॒क्थः। षचश्चित्त्वाद् नित्यमन्तोदात्तत्वं भवति॥

Siddhanta Kaumudi

गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥

Padamanjari

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति समासान्ते कृते यः सक्थशब्दः सोऽत्र गृह्यते । क्रशब्दोऽन्तो यस्य स क्रान्तः, ततोऽन्योऽक्रान्त इति । गौरसक्थ इति । गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदातः । श्लिषेरञ्चोपपधायाः इति श्लक्ष्णशब्दोऽन्तोदातः । षचश्चित्वादिति । एतेन चित्स्वरस्यायमपवादः, प्राप्तविभाषेयमिति दर्शंयति ॥

Nyaas

सक्थमिति इति। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच् (5.4.113) इत्यनेन षच्? समासान्तो यस्य स सक्यिशब्दोऽत्र गृह्रते। अक्रान्तात् इति। क्रशब्दो अन्तो यस्य सः क्रान्तः। न क्रान्तोऽक्रान्तः। गौरसक्यः इति। गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदात्तः। श्लक्ष्णसक्थः इति। कृत्यशूभ्यां क्स्नः (द।उ।5।49) इति प्रकृते श्लिषेरच्चोपधायाः (द।उ।5।51) क्स्नप्रत्ययान्तः श्लक्ष्मशब्दः। तेनान्तोदात्तः। चक्रसक्थः इति। करोतेः किन्? द्वे च (द।उ।8।103) [करोतेद्र्वे च -द।उ।] इति चक्रशब्द आद्युदात्तः॥

Prakriyasarvasvam

पजन्त: सक्थशब्दोऽक्रात् परोऽन्तोदात्ता वा स्यात् । गौरसक्थः ।श्लक्ष्णसक्थः । क्रान्तात् तु-चक्रसक्थः । अत्र पचि नित्यमन्तोदात्त: ।