62188: अधेरुपरिस्थम्

Padacheda: अधेः | S | 5 | 1 |

उपरिस्थम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After अधि that word which denotes that thing which overlaps or stands upon has the acute accent (उदात्त) on the final.

Vasu English Translation

After अधि that word which denotes that thing which overlaps or stands upon has the acute accent (उदात्त) on the final. Thus अधिदन्तः꣡ = दन्तस्योपरि योऽन्योदन्तो जायते ‘a tooth that grows over another tooth’.अधिकर्णः꣡, अधिकेशः꣡ ॥ These are प्रादि samasa or an appositional compound in which the second member has been dropped. Why do we say when meaning ‘standing upon’? Observe अधिक꣡रणम् Here the acute is on क, the krit-formed second member retaining its accent (6.2.139).

Kashika

अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति। अ॒धि॒द॒न्तः। अ॒धि॒क॒र्णः। अ॒धि॒के॒शः। अध्यारूढो दन्त इति प्रादिसमासः। अध्यारूढो वा दन्त इति समानाधिकरण उत्तरपदलोपी समासः। दन्तस्योपरि योऽन्यो दन्तो जायते, स उच्यतेऽधिदन्त इति। उपरिस्थमिति किम्? अ॒धि॒कर॑णम्॥

Siddhanta Kaumudi

अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥

Padamanjari

उपरि तिष्ठतीत्युपरिस्थम्, सुपि स्थः इति कः । दन्तस्योपरीत्यादिनोपरिस्थत्वं दर्शयति । अधिकरणमिति । अत्र कृदुतरपदप्रकृतिस्वरेण ककाराकार उदातः ॥

Prakriyasarvasvam

अधेः परमुपरिस्थवाचि अन्तोदात्तं स्यात् । अध्यारूढो द्वितीयो दन्तोऽ-