62182: परेरभितोभाविमण्डलम्

Padacheda: परेः | S | 5 | 1 |

अभितोभावि | S | 1 | 1 |

मण्डलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After परि a word which expresses something which has both this side and that side, as well as the word मण्डल has acute accent (उदात्त) on the final.

Vasu English Translation

After परि a word which expresses something which has both this side and that side, as well as the word मण्डल has acute accent (उदात्त) on the final. Thus परिकूल꣡म्, परितीर꣡म्, परिमण्डल꣡म् ॥ This is a Bahuvrihi or प्रादि compound or an Avyayibhava. If it is an Avyayibhava, then rule (6.2.33) is superseded, and the first member does not retain its original accent. अभितः = उभयतः ‘on both sides’, अभितोभावोऽस्यास्ति = अभितोभाविन् ‘that which has both sides’: namely those things which have naturally two sides such as ‘banks’, ‘shores’ &c.

Kashika

परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति। प॒रि॒कू॒लम्। प॒रि॒ती॒रम्। प॒रि॒म॒ण्ड॒लम्। बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा। अव्ययीभावपक्षेऽपि हि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु (६.२.३३) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते। अभित इत्युभयतः। अभितो भावोऽस्यास्तीति तदभितोभावि। यच्चैवंस्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते॥

Siddhanta Kaumudi

परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥

Nyaas

परिकूलम्, परितीरम् इति। कूलतीरशब्दावुक्तस्वरौ कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे (6.2.121) इत्यादौ सूत्रे। परिमण्डलम् इति। परितः=सर्वतो मणाडलं परिमण्डलम्। मणि भूषायाम् (धातुपाठः-321) -अस्मात्? कलस्तृपश्च (द।उ।8।107) इति बाहुलकात्? कलप्रत्ययः, वृषादिभ्यश्चित् (द।उ।8।109) इति च। तेन मण्डलमन्तोदात्तम्। बहुव्रीहिरयम् इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति तेन मण्डलमन्तोदात्तम्। बहुव्रीहिरयम् इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति विग्रहः। यदा तु प्रादिसमासस्तदा परिगतं कूलम्, परिगतं तीरमिति। यदा पुनरव्ययीभावस्तदा -परि कूलात्, परि तीरादिति। अव्ययीभावस्तु अपपरिबहिरञ्चवः पञ्चम्या (2.1.12) इत्यनेन। परि कूलादिति पञ्चमी पञ्चम्यपाङपरिभिः (2.3.10) इति कर्मप्रवचनीययोगे। कर्मप्रवचनीयत्वं तु परेः अपपरी वर्जने (1.4.88) इति। युक्तं यद्बहुव्रीहौ तत्पुरुषे चेदमन्तोदात्तत्वं विधीयते; तत्र हि समासान्तोदात्तत्वस्यापवादः, पूर्वपदप्रकृतिस्वरः प्राप्नोति। अव्ययीभावे त्वयुक्तम्; तत्र हि समासान्तोदात्तत्वेनैव सिद्धम्। न हि तस्यापवादः पूर्वपदप्रकृतिस्वरः केनचित्? प्राप्त इत्यत आह -अव्ययीभावपक्षेऽपि हि इत्यादि। यदाप्यव्ययीभावपक्षः, तदापि परिप्रत्युपपा (6.2.33) इत्यादिना पूर्वपदप्रकृतिस्वरः प्राप्तोनेनान्तोदात्तत्वविधानेन बाध्यत इति किमत्रायुक्तम्। यच्चैवंस्वभावम् इत्यादि। अभितो भवनं यस्य स्वभावस्तदभितोभाविग्रहणेन गृह्रते, न तु तद्विपरीतस्वभावम्॥

Prakriyasarvasvam

उभयतो भवनस्वभावमभितोभावि । तद्वाचि मण्डलं परेः परमन्तोदात्तं स्यात् । परिकूलम् । परितीरम् । परिमण्डलम् । बहुव्रीहिः प्रादिरव्ययीभावो वा ।