62182: परेरभितोभाविमण्डलम् ========================== **Padacheda:** परेः | S | 5 | 1 | अभितोभावि | S | 1 | 1 | मण्डलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After परि a word which expresses something which has both this side and that side, as well as the word मण्डल has acute accent (उदात्त) on the final. Vasu English Translation ------------------------ After परि a word which expresses something which has both this side and that side, as well as the word मण्डल has acute accent (उदात्त) on the final. Thus परिकूल꣡म्, परितीर꣡म्, परिमण्डल꣡म् ॥ This is a *Bahuvrihi* or प्रादि compound or an *Avyayibhava*. If it is an *Avyayibhava*, then rule (6.2.33) is superseded, and the first member does not retain its original accent. अभितः = उभयतः 'on both sides', अभितोभावोऽस्यास्ति = अभितोभाविन् 'that which has both sides': namely those things which have naturally two sides such as 'banks', 'shores' &c. Kashika ------- परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति। प॒रि॒कू॒लम्। प॒रि॒ती॒रम्। प॒रि॒म॒ण्ड॒लम्। बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा। अव्ययीभावपक्षेऽपि हि **परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु** (६.२.३३) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते। अभित इत्युभयतः। अभितो भावोऽस्यास्तीति तदभितोभावि। यच्चैवंस्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते॥ Siddhanta Kaumudi ----------------- परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥ Nyaas ----- `परिकूलम्, परितीरम्` इति। कूलतीरशब्दावुक्तस्वरौ **कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे** (6.2.121) इत्यादौ सूत्रे। `परिमण्डलम्` इति। परितः=सर्वतो मणाडलं परिमण्डलम्। `मणि भूषायाम्` (धातुपाठः-321) -अस्मात्? `कलस्तृपश्च` (द।उ।8।107) इति बाहुलकात्? कलप्रत्ययः, `वृषादिभ्यश्चित्` (द।उ।8।109) इति च। तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्` इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्` इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति विग्रहः। यदा तु प्रादिसमासस्तदा परिगतं कूलम्, परिगतं तीरमिति। यदा पुनरव्ययीभावस्तदा -परि कूलात्, परि तीरादिति। अव्ययीभावस्तु **अपपरिबहिरञ्चवः पञ्चम्या** (2.1.12) इत्यनेन। परि कूलादिति पञ्चमी `पञ्चम्यपाङपरिभिः` (2.3.10) इति कर्मप्रवचनीययोगे। कर्मप्रवचनीयत्वं तु परेः **अपपरी वर्जने** (1.4.88) इति। युक्तं यद्बहुव्रीहौ तत्पुरुषे चेदमन्तोदात्तत्वं विधीयते; तत्र हि समासान्तोदात्तत्वस्यापवादः, पूर्वपदप्रकृतिस्वरः प्राप्नोति। अव्ययीभावे त्वयुक्तम्; तत्र हि समासान्तोदात्तत्वेनैव सिद्धम्। न हि तस्यापवादः पूर्वपदप्रकृतिस्वरः केनचित्? प्राप्त इत्यत आह -`अव्ययीभावपक्षेऽपि हि` इत्यादि। यदाप्यव्ययीभावपक्षः, तदापि `परिप्रत्युपपा` (6.2.33) इत्यादिना पूर्वपदप्रकृतिस्वरः प्राप्तोनेनान्तोदात्तत्वविधानेन बाध्यत इति किमत्रायुक्तम्। `यच्चैवंस्वभावम्` इत्यादि। अभितो भवनं यस्य स्वभावस्तदभितोभाविग्रहणेन गृह्रते, न तु तद्विपरीतस्वभावम्॥ Prakriyasarvasvam ----------------- उभयतो भवनस्वभावमभितोभावि । तद्वाचि मण्डलं परेः परमन्तोदात्तं स्यात् । परिकूलम् । परितीरम् । परिमण्डलम् । बहुव्रीहिः प्रादिरव्ययीभावो वा ।