62179: अन्तः¶
Padacheda: अन्तः | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After अन्तर् the acute accent (उदात्त) falls on the final of वन।
Vasu English Translation¶
After अन्तर् the acute accent (उदात्त) falls on the final of वन। Thus अन्तर्वणो꣡ देशः ॥ This sutra is made in order to make क्न oxytoned, when a preposition (upasarga) does not precede.
Kashika¶
अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति। अ॒न्त॒र्व॒णो देशः। अनुपसर्गार्थ आरम्भः॥
Siddhanta Kaumudi¶
अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ॥
Nyaas¶
अन्तः इति स्वरादिष्वन्तोदात्तो निपात्यते। अन्तर्वणो देशः इति। अन्तर्वनं यस्मिन्निति बहुव्रीहिः, वनेऽन्तः इति शौण्डादिपाठात्? (2.1.39) सप्तमीसमासो वा। प्रनिरन्तरः (8.4.5) इत्यादनना णत्वम्। अनुपसर्गार्थ आरम्भः इति। उपसर्गात्? पूर्वेणैव सिद्धत्वात्॥
Prakriyasarvasvam¶
अन्तःशब्दात्परं वनमन्तोदात्तं स्यात् । अन्तर्बणो देशः । सर्वत्र समासान्तौ यथासंभवमूह्यम् ।