62180: अन्तश्च¶
Padacheda: अन्तः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word अन्तर् has acute accent (उदात्त) on the final when preceded by a preposition.
Vasu English Translation¶
The word अन्तर् has acute accent (उदात्त) on the final when preceded by a preposition. Thus प्रान्तः꣡, पर्यन्तः꣡ ॥ This is a Bahuvrihi or a प्रादि compound.
Kashika¶
अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति। प्॒रान्तः। प॒र्य॒न्तः। बहुव्रीहिरयं प्रादिसमासो वा॥
Siddhanta Kaumudi¶
।उपसर्गादन्तः शब्दोऽन्तोदात्तः । पर्यन्तः समन्तः ॥
Nyaas¶
अन्तःशब्दः हसिमृग्रिण्वमिदमिलूपूधुर्विभ्यस्तन् (द।उ।6।7) इति तन्प्रत्ययान्तत्वादाद्युदात्तः॥
Prakriyasarvasvam¶
प्रादेः परोऽन्तशब्दोऽन्तोदात्तः स्यात् । समन्तं पर्यवद्यति । प्रान्तः । प्रादि- र्बहुव्रीहिर्वा ।