62178: वनं समासे¶
Padacheda: वनम् | S | 1 | 1 |
समासे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After a preposition वन has acute accent (उदात्त) on the final in compounds of every kind.
Vasu English Translation¶
After a preposition वन has acute accent (उदात्त) on the final in compounds of every kind. Thus प्रवणे꣡ यष्टव्यम्, निर्वणे꣡ प्रणिधीयते, the न changed to ण by (8.4.5). The word ‘samasa’ is used in the sutra to indicate that all sorts of compounds are meant, otherwise only Bahuvrihi would have been meant.
Kashika¶
समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात् परमन्तोदात्तं भवति। प्॒रव॒णे यष्टव्यम्। नि॒र्व॒णे प्रणिधीयते। प्रनिरन्तः० (८.४.५) इति णत्वम्। समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात्॥
Siddhanta Kaumudi¶
समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ॥
Nyaas¶
समासमात्रे इति। मात्रग्रहणेन बहुव्रीहेर्निवृत्ति सूचयति। प्रवणे इति। यदायं बहुव्रीहिस्तदा प्रकृष्टं प्रकृतं वा वनमस्येति विग्रहः। यदा तु तत्पुरुषः, तदा प्रकृष्टं वनं प्रगतं वा वनमिति विग्रहः। निर्वणे इति। अत्रापि यदा बहुव्रीहिः, तदा निर्गतं वनमस्येति विग्रहः। यदा तु तत्पुरुषस्तदा निरगतो वनादिति तत्पुरुषस्तु कुगतिप्रादयः (2.2.18) इति। किं पुनः स्याद्यदि समासमात्रपरिग्रहार्थं समासग्रहणं न क्रियेत? इत्यत आह -बहुव्रीहावेव हि स्यात् इति। रञ्जेः क्युन्`(द।उ।5।24-पं।उ।2।80)। [`रजेः -द।उ।] बहलवनात्? वनु याचने (धातुपाठः-1470) इत्यस्मादपि भवति। तेन वनमाद्युदात्तम्॥
Prakriyasarvasvam¶
प्रादेः परं वनं समासमात्रेऽन्तोदात्तं स्यात् । उद्वनादुदकानीव प्रवणे यष्टव्यम् ।