62178: वनं समासे ================ **Padacheda:** वनम् | S | 1 | 1 | समासे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a preposition वन has acute accent (उदात्त) on the final in compounds of every kind. Vasu English Translation ------------------------ After a preposition वन has acute accent (उदात्त) on the final in compounds of every kind. Thus प्रवणे꣡ यष्टव्यम्, निर्वणे꣡ प्रणिधीयते, the न changed to ण by (8.4.5). The word '*samasa*' is used in the *sutra* to indicate that all sorts of compounds are meant, otherwise only *Bahuvrihi* would have been meant. Kashika ------- समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात् परमन्तोदात्तं भवति। प्॒रव॒णे यष्टव्यम्। नि॒र्व॒णे प्रणिधीयते। **प्रनिरन्तः०** (८.४.५) इति णत्वम्। समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात्॥ Siddhanta Kaumudi ----------------- समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ॥ Nyaas ----- `समासमात्रे` इति। मात्रग्रहणेन बहुव्रीहेर्निवृत्ति सूचयति। `प्रवणे` इति। यदायं बहुव्रीहिस्तदा प्रकृष्टं प्रकृतं वा वनमस्येति विग्रहः। यदा तु तत्पुरुषः, तदा प्रकृष्टं वनं प्रगतं वा वनमिति विग्रहः। `निर्वणे` इति। अत्रापि यदा बहुव्रीहिः, तदा निर्गतं वनमस्येति विग्रहः। यदा तु तत्पुरुषस्तदा निरगतो वनादिति तत्पुरुषस्तु **कुगतिप्रादयः** (2.2.18) इति। किं पुनः स्याद्यदि समासमात्रपरिग्रहार्थं समासग्रहणं न क्रियेत? इत्यत आह -`बहुव्रीहावेव हि स्यात्` इति। `रञ्जेः क्युन्`(द।उ।5।24-पं।उ।2।80)। [`रजेः` -द।उ।] बहलवनात्? `वनु याचने` (धातुपाठः-1470) इत्यस्मादपि भवति। तेन वनमाद्युदात्तम्॥ Prakriyasarvasvam ----------------- प्रादेः परं वनं समासमात्रेऽन्तोदात्तं स्यात् । उद्वनादुदकानीव प्रवणे यष्टव्यम् ।