62174: ह्रस्वान्तेऽन्त्यात् पूर्वम्

Padacheda: ह्रस्वान्ते | S | 7 | 1 |

अन्त्यात् | S | 5 | 1 |

पूर्वम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

When the compound ends in a light vowel the acute accent (उदात्त) falls on the syllable before such last, in a बहुव्रीहि समास preceded by नञ् and सु to which the affix कप् – नद्यृतश्च (5.4.153), is added.

Vasu English Translation

When the compound ends in a light vowel the acute accent (उदात्त) falls on the syllable before such last, in a बहुव्रीहि समास preceded by नञ् and सु to which the affix कप् – नद्यृतश्च (5.4.153), is added. Thus अय꣡वकोदेशः, अव्री꣡हिकः, अमा꣡षकः, सुय꣡वकः, सुव्री꣡हिकः, सुमा꣡꣡षकः ॥ The repetition of पूर्व in this sutra, though its anuvritti was present from the last shows, that in the last aphorism, the syllable preceding कप् takes the acute, while here the syllable preceding the short-vowel-ending final syllable has the acute and not the syllable preceding कप् ॥ This is possible with a word which is, at least, of two syllables (not counting, of course, सु and क or कप्). Therefore, in अज्ञ꣡कः and सुज्ञ꣡कः, the acute is on the syllable preceding कप् by (6.2.173), because it has here no antyat-purvam.

Kashika

ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात् पूर्वमुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे। अ॒यव॑को देशः। अ॒व्रीहि॑कः। अ॒माष॑कः। सु॒यव॑कः। सु॒व्रीहि॑कः। सु॒माष॑कः। पूर्वमिति वर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् — ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति, न कपि पूर्वमिति। तेन अ॒ज्ञ॒कः सु॒ज्ञ॒क इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति॥

Siddhanta Kaumudi

ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥

Padamanjari

ह्रस्वान्ते इत्यस्य बहुव्रीहेरन्यपदार्थ उतरपदं समासो वेत्याह - ह्रस्वोऽन्तो यस्यत्यादि । अत्र च कपि परतः इति पृथग्वचनातद्रहितमुतरपदं समासश्च गृह्यते, पूर्वग्रहणमनर्थकम्, कपि पूर्वमित्यनुवृतेः इत्यत आह - पूर्वमिति वर्तमाने इत्यादि । द्वितीये पूर्वग्रहणे सति प्रवृत्तिभेदो भवति, तत्रैकया प्रवृत्या ह्रस्वान्तऽन्त्यात्पूर्वस्योदातत्वं विधीयते, अपरया तु नियम्यते - ह्रस्वान्तेऽन्स्यादेव पूर्वमुदातं भवति, न तु कपि पूर्वमिति। तेन किं सिद्धं भवति तत्राह - तेनेति । नास्त्यस्य ज्ञ इत्यज्ञकः, शोभनो ज्ञोऽस्येति सुज्ञकः । तत्र यद्येष नियमो न स्यात्, ततोऽन्त्यात्पूर्व उदातभावी नास्तीति कपि पूर्वम् इत्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति, नञ्सुभ्याम् इति कबन्तस्यैव भवति । यथा च कबन्तस्य भवति तथा तत्रैव प्रितपादितम् । व्यक्तिपक्षाश्रयणे चैतत्पूर्वग्रहणं कृतम् । जातिपक्षाश्रयणे तु यथा हलादिः शेषः इत्यत्र क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति, (तथैव ) ह्रस्वान्तेऽन्त्यात्पूर्वम् इत्यत्रापि ह्रस्वजातेराश्रयणात्सर्वत्र ह्रस्वान्ते तक्रकौण्डिन्यन्यायेन कपि पूर्वम् इत्यस्याप्रवृत्तिः सिध्यति ॥

Nyaas

ह्रस्वोऽन्तोऽस्य इत्यादि। अनेन ह्रस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। अयवको देशः इति। अत्र कपि परतो यव इत्येतत्? ह्रस्वान्तमुत्तरपदम्, अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्, पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्।अथ पूर्वग्रहणं किम्, यावता कपि पूर्वम् (6.2.173) इत्यतः पूर्वमिति वर्तत एव? इत्यत आह -पूर्वमिति वर्तमाने इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामर्थ्यात्, अन्यथा हि तदपार्थकं स्यात्। तत्रैकय प्रवृत्त्या ह्रस्वन्तेऽन्त्यात्? पूर्वमन्तोदात्तं विथधीयते। अपरया तु ह्रस्वान्तेऽन्त्यात्? पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। तेन इत्यादिना नियमो न स्यात्, तदात्रान्त्यात्? पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्। कपि पूर्वम् (6.2.173) इत्यनेन नियमे तु सति न भवति। तेन नञ्सुभ्याम् (6.2.172) इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्॥

Prakriyasarvasvam

नञ् सुभ्यां परस्य ह्रस्वान्ते पदे वरे कपि परेऽन्त्यात्पूर्वमुदात्तं स्यात् । अयवको देशः । सुव्रीहिकः । पूर्वाधिकारे पुनः । पूर्वग्रहौ ह्रस्वान्तेऽन्त्यात् पूर्वमेवोदात्तं स्यादिति नियमार्थः । तेन अज्ञकः इत्यादौ ‘नञ् सुभ्याम् (६-२- १७२) इत्यत्र कृतसमासान्तस्याप्ययं विधिरिष्ट इति कबन्तस्यैवान्तोदात्तत्वम् ।