62173: कपि पूर्वम्

Padacheda: कपि | S | 7 | 1 |

पूर्वम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास formed by the negative particle नञ् or by सु and ending in the affix कप् – नद्यृतश्च (5.4.153), has acute accent (उदात्त) on the syllable preceding the affix.

Vasu English Translation

In a बहुव्रीहि समास formed by the negative particle नञ् or by सु and ending in the affix कप् – नद्यृतश्च (5.4.153), has acute accent (उदात्त) on the syllable preceding the affix. By the last sutra the accent would have fallen on कप्, this makes it fall on the vowel preceding it. Thus अकुमारीको꣡देशः, अवृषली꣡कः, अब्रह्मबन्धू꣡कः, सुकुमा꣡रीकः, सुवृष꣡लीकः, सुब्रह्मबन्धू꣡कः ॥

Kashika

नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति। अ॒कु॒मा॒रीको॑ देशः। अ॒वृ॒ष॒लीकः॑। अ॒ब्॒रह्म्ाब॒न्धूकः॑। सु॒कु॒मा॒रीकः॑। सु॒वृ॒ष॒लीकः॑। सु॒ब्॒रह्म॒ब॒न्धूकः॑॥

Siddhanta Kaumudi

नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥

Padamanjari

पूर्वेण कप एवादातत्वे प्राप्ते ततः पूर्वस्योदातचं धीयते ह्रस्वन्तेऽन्त्यात्पूर्वम् कैति वचनादिह दीर्घान्ता एवोदाहृताः । नद्यःतश्चेति कप् ॥

Nyaas

पूर्वेण कप एवान्तोदात्तत्वे प्राप्ते कपि पूर्वस्योदात्तत्वमनेन विधीयते। अकुमारीकः इत्यादि। शेषाद्विभाषा (5.4.154) इति कप्। कुमारीशब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः। वृषलीशब्दोऽपि जातिलक्षणेन ङीषा। ब्राहृबन्धूरप्यूङन्तत्वात्? प्रत्ययस्वरेण॥

Prakriyasarvasvam

नञ् सुभ्यां (परस्य ?) ह्रस्वान्ते पदे परे कपि पूर्वमन्तोदात्तं स्यात् । अकुमारीकः । अब्रह्मबन्धूकः । सुकुमारीकः ।