62174: ह्रस्वान्तेऽन्त्यात् पूर्वम् =================================== **Padacheda:** ह्रस्वान्ते | S | 7 | 1 | अन्त्यात् | S | 5 | 1 | पूर्वम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the compound ends in a light vowel the acute accent (उदात्त) falls on the syllable before such last, in a बहुव्रीहि समास preceded by नञ् and सु to which the affix कप् -- नद्यृतश्च (5.4.153), is added. Vasu English Translation ------------------------ When the compound ends in a light vowel the acute accent (उदात्त) falls on the syllable before such last, in a बहुव्रीहि समास preceded by नञ् and सु to which the affix कप् -- नद्यृतश्च (5.4.153), is added. Thus अय꣡वकोदेशः, अव्री꣡हिकः, अमा꣡षकः, सुय꣡वकः, सुव्री꣡हिकः, सुमा꣡꣡षकः ॥ The repetition of पूर्व in this *sutra*, though its *anuvritti* was present from the last shows, that in the last aphorism, the syllable preceding कप् takes the acute, while here the syllable preceding the short-vowel-ending final syllable has the acute and not the syllable preceding कप् ॥ This is possible with a word which is, at least, of two syllables (not counting, of course, सु and क or कप्). Therefore, in अज्ञ꣡कः and सुज्ञ꣡कः, the acute is on the syllable preceding कप् by (6.2.173), because it has here no *antyat*-*purvam*. Kashika ------- ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात् पूर्वमुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे। अ॒यव॑को देशः। अ॒व्रीहि॑कः। अ॒माष॑कः। सु॒यव॑कः। सु॒व्रीहि॑कः। सु॒माष॑कः। पूर्वमिति वर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् — ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति, न कपि पूर्वमिति। तेन अ॒ज्ञ॒कः सु॒ज्ञ॒क इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति॥ Siddhanta Kaumudi ----------------- ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥ Padamanjari ----------- ह्रस्वान्ते इत्यस्य बहुव्रीहेरन्यपदार्थ उतरपदं समासो वेत्याह - ह्रस्वोऽन्तो यस्यत्यादि । अत्र च कपि परतः इति पृथग्वचनातद्रहितमुतरपदं समासश्च गृह्यते, पूर्वग्रहणमनर्थकम्, कपि पूर्वमित्यनुवृतेः इत्यत आह - पूर्वमिति वर्तमाने इत्यादि । द्वितीये पूर्वग्रहणे सति प्रवृत्तिभेदो भवति, तत्रैकया प्रवृत्या ह्रस्वान्तऽन्त्यात्पूर्वस्योदातत्वं विधीयते, अपरया तु नियम्यते - ह्रस्वान्तेऽन्स्यादेव पूर्वमुदातं भवति, न तु कपि पूर्वमिति। तेन किं सिद्धं भवति तत्राह - तेनेति । नास्त्यस्य ज्ञ इत्यज्ञकः, शोभनो ज्ञोऽस्येति सुज्ञकः । तत्र यद्येष नियमो न स्यात्, ततोऽन्त्यात्पूर्व उदातभावी नास्तीति कपि पूर्वम् इत्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति, नञ्सुभ्याम् इति कबन्तस्यैव भवति । यथा च कबन्तस्य भवति तथा तत्रैव प्रितपादितम् । व्यक्तिपक्षाश्रयणे चैतत्पूर्वग्रहणं कृतम् । जातिपक्षाश्रयणे तु यथा हलादिः शेषः इत्यत्र क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति, (तथैव ) ह्रस्वान्तेऽन्त्यात्पूर्वम् इत्यत्रापि ह्रस्वजातेराश्रयणात्सर्वत्र ह्रस्वान्ते तक्रकौण्डिन्यन्यायेन कपि पूर्वम् इत्यस्याप्रवृत्तिः सिध्यति ॥ Nyaas ----- `ह्रस्वोऽन्तोऽस्य` इत्यादि। अनेन ह्रस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। `अयवको देशः` इति। अत्र कपि परतो यव इत्येतत्? ह्रस्वान्तमुत्तरपदम्, अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्, पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्।अथ पूर्वग्रहणं किम्, यावता **कपि पूर्वम्** (6.2.173) इत्यतः पूर्वमिति वर्तत एव? इत्यत आह -`पूर्वमिति वर्तमाने` इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामर्थ्यात्, अन्यथा हि तदपार्थकं स्यात्। तत्रैकय प्रवृत्त्या ह्रस्वन्तेऽन्त्यात्? पूर्वमन्तोदात्तं विथधीयते। अपरया तु ह्रस्वान्तेऽन्त्यात्? पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। `तेन` इत्यादिना नियमो न स्यात्, तदात्रान्त्यात्? पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्। **कपि पूर्वम्** (6.2.173) इत्यनेन नियमे तु सति न भवति। तेन **नञ्सुभ्याम्** (6.2.172) इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्॥ Prakriyasarvasvam ----------------- नञ् सुभ्यां परस्य ह्रस्वान्ते पदे वरे कपि परेऽन्त्यात्पूर्वमुदात्तं स्यात् । अयवको देशः । सुव्रीहिकः । पूर्वाधिकारे पुनः । पूर्वग्रहौ ह्रस्वान्तेऽन्त्यात् पूर्वमेवोदात्तं स्यादिति नियमार्थः । तेन अज्ञकः इत्यादौ ‘नञ् सुभ्याम् (६-२- १७२) इत्यत्र कृतसमासान्तस्याप्ययं विधिरिष्ट इति कबन्तस्यैवान्तोदात्तत्वम् ।