62166: व्यवायिनोऽन्तरम्

Padacheda: व्यवायिनः | S | 5 | 1 |

अन्तरम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास ending in अन्तर the acute accent (उदात्त) is on the final after a word which denotes ‘that which lies between’.

Vasu English Translation

In a बहुव्रीहि समास ending in अन्तर the acute accent (उदात्त) is on the final after a word which denotes ‘that which lies between’. Thus वस्त्रान्तर꣡म् ‘through an intervened cloth or drapery’, पटान्तर꣡म्, कम्बलान्तर꣡म् = वस्त्रमन्तरं व्यवधायकं यस्य &c. Why do we say ‘when meaning lying between’? Observe आत्मान्तरम् = आत्मा स्वभावोऽन्तरोऽन्योयस्य ॥

Kashika

व्यवायी व्यवधाता, तद्वाचिनः परमन्तरं बहुव्रीहौ समासेऽन्तोदात्तं भवति। व॒स्त्रा॒न्त॒रः। प॒टा॒न्त॒रः। क॒म्ब॒ला॒न्त॒रः। वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः। वस्रव्यवधायक इत्यर्थः। व्यवायिन इति किम् ? आ॒त्मान्त॑रः। आत्मा स्वाभावोऽन्तरोऽन्यो यस्यासावात्मान्तरः॥

Siddhanta Kaumudi

व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ॥

Padamanjari

उदाहरणे व्यवधानवाचिनोऽन्तराशब्दात् तत्करोतीति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः ॥

Prakriyasarvasvam

व्यवधायकार्थात् परमन्तरपदमन्तोदात्तं स्यात् । पटान्तरः ।