62165: संज्ञायां मित्राजिनयोः¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
मित्र-अजिनयोः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास ending in मित्र and अजिन the acute accent (उदात्त) falls on the last syllable when the compound denotes a Name.
Vasu English Translation¶
In a बहुव्रीहि समास ending in मित्र and अजिन the acute accent (उदात्त) falls on the last syllable when the compound denotes a Name. As देवमित्रः꣡, ब्रह्ममित्रः꣡, वृकाजिनः꣡, कुलाजिनः꣡ कृष्णाजिनः꣡ ॥ Why do we say ‘a Name’? Observe प्रियमित्रः꣡, महाजिनः ॥
Vart:- Prohibition must be stated in the case of मित्र when the name is that of a Rishi. As विश्वामि꣡त्रः which is governed by (6.2.106) ॥
Bhashya¶
संज्ञायां मित्राजिनयोः (2819) (6377 उपसंख्यानवार्तिकम् ॥ 1 ॥) - ऋषिप्रतिषेधो मित्रे - ऋषिप्रतिषेधो मित्रे वक्तव्यः । विश्वामित्र ऋषिः ॥
Kashika¶
संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोरुत्तरपदयोरन्त उदात्तो भवति। दे॒व॒मि॒त्रः। ब्॒रह्म्ामि॒त्रः। वृ॒का॒जि॒नः। कू॒ला॒जि॒नः। कृ॒ष्णा॒जि॒नः। संज्ञायामिति किम् ? प्रि॒यमि॑त्रः। म॒हाजि॑नः॥ ऋषिप्रतिषेधो मित्रे॥ वि॒श्वामि॑त्र॒ ऋषिः॑ (तै०सं० ४.३.२.२)॥
Siddhanta Kaumudi¶
देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ।<!ऋषिप्रतिषेधो मित्रे !> (वार्तिकम्) ॥ विश्वामित्र ऋषिः ॥
Padamanjari¶
विश्वामित्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदातत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदातं भवति ॥
Nyaas¶
देवमित्त्रो ब्राहृमित्त्रः इति। देवब्राहृशब्दावुक्तस्वरौ। अमिचिमिदिशसिभ्यः क्त्रः (द।उ।8।86) इति मित्त्रशब्दोऽन्तोदात्तः। वृकजिनः इति। प्रकृतिविकारयोर्भेदस्याविवक्षितत्वाद्वृकविकारे वृकशब्दोऽत्र वर्तते। वृकमजिनमस्य वृकाजिनः। वृकशब्दः प्राणिनां कुपूर्वाणाम्? (फि।सू।2।30) [`प्राणिनां कुपूर्वम् -फि।सू।] इत्याद्युदात्तः। श्यास्त्याह्वेञविभ्य इनच् (द।उ।5।12) इत्यधिकृत्य अजेरज च (द।उ।5।14) इतीनजादेशश्च। तेनाजिनमन्तोदात्तम्। कूलाजिनः इति। कु इति निपातः, तस्मिन्नुपपदे ला आदाने (धातुपाठः-1058) इत्येतस्मात्? अन्येष्वपि दृश्यते (3.2.101) इत डः, अन्येषामपि दृश्यते (6.3.137) इति पूर्वपदसय दीर्घत्वम्। तेन कूल इत्यन्तोदात्तः। कृष्णाजिनः इति। इण्सिञ्जिदीङुण्यविभ्यो नक्`(द।उ।5।35) इत्यधिकृत्य `कृषेर्वर्णे (द।उ।5।37) इति नक्। तेन कृष्णोऽन्तोदात्त-। प्रियमित्त्रः इति। प्रीणातीति प्रियः, इगुपध (3.1.135) इत्यादिना कः। तेन प्रियोऽन्तोदात्तः। महाजिनः इति। `नर्तमाने पृषद्बृहन्महजजगच्छतृवच्च`(द।उ।6।5) इत महच्छब्दोऽन्तोदात्त॥
Prakriyasarvasvam¶
नाम्न्यनयोः परयोरन्त उदात्तः स्यात् । देवमित्रः । वृकाजिनः । संज्ञाप्युषौ नेष्टम् । विश्वामित्रस्य रक्षति । ‘बहुव्रीहौ विश्वम्—’ (६-२-१०६) इति स्वरः ।
Vartika¶
ऋषिप्रतिषेधोऽमित्रे ।