62164: विभाषा छन्दसि¶
Padacheda: विभाषा | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Optionally so, in the छन्दस् (Vedas), the स्तन after a numeral has acute accent (उदात्त) on the final.
Vasu English Translation¶
Optionally so, in the छन्दस् (Vedas), the स्तन after a numeral has acute accent (उदात्त) on the final. Thus द्विस्तना꣡ or द्वि꣡स्तना, चतुःस्तना꣡ or च꣡तुःस्तना ॥
Kashika¶
छन्दसि विषये बहुव्रीहौ समासे संख्यायाः परः स्तनशब्दो विभाषान्तोदात्तो भवति। द्विस्त॑नां कुर्याद्वामदेवः। द्वि॒स्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तनां करोति पश्ाूनां दोहा॑य॒ (तै०सं० ५.१.६.४)। च॒तुः॒स्त॒नां करोति॥
Siddhanta Kaumudi¶
द्विस्तनां करोति ॥
Padamanjari¶
द्विस्तना - इत्यन्तोदातम् । चतुस्तना - इत्याद्यौदातम् ॥
Prakriyasarvasvam¶
वेदे संख्यायाः स्तनोऽन्तोदात्तो वा स्यात् । द्विस्तनाँ करोति द्यावापृथि- व्योर्दोहाय । चतुस्तनां करोति पशूनां दोहाय । पूर्वः स्तनोऽन्तोदात्तः पर आद्युदात्तः ।