62162: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने

Padacheda: बहुव्रीहौ | S | 7 | 1 |

इदम्-एतत्-तद्भ्यः | S | 5 | 3 |

प्रथमपूरणयोः | S | 6 | 2 |

क्रियागणने | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास , after the words इदम् , एतद् and तद् the last syllable of प्रथम and of a proper ordinal numeral as the acute accent (उदात्त) when the number of times of an action is meant.

Vasu English Translation

In a बहुव्रीहि समास , after the words इदम् , एतद् and तद् the last syllable of प्रथम and of a proper ordinal numeral as the acute accent (उदात्त) when the number of times of an action is meant. Thus इदं प्रथमं गमनं भोजनं वा = स इदमप्रथमः꣡ ‘this is the first time of going or eating’. इदं द्वितीयः꣡, इदं तृतीयः꣡, एतत्प्रथमः꣡, एतद्द्वितीयः꣡, एतत्तृतीयः꣡ तत्प्रथमः꣡, तद्द्वितीयः꣡ तत् तृतीयः꣡ ॥ Why do we say ‘in a Bahuvrihi?’ Observe अनेन प्रथमः = इदंप्रथमः ॥ Here the first member being in the third case retains its accent by (6.2.2). Why do we say “after idam &c”. Observe यत्प्रथमः = यःप्रथमं एषाम्, here the first term retains its accent by (6.2.1). Why do we say ‘of prathama and the Ordinals’? Observe तानि बहून्यस्य = तद्बहुः ॥ Why do we say ‘in counting an action’? Observe अयं प्रथम एषां = त इद प्रथमाः ॥ Here substances are counted and not action. Why do we say ‘in counting’? Observe अयं प्रथम एषां = इदं प्रथमाः i.e. इदं प्रधानाः ॥ and the word प्रथम means here ‘foremost’, and is not a numeral. When the कप् affix is added, the acute falls on the last syllable preceding कप् ॥ As इदं प्रथमकाः ॥ The Bahuvrihi governs the subsequent sutras upto (6.2.178).

Kashika

बहुव्रीहौ समास इदम् एतद् तदित्येतेभ्य उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्यान्त उदात्तो भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इ॒दं॒प्॒रथ॒मः। इ॒दं॒द्वि॒ती॒यः। इ॒दं॒तृ॒ती॒यः। ए॒त॒त्प्॒रथ॒मः। ए॒त॒द्द्वि॒ती॒यः। ए॒त॒त्तृ॒ती॒यः। त॒त्प्॒रथ॒मः। त॒द्द्वि॒ती॒यः। त॒त्त्ाृती॒यः। बहुव्रीहाविति किम्? अनेन प्रथम इ॒दंप्॑रथमः। तृतीयेति योगविभागात् समासः। इदमेतत्तद्भ्य इति किम्? यत्प्॑रथमः। प्रथमपूरणयोरिति किम्? तानि बहून्यस्य तद्ब॑हुः। क्रियागणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। द्रव्यगणनमेतत्। गणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। इदंप्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति। इ॒दं॒प्॒रथ॒मकाः॑। बहुव्रीहावित्येतद् **वनं समासे**(६.२.१७८) इति प्रागेतस्मादधिकृतं वेदितव्यम्॥

Siddhanta Kaumudi

एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-(SK692) इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-(SK3912) इत्यतः प्राग्बोध्यः ॥

Padamanjari

प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्अतदधिकारविहितानां प्रत्ययानां ग्रहणम् । अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति । यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति । इदम्प्रधाना इत्यर्थं इति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उतरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उतरपदादिः इत्यतः प्रभति उतरपदस्य इति च, तत्र चोतरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदातं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोतरपदस्य । यदा च समासार्थादुतरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपातयोरेव स्वरः । ननु यदत्रोतपरपदं कबन्तं न तदुपातम्, यच्चोपातं न तदुतरपदम्, कपा सहोतरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उतरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुतरपदम्, उतरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोतरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ॥

Nyaas

प्रथमपूरणयोः इति। प्रथमे स्वरूपग्रहणम्। पूरणग्रहणे पूरणेऽर्थे ये प्रत्यया विहितास्ते गृह्यन्ते, प्रथमसाहचर्यात्। अथ वा -पूरणग्रहणं स्वय्र्यते, स्वरितेन चाधिकारगतिर्भवति। तेन तस्य पूरणे डट् (5.2.48) इत्यधिकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं भवति। इदम्प्रथमः इति। प्रथमोऽन्तोदात्तः। प्रथेरमत् (द।उ।7।46) इत्यमच्परत्ययान्तत्वात्। इदमादयस्त्यदादिष्वन्तोदात्ता निपात्यन्ते; इदन्द्वितीयः इदन्तृतीयः इति। द्वेस्तीयः` (5.2.53) त्रेः सम्प्रसारणं च (5.2.55) इति तीयप्रत्ययान्तत्वान्मध्योदात्तौ द्वितीय तृतीयशब्दौ। अनेन प्रथम इदं प्रथमः इति। अत्र तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वर एव भवति। यत्प्रथमः इति। यत्? प्रथममेषामिति बहुव्रीह्रिः। अत्र बहुव्रीहौ प्रकृत्या (6.2.1) इति पूर्वपदप्रकृतिस्वर एव भवति। एवमुत्तरेष्वप्यस्मिन्? बहुव्रीह्रधिकारे प्रत्युदाहरणेषु वेदितव्यम्। इदं प्रधाना इत्यर्थः इति। एतेनान्तरोक्ते प्रत्युदाहरणे प्रथमशब्दः प्रधानवचनः, न त्वेकसंख्यावचन इति दर्शयन्? गणानाभावं दर्शयति।उत्तरपदस्य इत्यादि। इह सूत्रे प्रथमपूरणयोः इति त्वन्यविभक्त्योरुत्तरपदनिर्देशः कृतः, न बहुव्रीहिनिर्देशः कृतः। तेनोत्तरपदस्यैव कार्यित्वम्, न बहुव्रीहेः। ततश्च यदा कबुत्पद्यते तदा कपि पूर्वम् (6.2.173) अन्तोदात्तं भवति। कप्प्रत्ययो हि [कप्रत्ययो हि -मुद्रितः पाठः] समासाधिकारे विहितत्वात्? समासस्यैवान्तौ भवति, नोत्तरपदस्य। न ह्रुत्तरपदं समासः, तेन कबुत्तरपदक्रमेण गृह्रते इत्युत्तरपदस्यान्तोदात्तत्वं विधीयमानं कपो न भवति, किं तर्हि? पूर्वस्य। इदम्प्रथमकाः इति। शेषाद्विभाषा (5.4.154) इति कप्। बहुव्रीहौ परकृत्या (6.2.1) इति पूर्वपदप्रकृतिस्वरापवादौ योगः। एवमुत्तरेऽपि बहुव्रीह्रधिकारेऽस्मिन्? योगा द्रष्टव्याः॥

Prakriyasarvasvam

एभ्यः परस्य प्रथमशब्दस्य पूरणान्तस्य च क्रियागणनस्य चार्थस्यान्त उदात्तः स्यात्१ । (॥ संख्यायाः स्तनः ॥ ६-२-१६३ ॥ द्विस्तनाः)