62161: विभाषा तृन्नन्नतीक्ष्णशुचिषु

Padacheda: विभाषा | S | 1 | 1 |

तृन्-अन्न-तीक्ष्ण-शुचिषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

After the negative particle, the final of the following is optionally acute accent (उदात्त) - a word formed with the affix तृन् and the words 1. अन्न 2. तीक्ष्ण and 3. शुचि।

Vasu English Translation

After the negative particle, the final of the following is optionally acute accent (उदात्त) - a word formed with the affix तृन् and the words 1. अन्न 2. तीक्ष्ण and 3. शुचि। Thus तृन् - अकर्त्ता꣡ or अ꣡कर्त्ता; अन्न &c - अनन्न꣡म् or अ꣡नन्नम्, अतीक्ष्ण꣡म्, or अ꣡तीक्ष्णम्, अशुचिः꣡ or अ꣡शुचिः ॥ The alternative accent is that of the Indeclinable. (6.2.2)

Kashika

तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषान्त उदात्तो भवति। अ॒क॒र्ता, अक॑र्ता। अन्न — अ॒न॒न्नम्, अन॑न्नम्। तीक्ष्ण — अ॒ती॒क्ष्णम्, अती॑क्ष्णम्। शुचि — अ॒शु॒चिः, अशु॑चिः। पक्षेऽव्ययस्वर एव भवति॥

Siddhanta Kaumudi

तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ॥

Nyaas

तृन्निति प्रत्ययग्रहणम्, तेन पूर्ववत्? तदन्तस्योपस्थानम्। अन्नादीनि प्रातिपदिकानि। अकर्ता इति। ताच्छीलिकस्तृन्। तेन नित्स्वरेणाद्युदात्तः कर्त्तृशब्दः। अन्नशब्दोऽपि नब्विषयस्य (फि।सू।2।26) इति। कृत्यसूभ्यां क्स्नः (द।उ।5।49) इति तिजेर्दीर्घश्च (द।उ।5।50) इति तीक्ष्णशब्दोऽन्तोदात्तः। इन् (द।उ।1।46) इति वर्तमाने इगुपधातु कित् (द।उ।1।48), तेन शुचिशब्द आद्युदात्तः॥

Prakriyasarvasvam

नञ एषु परेष्वन्तोदात्तत्वं वा स्यात् । तृन्नन्ते—अकर्ता । अनन्नः । अतीक्ष्णः । अशुचिः ।