62162: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ======================================================= **Padacheda:** बहुव्रीहौ | S | 7 | 1 | इदम्-एतत्-तद्भ्यः | S | 5 | 3 | प्रथमपूरणयोः | S | 6 | 2 | क्रियागणने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a बहुव्रीहि समास , after the words इदम् , एतद् and तद् the last syllable of प्रथम and of a proper ordinal numeral as the acute accent (उदात्त) when the number of times of an action is meant. Vasu English Translation ------------------------ In a बहुव्रीहि समास , after the words इदम् , एतद् and तद् the last syllable of प्रथम and of a proper ordinal numeral as the acute accent (उदात्त) when the number of times of an action is meant. Thus इदं प्रथमं गमनं भोजनं वा = स इदमप्रथमः꣡ 'this is the first time of going or eating'. इदं द्वितीयः꣡, इदं तृतीयः꣡, एतत्प्रथमः꣡, एतद्द्वितीयः꣡, एतत्तृतीयः꣡ तत्प्रथमः꣡, तद्द्वितीयः꣡ तत् तृतीयः꣡ ॥ Why do we say 'in a *Bahuvrihi*?' Observe अनेन प्रथमः = इदंप्रथमः ॥ Here the first member being in the third case retains its accent by (6.2.2). Why do we say "after *idam* &c". Observe यत्प्रथमः = यःप्रथमं एषाम्, here the first term retains its accent by (6.2.1). Why do we say 'of *prathama* and the Ordinals'? Observe तानि बहून्यस्य = तद्बहुः ॥ Why do we say 'in counting an action'? Observe अयं प्रथम एषां = त इद प्रथमाः ॥ Here substances are counted and not action. Why do we say 'in counting'? Observe अयं प्रथम एषां = इदं प्रथमाः i.e. इदं प्रधानाः ॥ and the word प्रथम means here 'foremost', and is not a numeral. When the कप् affix is added, the acute falls on the last syllable preceding कप् ॥ As इदं प्रथमकाः ॥ The *Bahuvrihi* governs the subsequent *sutras* upto (6.2.178). Kashika ------- बहुव्रीहौ समास इदम् एतद् तदित्येतेभ्य उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्यान्त उदात्तो भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इ॒दं॒प्॒रथ॒मः। इ॒दं॒द्वि॒ती॒यः। इ॒दं॒तृ॒ती॒यः। ए॒त॒त्प्॒रथ॒मः। ए॒त॒द्द्वि॒ती॒यः। ए॒त॒त्तृ॒ती॒यः। त॒त्प्॒रथ॒मः। त॒द्द्वि॒ती॒यः। त॒त्त्ाृती॒यः। बहुव्रीहाविति किम्? अनेन प्रथम इ॒दंप्॑रथमः। तृतीयेति योगविभागात् समासः। इदमेतत्तद्भ्य इति किम्? यत्प्॑रथमः। प्रथमपूरणयोरिति किम्? तानि बहून्यस्य तद्ब॑हुः। क्रियागणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। द्रव्यगणनमेतत्। गणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। इदंप्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति। इ॒दं॒प्॒रथ॒मकाः॑। बहुव्रीहावित्येतद् **वनं समासे**(६.२.१७८) इति प्रागेतस्मादधिकृतं वेदितव्यम्॥ Siddhanta Kaumudi ----------------- एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-(SK692) इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-(SK3912) इत्यतः प्राग्बोध्यः ॥ Padamanjari ----------- प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्अतदधिकारविहितानां प्रत्ययानां ग्रहणम् । अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति । यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति । इदम्प्रधाना इत्यर्थं इति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उतरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उतरपदादिः इत्यतः प्रभति उतरपदस्य इति च, तत्र चोतरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदातं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोतरपदस्य । यदा च समासार्थादुतरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपातयोरेव स्वरः । ननु यदत्रोतपरपदं कबन्तं न तदुपातम्, यच्चोपातं न तदुतरपदम्, कपा सहोतरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उतरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुतरपदम्, उतरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोतरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ॥ Nyaas ----- `प्रथमपूरणयोः` इति। प्रथमे स्वरूपग्रहणम्। पूरणग्रहणे पूरणेऽर्थे ये प्रत्यया विहितास्ते गृह्यन्ते, प्रथमसाहचर्यात्। अथ वा -पूरणग्रहणं स्वय्र्यते, स्वरितेन चाधिकारगतिर्भवति। तेन **तस्य पूरणे डट्** (5.2.48) इत्यधिकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं भवति। `इदम्प्रथमः` इति। प्रथमोऽन्तोदात्तः। `प्रथेरमत्` (द।उ।7।46) इत्यमच्परत्ययान्तत्वात्। इदमादयस्त्यदादिष्वन्तोदात्ता निपात्यन्ते; `इदन्द्वितीयः इदन्तृतीयः` इति। द्वेस्तीयः` (5.2.53) **त्रेः सम्प्रसारणं च** (5.2.55) इति तीयप्रत्ययान्तत्वान्मध्योदात्तौ द्वितीय तृतीयशब्दौ। `अनेन प्रथम इदं प्रथमः` इति। अत्र `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वर एव भवति। `यत्प्रथमः` इति। यत्? प्रथममेषामिति बहुव्रीह्रिः। अत्र `बहुव्रीहौ प्रकृत्या` (6.2.1) इति पूर्वपदप्रकृतिस्वर एव भवति। एवमुत्तरेष्वप्यस्मिन्? बहुव्रीह्रधिकारे प्रत्युदाहरणेषु वेदितव्यम्। `इदं प्रधाना इत्यर्थः` इति। एतेनान्तरोक्ते प्रत्युदाहरणे प्रथमशब्दः प्रधानवचनः, न त्वेकसंख्यावचन इति दर्शयन्? गणानाभावं दर्शयति।`उत्तरपदस्य` इत्यादि। इह सूत्रे `प्रथमपूरणयोः` इति त्वन्यविभक्त्योरुत्तरपदनिर्देशः कृतः, न बहुव्रीहिनिर्देशः कृतः। तेनोत्तरपदस्यैव कार्यित्वम्, न बहुव्रीहेः। ततश्च यदा कबुत्पद्यते तदा **कपि पूर्वम्** (6.2.173) अन्तोदात्तं भवति। कप्प्रत्ययो हि [`कप्रत्ययो हि` -मुद्रितः पाठः] समासाधिकारे विहितत्वात्? समासस्यैवान्तौ भवति, नोत्तरपदस्य। न ह्रुत्तरपदं समासः, तेन `कबुत्तरपदक्रमेण गृह्रते` इत्युत्तरपदस्यान्तोदात्तत्वं विधीयमानं कपो न भवति, किं तर्हि? पूर्वस्य। `इदम्प्रथमकाः` इति। **शेषाद्विभाषा** (5.4.154) इति कप्। `बहुव्रीहौ परकृत्या` (6.2.1) इति पूर्वपदप्रकृतिस्वरापवादौ योगः। एवमुत्तरेऽपि बहुव्रीह्रधिकारेऽस्मिन्? योगा द्रष्टव्याः॥ Prakriyasarvasvam ----------------- एभ्यः परस्य प्रथमशब्दस्य पूरणान्तस्य च क्रियागणनस्य चार्थस्यान्त उदात्तः स्यात्१ । (॥ संख्यायाः स्तनः ॥ ६-२-१६३ ॥ द्विस्तनाः)