62161: विभाषा तृन्नन्नतीक्ष्णशुचिषु =================================== **Padacheda:** विभाषा | S | 1 | 1 | तृन्-अन्न-तीक्ष्ण-शुचिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- After the negative particle, the final of the following is optionally acute accent (उदात्त) - a word formed with the affix तृन् and the words 1. अन्न 2. तीक्ष्ण and 3. शुचि। Vasu English Translation ------------------------ After the negative particle, the final of the following is optionally acute accent (उदात्त) - a word formed with the affix तृन् and the words 1. अन्न 2. तीक्ष्ण and 3. शुचि। Thus तृन् - अकर्त्ता꣡ or अ꣡कर्त्ता; अन्न &c - अनन्न꣡म् or अ꣡नन्नम्, अतीक्ष्ण꣡म्, or अ꣡तीक्ष्णम्, अशुचिः꣡ or अ꣡शुचिः ॥ The alternative accent is that of the Indeclinable. (6.2.2) Kashika ------- तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषान्त उदात्तो भवति। अ॒क॒र्ता, अक॑र्ता। अन्न — अ॒न॒न्नम्, अन॑न्नम्। तीक्ष्ण — अ॒ती॒क्ष्णम्, अती॑क्ष्णम्। शुचि — अ॒शु॒चिः, अशु॑चिः। पक्षेऽव्ययस्वर एव भवति॥ Siddhanta Kaumudi ----------------- तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ॥ Nyaas ----- तृन्निति प्रत्ययग्रहणम्, तेन पूर्ववत्? तदन्तस्योपस्थानम्। अन्नादीनि प्रातिपदिकानि। `अकर्ता` इति। ताच्छीलिकस्तृन्। तेन नित्स्वरेणाद्युदात्तः कर्त्तृशब्दः। अन्नशब्दोऽपि `नब्विषयस्य` (फि।सू।2।26) इति। `कृत्यसूभ्यां क्स्नः` (द।उ।5।49) इति `तिजेर्दीर्घश्च` (द।उ।5।50) इति तीक्ष्णशब्दोऽन्तोदात्तः। `इन्` (द।उ।1।46) इति वर्तमाने `इगुपधातु कित्` (द।उ।1।48), तेन शुचिशब्द आद्युदात्तः॥ Prakriyasarvasvam ----------------- नञ एषु परेष्वन्तोदात्तत्वं वा स्यात् । तृन्नन्ते—अकर्ता । अनन्नः । अतीक्ष्णः । अशुचिः ।