62160: कृत्योकेष्णुच्चार्वादयश्च

Padacheda: कृत्य-उक-इष्णुच्-चार्वादयः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After the Negative Particle, the words formed by the कृत्य affixes – कृत्याः प्राङ् ण्वुलः (3.1.95), by उक and इष्णुच् and the words चारु etc. have acute accent (उदात्त) on the final.

Vasu English Translation

After the Negative Particle, the words formed by the कृत्य affixes – कृत्याः प्राङ् ण्वुलः (3.1.95), by उक and इष्णुच् and the words चारु etc. have acute accent (उदात्त) on the final. Thus kritya:- अकर्त्तव्य꣡म्, अकरणीयम्, उकः -अनागामुक꣡म्, अनपलाषुक꣡म् ॥ इष्णुच् - अनलंकरिष्णुः, अनिराकरिष्णुः꣡ ॥ The affix इष्णुच् includes खिष्णुच् also: अनाढ्यंभविष्णुः꣡, असुभगभविष्णुः ॥ चारु &c:- अचारुः꣡, असाधुः꣡, अयौधिकः꣡, अवदान्यः, अननङ्गमेजयः꣡ (double negation). अनकस्मात् (double negation), The words वर्तमान, वर्धमान त्वरमाण, ध्रीयमाण, रोचमान, क्रीयमाण, and शोभमान preceded by अ (नञ्) when denoting names have acute on the final. अविकारः꣡, असदृशः꣡ and अविकारसदृशः꣡ (विकार and सदृश taken jointly & separately). अगृहपति, अगृहपतिकः꣡ ॥ अराजा꣡ and अनहः꣡ in the Vedas only. In the Vernacular they have the accent of नञ्, i. e. udatta on the first.

1 चारु, 2 साधु, 3 यौधकि (यौधिक) 4 अनङ्गमेजय, 5 वदान्य 6 अकस्मात्, 7 वर्तमानवर्धमानत्वरमाणध्रियमाणक्रोयमाणरोचमानशोभमानाः (क्रियमाण क्रोयमाण) संज्ञायाम्, 8 विकारसदृशे व्यस्ते समस्ते (अविकार, असदृश अविकारसदृश), 9 गृहपति, 10 गृहपतिक, 11 राजाह्रोश्छन्दसि.

Kashika

कृत्य उक इष्णुच् इत्येवमन्ताश्चार्वादयश्च नञ उत्तरेऽन्तोदात्ता भवन्ति। कृत्य — अ॒क॒र्त॒व्यम्। अ॒क॒र॒णी॒यम्। उक — अ॒ना॒गा॒मु॒कम्। अ॒न॒प॒ला॒षु॒कम्। इष्णुच् — अ॒न॒लं॒क॒रि॒ष्णुः। अ॒नि॒रा॒क॒रि॒ष्णुः। इष्णुज्ग्रहणे **कर्तरि भुवः खिष्णुच्०**(३.२.५७) इत्यस्य द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्याद् भवति। अ॒ना॒ढ्यं॒भ॒वि॒ष्णुः। अ॒सु॒भ॒गं॒भ॒वि॒ष्णुः। चार्वादयः — अ॒चा॒रुः। अ॒सा॒धुः। अ॒यौ॒धि॒कः। अ॒व॒दा॒न्यः॥ चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒न॒ङ्ग॒मे॒ज॒यः। वदान्य। अकस्मात्। अत्रापि द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒क॒स्मात्। वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् (ग०सू० १७६)। एते वर्तमानादयः संज्ञायां द्रष्टव्याः। विकारसदृशे व्यस्तसमस्ते (ग०सू० १७७)। अ॒वि॒का॒रः। अ॒स॒दृ॒शः। अ॒वि॒का॒र॒स॒दृशः। गृहपति। गृहपतिक। राजाह्नोश्छन्दसि (ग०सू० १७८)। अ॒रा॒जा। अ॒न॒हः। भाषायां नञ्स्वर एव भवति॥

Siddhanta Kaumudi

नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ॥

Padamanjari

द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदातत्वाततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि । चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ॥

Nyaas

कृत्य, उक, इष्णुजिति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ44) तदन्तोपस्थापनं भवति। चार्वादीनि प्रातिपदिकान्येव। अकर्तव्यम् इति। यदा तव्यदन्तस्तदा कर्तव्यशब्दोऽन्तस्वरितः। यदा तव्यान्तस्तदा मध्योदात्तः। अकरणीयम् इति। अनीयर्प्रत्ययान्तत्वात्? उपोत्तमं रिति (6.1.217) इति रित्स्वरेण मध्योदात्तः करणीयशब्दः। अनागामृकम्, अनपलाषुकम् इति। लषपतपद (3.2.154) इत्यादिनोकञ्। आगामुकापलाषुकशब्दौ कृत्स्वरेण मध्योदात्तौ। अनलङ्करिष्णुः इति। अलंकृञ् (3.2.136) इत्यादिनेष्णुच्। अलङ्करिष्णुशब्दश्चित्स्वरेणान्तोदात्तः। एवं निराकरिष्णु शब्दोऽपि। एकानुबन्धकग्रहणपरिभाषया(व्या।प।42)इष्णुज्ग्रहणे द्ब्यनुबन्धकस्य खिष्णुचो ग्रहणेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - इष्णुज्ग्रहणे कर्तरि भुवः (3.2.57) खिष्णुजित्यस्य द्व्यनुबन्धकस्यापि ग्रहणं भवति` इति वक्ष्यमाणेन सम्बन्धः। अत्रैव कारणमाह - इकारादेर्विधानसामर्थ्यात् इति। खिष्णुच इकारादेर्विधानस्यैतदेव प्रयोजनम् - इह सूत्रे सामान्येन ग्रहणं यथा स्यात्, अन्यथा तदपार्थकं स्यात्, उदात्तत्वाद्भवत#ए#ः ततः परस्य खिष्णुच इटैवेकारादित्वत्।अचारुः इत्यादि। दृसनिजनिचरिभ्यो ञुण् (द।उ।1।88) [दृसनिजनिचरिचटिरहिभ्यो ञुण् - द।उ; दृ।उ; दृसनिजनिचरिचटिभ्यो ञुण् - पंउ।] तेनाद्युदात्तश्चारुशब्दः। साद्युशब्दोऽन्तोदात्त; कृवापा (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तत्वात्। युधा चरति यौधिकः, प्राग्वहतेष्ठक् (4.4.1) कितः (6.1.159) इत्यन्तोदात्तः। अनङ्गमेजयः इति। अव्ययस्वरेणाद्युदात्तः। अत्र द्वितोये नञ्समासे समासान्तोदात्तत्वमिति नञ्समासः स्यात्। अत्रापि इत्यादि। कस्माच्छब्दस्य नञ उत्तरस्याद्युदात्तत्वविधानात्। अत्रापि द्वितीयेन नञ्समासेनान्तोदात्तत्वमिति। वर्तमान, वर्धमान - इत्येदमादयः शानजन्तत्वादन्तोदात्ताः। विकारसदृशशब्दः समासस्वरेणान्तोदात्तः। गृहपतिकशब्दः संज्ञायां कन् (5.3.87) इति कन्नन्तत्वादाद्युदात्तः। वदेरान्यः (द।उ।8।9), वदान्यशब्दः प्रत्ययस्वरेण मध्योदात्तः॥

Prakriyasarvasvam

कृत्याद्यन्तानि चार्वादीनि च नञः पराण्यन्तोदात्तानि स्युः । अकृत्यम् । अकरणीयम् । उ - अबुभूषुः । उक - अनागामुकः । इष्णुच् - अनिराकरिष्णुः । खिष्णुचोऽपि ग्रहात् अनाढ्यम्भविष्णुः । चारु’साधु’यौधिकानङ्गमेजयवदान्याकस्मा- द्गृहपति गृहपतिकाः’ (स. ८-४-१७३, १७४) अचारुः । असाधुः । युधा चरति ³यौधिकः । अयौधिकः । अनङ्गमेजयः । इह द्वितीते नञि । अवदान्यः । अनकस्मात् । अत्रापि द्वितीये । संज्ञा(व) (नि? ति) तद्रहिते च । अगृहपतिः । अगृहपतिकः । वर्तमानवर्द्धमानत्वरमाणध्रियमाणरोचमानाः संज्ञायाम् (वा.) अवर्तमान इत्यादि । ‘राजाह्नोः छन्दसि’ अराजा । अनहः ।<!विकारसदृशो व्यक्तं च!> (वा.) अविकारः । अनदृशः । अविकारसदृशः ।

Vartika

राजाह्नोश्छन्दसि ।