62159: संज्ञायाम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
When abuse is meant, a word preceded by नञ् has acute accent (उदात्त) on the final in denoting a Name.
Vasu English Translation¶
When abuse is meant, a word preceded by नञ् has acute accent (उदात्त) on the final in denoting a Name. Thus अदेवदत्तः꣡ ‘No Devadatta, not deserving of this name’ अयज्ञदत्तः꣡, अविष्णुमित्रः꣡ ॥
Kashika¶
आक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां वर्तमानमन्तोदात्तं भवति। अ॒दे॒व॒द॒त्तः अ॒य॒ज्ञ्ाद॒त्तः। अ॒वि॒ष्ण्ाुमि॒त्रः॥
Siddhanta Kaumudi¶
नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ॥
Padamanjari¶
अदेवदत इति । यो देवदतः सन् तत्कार्यं न करोति, स एवमाक्रुश्यते ॥
Nyaas¶
अदेवदत्तोऽपज्ञदत्तः इति। देवदत्तयज्ञदत्तशब्दावन्तोदात्तौ। प्रातिपदिकस्वरेण। यो देवदत्तः सन्? तत्? कार्य न करोति स एवमाक्रुश्यते। एवं अविष्णुमित्त्रः इत्यत्रापि वेदितव्यम्॥
Prakriyasarvasvam¶
आक्रोशे नञः परं नाम्नि स्थितं पदमन्तोदात्तं स्यात् । अविष्णुमित्रः तत्कार्यमकुर्वन् ।