62160: कृत्योकेष्णुच्चार्वादयश्च ================================ **Padacheda:** कृत्य-उक-इष्णुच्-चार्वादयः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After the Negative Particle, the words formed by the कृत्य affixes -- कृत्याः प्राङ् ण्वुलः (3.1.95), by उक and इष्णुच् and the words चारु etc. have acute accent (उदात्त) on the final. Vasu English Translation ------------------------ After the Negative Particle, the words formed by the कृत्य affixes -- कृत्याः प्राङ् ण्वुलः (3.1.95), by उक and इष्णुच् and the words चारु etc. have acute accent (उदात्त) on the final. Thus *kritya*:- अकर्त्तव्य꣡म्, अकरणीयम्, उकः -अनागामुक꣡म्, अनपलाषुक꣡म् ॥ इष्णुच् - अनलंकरिष्णुः, अनिराकरिष्णुः꣡ ॥ The affix इष्णुच् includes खिष्णुच् also: अनाढ्यंभविष्णुः꣡, असुभगभविष्णुः ॥ चारु &c:- अचारुः꣡, असाधुः꣡, अयौधिकः꣡, अवदान्यः, अननङ्गमेजयः꣡ (double negation). अनकस्मात् (double negation), The words वर्तमान, वर्धमान त्वरमाण, ध्रीयमाण, रोचमान, क्रीयमाण, and शोभमान preceded by अ (नञ्) when denoting names have acute on the final. अविकारः꣡, असदृशः꣡ and अविकारसदृशः꣡ (विकार and सदृश taken jointly & separately). अगृहपति, अगृहपतिकः꣡ ॥ अराजा꣡ and अनहः꣡ in the Vedas only. In the Vernacular they have the accent of नञ्, i. e. *udatta* on the first. 1 चारु, 2 साधु, 3 यौधकि (यौधिक) 4 अनङ्गमेजय, 5 वदान्य 6 अकस्मात्, 7 वर्तमानवर्धमानत्वरमाणध्रियमाणक्रोयमाणरोचमानशोभमानाः (क्रियमाण क्रोयमाण) संज्ञायाम्, 8 विकारसदृशे व्यस्ते समस्ते (अविकार, असदृश अविकारसदृश), 9 गृहपति, 10 गृहपतिक, 11 राजाह्रोश्छन्दसि. Kashika ------- कृत्य उक इष्णुच् इत्येवमन्ताश्चार्वादयश्च नञ उत्तरेऽन्तोदात्ता भवन्ति। कृत्य — अ॒क॒र्त॒व्यम्। अ॒क॒र॒णी॒यम्। उक — अ॒ना॒गा॒मु॒कम्। अ॒न॒प॒ला॒षु॒कम्। इष्णुच् — अ॒न॒लं॒क॒रि॒ष्णुः। अ॒नि॒रा॒क॒रि॒ष्णुः। इष्णुज्ग्रहणे **कर्तरि भुवः खिष्णुच्०**(३.२.५७) इत्यस्य द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्याद् भवति। अ॒ना॒ढ्यं॒भ॒वि॒ष्णुः। अ॒सु॒भ॒गं॒भ॒वि॒ष्णुः। चार्वादयः — अ॒चा॒रुः। अ॒सा॒धुः। अ॒यौ॒धि॒कः। अ॒व॒दा॒न्यः॥ चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒न॒ङ्ग॒मे॒ज॒यः। वदान्य। अकस्मात्। अत्रापि द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒क॒स्मात्। वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् (ग०सू० १७६)। एते वर्तमानादयः संज्ञायां द्रष्टव्याः। विकारसदृशे व्यस्तसमस्ते (ग०सू० १७७)। अ॒वि॒का॒रः। अ॒स॒दृ॒शः। अ॒वि॒का॒र॒स॒दृशः। गृहपति। गृहपतिक। राजाह्नोश्छन्दसि (ग०सू० १७८)। अ॒रा॒जा। अ॒न॒हः। भाषायां नञ्स्वर एव भवति॥ Siddhanta Kaumudi ----------------- नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ॥ Padamanjari ----------- द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदातत्वाततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि । चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ॥ Nyaas ----- कृत्य, उक, इष्णुजिति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ44) तदन्तोपस्थापनं भवति। चार्वादीनि प्रातिपदिकान्येव। `अकर्तव्यम्` इति। यदा तव्यदन्तस्तदा कर्तव्यशब्दोऽन्तस्वरितः। यदा तव्यान्तस्तदा मध्योदात्तः। `अकरणीयम्` इति। अनीयर्प्रत्ययान्तत्वात्? **उपोत्तमं रिति** (6.1.217) इति रित्स्वरेण मध्योदात्तः करणीयशब्दः। `अनागामृकम्, अनपलाषुकम्` इति। `लषपतपद` (3.2.154) इत्यादिनोकञ्। आगामुकापलाषुकशब्दौ कृत्स्वरेण मध्योदात्तौ। `अनलङ्करिष्णुः` इति। `अलंकृञ्` (3.2.136) इत्यादिनेष्णुच्। अलङ्करिष्णुशब्दश्चित्स्वरेणान्तोदात्तः। एवं `निराकरिष्णु` शब्दोऽपि। एकानुबन्धकग्रहणपरिभाषया(व्या।प।42)इष्णुज्ग्रहणे द्ब्यनुबन्धकस्य खिष्णुचो ग्रहणेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `इष्णुज्ग्रहणे कर्तरि भुवः` (3.2.57) खिष्णुजित्यस्य द्व्यनुबन्धकस्यापि ग्रहणं भवति` इति वक्ष्यमाणेन सम्बन्धः। अत्रैव कारणमाह - `इकारादेर्विधानसामर्थ्यात्` इति। खिष्णुच इकारादेर्विधानस्यैतदेव प्रयोजनम् - इह सूत्रे सामान्येन ग्रहणं यथा स्यात्, अन्यथा तदपार्थकं स्यात्, उदात्तत्वाद्भवत#ए#ः ततः परस्य खिष्णुच इटैवेकारादित्वत्।`अचारुः` इत्यादि। `दृसनिजनिचरिभ्यो ञुण्` (द।उ।1।88) [दृसनिजनिचरिचटिरहिभ्यो ञुण् - द।उ; दृ।उ; दृसनिजनिचरिचटिभ्यो ञुण् - पंउ।] तेनाद्युदात्तश्चारुशब्दः। साद्युशब्दोऽन्तोदात्त; `कृवापा` (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तत्वात्। युधा चरति यौधिकः, **प्राग्वहतेष्ठक्** (4.4.1) `कितः` (6.1.159) इत्यन्तोदात्तः। `अनङ्गमेजयः` इति। अव्ययस्वरेणाद्युदात्तः। अत्र द्वितोये नञ्समासे समासान्तोदात्तत्वमिति नञ्समासः स्यात्। `अत्रापि` इत्यादि। कस्माच्छब्दस्य नञ उत्तरस्याद्युदात्तत्वविधानात्। अत्रापि द्वितीयेन नञ्समासेनान्तोदात्तत्वमिति। वर्तमान, वर्धमान - इत्येदमादयः शानजन्तत्वादन्तोदात्ताः। विकारसदृशशब्दः समासस्वरेणान्तोदात्तः। गृहपतिकशब्दः **संज्ञायां कन्** (5.3.87) इति कन्नन्तत्वादाद्युदात्तः। `वदेरान्यः` (द।उ।8।9), वदान्यशब्दः प्रत्ययस्वरेण मध्योदात्तः॥ Prakriyasarvasvam ----------------- कृत्याद्यन्तानि चार्वादीनि च नञः पराण्यन्तोदात्तानि स्युः । अकृत्यम् । अकरणीयम् । उ - अबुभूषुः । उक - अनागामुकः । इष्णुच् - अनिराकरिष्णुः । खिष्णुचोऽपि ग्रहात् अनाढ्यम्भविष्णुः । चारु'साधु'यौधिकानङ्गमेजयवदान्याकस्मा- द्गृहपति गृहपतिकाः' (स. ८-४-१७३, १७४) अचारुः । असाधुः । युधा चरति ³यौधिकः । अयौधिकः । अनङ्गमेजयः । इह द्वितीते नञि । अवदान्यः । अनकस्मात् । अत्रापि द्वितीये । संज्ञा(व) (नि? ति) तद्रहिते च । अगृहपतिः । अगृहपतिकः । वर्तमानवर्द्धमानत्वरमाणध्रियमाणरोचमानाः संज्ञायाम् (वा.) अवर्तमान इत्यादि । 'राजाह्नोः छन्दसि' अराजा । अनहः । (वा.) अविकारः । अनदृशः । अविकारसदृशः । Vartika ------- राजाह्नोश्छन्दसि ।