62153: ऊनार्थकलहं तृतीयायाः¶
Padacheda: ऊनार्थकलहम् | S | 1 | 1 |
तृतीयायाः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent (उदात्त) falls on the final of words having the sense of ऊन and of कलह when they are second members in a compound, preceded by a term in the Instrumental -3rd case.
Vasu English Translation¶
The acute accent (उदात्त) falls on the final of words having the sense of ऊन and of कलह when they are second members in a compound, preceded by a term in the Instrumental -3rd case. Thus माषोन꣡म्, कार्षापणोन꣡म्, मासविकल꣡म्, कार्षापणविकल꣡म्, असिकलहः꣡, वाक्कलहः꣡ ॥ The compounding takes place by (2.1.31). This is an exception to (6.2.2) by which the first member being in the third case, would have retained its original accent, Some say that the word अर्थ in the sutra means the word-form अर्थ, so that the aphorism would mean - “after an Instrumental case, the words ऊन, अर्थ, and कलह get acute on the final”. The examples will be in addition to the above:- धान्येनार्थाः = धान्यार्थः꣡ ॥ If this be so, then the word-form ऊन alone will be taken and not its synonyms like विकल &c. To this we reply, that ऊन will denote its synonyms also, by the fact of its being followed by the word अर्थ ॥ By sutra (2.1.31), ऊनार्थ and कलह (2.1.57) always take the Instrumental case, so we could have omitted the word तृतीयायाः, from this sutra, for by the maxim of pratipadokta &c, ऊनार्थकलहं would have referred to the compound ordained by (2.1.31). The mention of तृतीया here is only for the sake of clearness.
Kashika¶
ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यन्तोदात्तानि भवन्ति। मा॒षो॒नम्। का॒र्षा॒प॒णो॒नम्। मा॒ष॒वि॒क॒लम्। का॒र्षा॒प॒ण॒वि॒क॒लम्। कलह — अ॒सि॒क॒ल॒हः। वा॒क्क॒ल॒हः। तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः। अत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्येनार्थो धा॒न्या॒र्थः। ऊनशब्देनैव त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्॥
Siddhanta Kaumudi¶
माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥
Padamanjari¶
उदाहरणेषु पूर्वसदृश इति तृतीयासमासः । अत्र केचिदित्यादि । नन्वेवमूनशब्दस्यापि स्वरुपग्रहणं प्रसज्येत, ततश्च तदर्थानामान्येषां ग्रहणं न स्यात् अत आह - ऊनशब्देनैव त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् ॥
Nyaas¶
माषोनम् इति। पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2.1.31) इत्यादिना तृतीया समासः। एवं कार्षापणोनम् इत्यादावपि। कष खष शिष जष झष शष वष मष (धातुपाठः-685-692) इत्यस्माद्घञ्, तेन माषशब्द आद्युदात्तः। इण्सिञ्जिदीङुष्यविभ्यो नक् (द।उ।5।36) इति, तेनोनशब्दोऽन्तोदात्तः। कार्षस्यापणः कार्षापणः। कार्षापणशब्दः समासस्वरेणान्तोदात्तः। विगतः कलोऽस्येति विकलः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन विकलशब्द आद्युदात्तः। असिकलहः इति। अच इः (द।उ।1।67) इति वर्तमाने खनिकष्यञ्ज्यसि (द।उ।1।68) इत्यादिना सिन्तोदात्तः कल गतौ (धातुपाठः-1865), अस्मात्? पचाद्यच्। कलयतीति कलः, कलं हन्तीति अन्येष्वपि दृस्यते (3.2.101) इति डः। तेन कलहशब्दोऽन्तोदात्तः। अत्र केचित् इत्यादि। तह्र्रर्थ इति स्वरूपग्रहणम्, एवं सत्यूनशब्देऽपि स्वरूपग्रहणं प्रसज्येत्, ततश्च तदर्थानामन्येषां ग्रहणं न स्यात्? इत्यत आह -उनशब्देनैव इत्यादि। ऊनशब्दोऽन्यमतानां विशेषं दर्शयति। अन्ये हि -अर्थग्रहणे नानर्थकानां ग्रहणं भवतीति मन्यन्ते। केचित्तु-ऊनशब्देनैवार्थनिर्देशार्थेनार्थनिर्देशः प्रयोजनं यस्य स तथोक्तः। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं [स्वरूपं ग्रहणम् -इति मुद्रितः पाठः] भवतीत्युक्तम्। इह चोन इत्यर्थप्रधाननिर्देशः। तेनोनशब्दोऽर्थनिर्देशार्थः` इत्याहुः। तस्मात्? तत्रैव तदर्थानां ग्रहणम्। इतिकरणो हेतौ। यस्मादूनशब्देनैवार्थनिर्देशार्थन तदर्थानां ग्रहणम्, तस्मादत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्यार्थः इति। तृतीया तत्कृतार्थेन गुणवचनेन (2.1.30) इति समासः। धने धान्ये (धातुपाठः-1104), अस्माण्ण्यत्। धान्यमन्तस्वरितम्। अथ धाने साधु धान्यम्, प्राग्धिताद्यत् (4.4.75) तेन यतोऽनावः (6.1.213) इति धान्यमाद्युदात्तम्। अत्रार्थशब्दः प्रामादीनाञ्च (फि।सू।2।38) इत्याद्युदात्तः। तृतीयाग्रहणं किमर्थम्? अनूनम्, अकलह इत्यत्र मा भूदिति चेत्? नैतदस्ति;इह हि प्रतिपदोक्तपरिभाषयो(व्या।प।3)नार्थकलहादीनां प्रतिपदोक्तो यः समासः स एव परिगृह्रते। तत्? किमनूमकलह इत्येतन्निवृत्यर्थेन तृतीयाग्रहणेन? इत्यत आह -प्रतिपदोक्तम् इत्यादि। गतार्थम्।
Prakriyasarvasvam¶
तृतीयान्तात्परे ऊनार्था अर्थकलहशब्दौ चान्तोदात्ताः स्युः । पापोनः । पापहीनः । धान्यार्थः । तर्ककलहः ।