62152: सप्तम्याः पुण्यम्

Padacheda: सप्तम्याः | S | 5 | 1 |

पुण्यम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word पुण्य has acute accent (उदात्त) on the final when preceded by a Noun in the Locative -7th case.

Vasu English Translation

The word पुण्य has acute accent (उदात्त) on the final when preceded by a Noun in the Locative -7th case. Thus अध्ययने पुण्यम् = अध्ययनपुण्य꣡म्, वेदपुण्य꣡म् ॥ The compounding takes place by (2.1.40) by the process of splitting the sutra (yoga-vibhaga), taking सप्तमी there as a full sutra, and शौण्डैः another. Here by (6.2.2), the first member would have preserved its accent, the present sutra supersedes that and ordains acute on the final. The word पुण्य is derived by the Unadi affix यत् (Unadi V. 15) and would have retained its natural accent (6.1.213) and thus get acute on the first syllable by krit-accent. (6.2.139). Why do we say ‘a locative case’? Observe वेदेन पुण्यं = वेदपुण्यम् ॥

Kashika

सप्तम्यन्तात् परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यम् अ॒ध्य॒य॒न॒पु॒ण्यम्। वेदे पुण्यं वे॒द॒पु॒ण्यम्। **सप्तमी०**(२.१.४०) इति योगविभागात् समासः। **तत्पुरुषे तुल्यार्थ०**(६.२.२) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते। उणादीनां तु व्युत्पत्तिपक्षे (प०उ० ५.१५) कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति। सप्तम्या इति किम्? वेदेन पुण्यं वे॒दपु॑ण्यम्॥

Siddhanta Kaumudi

अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ॥

Padamanjari

उणादीनां त्विति । अतः कृकमिकंस इत्यत्र कमिग्रहणैनैव सिद्धे कंसग्रहणादुणादिषु एपाक्षिकव्युत्पत्तिकार्यमिति भावः । पूञो यत्, णुक् ह्रस्वश्च, पुण्यम् । ह्रस्वविधानादगुणत्वम् । यतोऽनावः इत्याद्यौदातवम् ॥

Nyaas

अध्यनपुण्यम् इत्यादि। अध्ययनशब्दो ल्युडन्तः कृत्स्वरेण मध्योदात्तः। पुण्यम्? नब्विषयस्य (फि।सू।2।26) इत्याद्युदात्तम्। विद्यतेऽनेऽनेति वेदः, घञ्। तेन वेदशब्दश्चाद्युदात्तः।तत्पुरुषे तुल्यार्थ इत्यादि। एतत्? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि (है।प।पा।103) इत्येवं पक्षमाश्रित्योक्तम्। इदानीं व्युत्पत्तिलक्षणमाश्रित्याह - उणादीनां तु इत्यादि। व्युत्पत्तिपक्षे हि पुण्यशब्दः पुञो यण्णुग्? ह्रस्वश्च (पं।उ।5।15) इति यत्प्रत्ययान्तो व्युत्पाद्यते। तत्र यदीद नारभ्येत तदा गतिकारकोपपदात् कृत् (6.2.139) इति कृत्स्वरेणाद्युदात्तोऽध्ययनमित्यादौ पुण्यशब्दस्य स्यात्। तस्मात्? तदपदादोऽयमन्तोदात्तविषिरित्यभिप्रायः। वेदेन पुण्यं वेदपुण्यम् इति। व्युत्पत्तिपक्षे तृतीया (2.1.30) इति योगविभागात्? समासः। पूर्वपदपरकृतिस्वरत्वञ्च। अव्युत्पत्तिपक्षे कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः, कृत्स्वरेण पुण्यशब्दस्याद्युदात्तत्वं च॥

Prakriyasarvasvam

सप्तम्यन्तात् परं पुण्यमन्तोदात्तं स्यात् । हरिभजने पुण्यं हरिभजनपुण्यम् । ‘तत्पुरुषे तुल्यार्थ-’ (६-२-२) इत्यस्य बाधः ।