62151: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः¶
Padacheda: मन्-क्तिन्-व्याख्यान-शयन-आसन-स्थान-याजकादि-क्रीताः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The words ending in मन् or क्तिन् affixes and the words 1. व्याख्यान 2. शयन 3. आसन 4. स्थान and 5. क्रीत as well as याजक etc. have acute accent (उदात्त) on the final when at the end of a compound preceded by कारक word.
Vasu English Translation¶
The words ending in मन् or क्तिन् affixes and the words 1. व्याख्यान 2. शयन 3. आसन 4. स्थान and 5. क्रीत as well as याजक etc. have acute accent (उदात्त) on the final when at the end of a compound preceded by कारक word. Thus मन् — रथवर्त्म꣡न्, शकटवर्म्म꣡न् ॥ क्तिन् -पाणिनिकृतिः꣡, आपिशालिकृतिः꣡ ॥ व्यख्यान - ऋगयनव्याख्यान꣡म्, छन्दोव्याख्यान꣡म् ॥ शयन -राजशयन꣡म्, ब्राह्मणशयन꣡म् ॥ आसन् - राजासन꣡म्, ब्राह्मणासन꣡म् ॥ स्थान - गोस्थान꣡म्, अश्वस्थान꣡म् ॥ याजकादि words are those which form Genitive compounds under (2.2.9), and those compounds only are to be taken here; as ब्राह्मणयाजकः꣡, क्षत्रिययाजकः꣡, ब्राह्मणपूजकः꣡, क्षत्रियपूजकः꣡ ॥ क्रीत - गोक्रीतः, अश्वक्रीतः ॥ This is an exception to (6.2.139) and in the case of क्रीत, rule (6.2.48) is superseded. The words व्याख्यान &c do not denote here भाव or कर्म, had they done so, rule (6.2.149) would have covered them. When the first member is not a karaka, we have प्रकृतिः and प्रहृतिः ॥
1 याजक, 2 पूजक, 3 परिचारक, 4 परिषेचक परिवेषक, 5 स्नापक स्नातक 6 अध्यापक, 7 उत्साहक (उत्सादक) 8 उद्वर्तक, 9 होतृ, 10 भर्तृ, 11 रथगणक, 12 पत्तिगणक, 13 पोतृ, 14 होतु, 15 वर्तक.
Kashika¶
मन्नन्तं क्तिन्नन्तं व्याख्यान शयन आसन स्थान इत्येतानि याजकादयः क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति। मन् — र॒थ॒व॒र्त्म। श॒क॒ट॒व॒र्त्म। क्तिन् — पा॒ण्िानि॒कृ॒तिः। आ॒पि॒श॒लि॒कृ॒तिः। व्याख्यान — ऋ॒ग॒य॒न॒व्या॒ख्या॒नम्। छ॒न्दो॒व्या॒ख्या॒नम्। शयन — रा॒ज॒श॒य॒नम्। ब्रा॒ह्म्ाण्ाश्ाय॒नम्। आसन — रा॒जा॒स॒नम्। ब्॒राह्म्ाणा॒स॒नम्। स्थान — गो॒स्था॒नम्। अ॒श्व॒स्था॒नम्। याजकादि — ब्रा॒ह्म्ाण॒या॒ज॒कः। क्षत्रि॒॒य॒या॒ज॒कः। ब्॒राह्म्ाण्ापू॒ज॒कः। क्ष॒त्र्िाय॒पू॒ज॒कः। याजकादयो ये **याजकादिभिश्च**(२.२.९) इति षष्ठीसमासार्थाः पठ्यन्ते, त एवेह गृह्यन्ते। क्रीत — गो॒क्री॒तः। अ॒श्व॒क्री॒तः। कृत्स्वरापवादोऽयं योगः। क्रीतशब्दे तु **तृतीया कर्मणि**(६.२.४८) इत्यस्यापवादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम्। कारकादित्येव — प्रकृ॑तिः। प्रहृ॑तिः॥
Siddhanta Kaumudi¶
कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-(SK3784) इति स्वरः ॥
Padamanjari¶
रथवर्त्मेति । वृतेरधिकरणे मनिन्, कर्तरि षष्ठ।ल समासः । पाणिनिकृतिरिति । कर्मणि क्तिन्, पूर्ववत्समासः । व्याख्यानशब्दः करणसाधनः, शयनासनस्थानशब्दा अधिकरणसाधनाः। प्रकृतिः, प्रहृतिरिति । तादौ च निति कृत्यतौ इति पूर्वपदप्रकृतिस्वर एवात्र भवति ॥
Nyaas¶
मन्क्तिन्निति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदवतस्य ग्रहणं विज्ञायते, इत्याह -मन्नन्तं क्तिन्नन्तञ्च इति। रथवत्र्मेत्यादयः षष्ठीसमासाः। रथशब्दः क्थन्प्रत्ययान्त आद्युदात्त इत्युक्तम्। वृतु वर्तने (धातुपाठः-748) इत्यस्मान्मनिन्। तेन वत्र्मशब्द आद्युदात्तः। शकटशब्दः पयःशब्दश्च नित्त्वादाद्युदात्तः। पाणिन्यापिशलिशब्दाविञन्तत्वात्। कृतिशब्दोऽपि क्तिन्नन्तत्वात्। करणसाधनश्चायं व्याख्यानशब्दो ल्युङन्तः। कृत्स्वरेण मध्योदात्तः। छन्दःशब्दः सर्वधातुब्योऽसुन् (पं।उ।4।188) [असन् इत्येव सूत्रम् -द।उ।] इति प्रत्ययग्रहणम्। तत्र कृते चन्देरादेश्च च्छः (पं उ।4।218) इत्यसुन्प्रत्ययान्तत्वादाद्युदात्तः। अयन्त्यनेनेत्ययनम्, ऋचामयनम्। ऋचामिति कर्णि षष्ठी। ऋगयनशब्दः कृत्स्वरेण मद्योदात्तः। राजशयनम् इत्यादि। सेरतेऽस्मिन्निति शयनम्, आसतेऽस्मिन्नित्यासनम्? ताभ्यां राजब्राआहृणशब्दयोः षष्ठीसमासः। राजब्राआहृणशब्दाबुक्तस्वरौ। शयनासनशब्दौ लित्स्वरेणाद्युदात्तौ। अत्र कृद्योगलक्षणा पूर्ववदेव कर्तरि षष्ठी। एवं गोस्थानमआस्थानम् इत्यत्रापि। गवाआशब्दावुक्तस्वरौ। तिष्ठत्यस्मिन्निति स्थानम्, लित्स्वरेणाद्युदात्तम्। ब्राआहृणयाज्यः इत्यादौ कृद्योगलक्षणा कर्मणि षष्ठी। याजकादिषु ये ण्वुलन्ताः पठन्ते, तेषु येऽनुपसर्गाः -याजकपूजकस्नापका इति, त आद्युदात्तः। ये तु सोपसर्गाः -परिवेषकाध्यापकोद्वर्तकोत्सादका इति, ते कृत्स्वरेण मध्योदात्ताः। होतभर्तृशब्दो तृन्नन्तौ प्रयोजयतः। यौ तु तृजन्तौ तयोः कृत्स्वरेणान्तोदात्त्वं सिद्धम्। गोक्रीतः, अआक्रीतः इत्यादि। कर्तृकरणे कृता (2.1.31) इति समासावेतौ। क्रीतशब्दः प्रत्ययस्वरेणान्तोदात्तः। `कृत्स्वरापवादो योगः इति। क्रीतशब्दादन्येषु मन्क्तितन्व्याख्यानादिषु। क्रीतशब्दे तु तृतीया कर्मण (6.2.48) इत्यस्येति पूर्वपदप्रकृतिस्वरस्य। व्याख्यानशयनासनस्थानानामभावकर्मार्थ ग्रहणम् इति। भावकर्मवचनस्यानन्तस्य अनो भावकर्मवचनः (6.2.150) इत्यनेनैव सिद्धत्वात्। प्रकृतिः, प्रह्मतिः इति। अत्र तुल्यार्थ (6.2.2) इत्यादिना पूरवपदस्य प्रकृतिस्वरत्वमेव भवति। गतिसमासावेतौ॥
Prakriyasarvasvam¶
मन्क्तिन्नन्तं व्याख्यानादि शब्दाः याजकादयः क्रीतशब्दश्च परपदमन्तोदात्तं स्यात् । गोवतर्मं । हरिभक्तिः । हरिकथाव्याख्यानम् । हरिशयनम् । कृष्णासनम् । हरिस्थानम् । द्विजयाजकः । हरिपूजकः इत्यादिकृत्स्वरस्यापवादः गोक्रीतः । ‘तृतीयाकर्मणि—’ (६–२–४८) इत्यस्य ।