62147: प्रवृद्धादीनां च¶
Padacheda: प्रवृद्धादीनाम् | S | 6 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word प्रवृद्ध etc. ending in क्त have acute accent (उदात्त) on the final.
Vasu English Translation¶
The word प्रवृद्ध etc. ending in क्त have acute accent (उदात्त) on the final. Thus प्रवृद्धं꣡ यानम्, प्रवृद्धो꣡ वृषलः, प्रयुक्ताः꣡ सक्तवः, आकर्षेऽवहितः꣡, अवहितो꣡ भोगेषु, खट्वारूढः꣡, कविशस्तः꣡ ॥ It is an Akritigana. The words have acute on the final, even when not followed by यान &c, though in the Ganapatha they are read along with these words. Some hold it is only in connection with यान &c that these words have acute on the final. This being an Akritigana we have पुनरुत्स्यूतं वासोदेयं, पुनर्निष्कृतो रथः &c.
1 प्रवृद्धं यानम्, 2 प्रवृद्धो वृषलः, 3 प्रयुतासूष्णवः or प्रयुक्ताः सक्तवः 4 आकर्षेऽवहितः, 5 अवहितो भोगेषु, 6 खट्वारूढः 7 कविशस्तः, आकृतिगणः
Kashika¶
प्रवृद्धादीनां च क्त ान्तमुत्तरपदमन्तोदात्तं भवति। प्॒रवृ॒द्धं यानम्। प्॒रवृ॒द्धो वृषलः। प्॒रयु॒क्ताः सक्त वः। आकर्षे अ॒व॒हि॒तः। अ॒व॒हि॒तो भोगेषु। ख॒ट्वा॒रू॒ढः। क॒वि॒श॒स्तः (तै०सं० २.५.९.२)। यानादीनामत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः। यानादिभ्योऽन्यत्रापि तेषामन्तोदात्तत्वं भवत्येव। विषयनियमार्थ एवेत्येके। असंज्ञार्थोऽयमारम्भः। आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः। तेन पुनरुत्स्यू॒तं॑ वा॑सो॒ दे॑य॒म् (मै०सं० १.७.२), पु॒न॒र्नि॒ष्कृ॒तो रथः॒ (तै०सं० १.५.२.४) इत्येवमादि सिद्धं भवति॥
Siddhanta Kaumudi¶
एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥
Padamanjari¶
वृधु वृद्धौ यु मिश्रणे डुधाञ् धारणे रुह बीजजन्मनि शसु हिंसायाम् । खट्वारुढ इति । खट्वा क्षेपे इति समासः । नैतदिह पठितव्यमिति अहीने द्वितीया तैत्यत्रावोचाम । कविभिः शस्तः, तृतीय कर्मणि तैत्यस्यापवादः । प्रायोवृत्तिप्रदर्शनार्थ इति । प्रायो बाहुल्येन या वृत्तिर्यानादिष्वर्थेषु तस्याः प्रदर्शनार्थ इत्यर्थः । पुनरुत्स्यूतमिति । सीव्यतेः च्छवोः शूडनुनासिके इति ऊठ, पनश्चनसोश्च्छन्दसि इति गतिसंज्ञायां समासः ॥
Nyaas¶
गतिस्वरे प्राप्त इदं वचनम्। प्रवृद्धम् इति वृधु वृद्धौ (धातुपाठः-759) प्रयुता [प्रयुंक्ताः -काशिका] इति। युमिश्रणे (धातुपाठः-1033) -अवहितम् इति। पूर्ववद्दधातेर्हिरादेशः। खट्वारूढः इति। रुह बीजजन्मनि (धातुपाठः-859), झषस्ततोर्धोऽधः (8.2.40) , ढो ढे लोपः (8.3.13) ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) , खट्वा क्षेपे (2.1.26) इति समासः। असय अहीने द्वितीया (6.2.47) इति पूर्वपदप्रकृतिस्वरे प्राप्त इह पाठः। कविशस्तः इति। शसु हिंसायाम् (धातुपाठः-727), कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। अस्यापि तृतीया कर्मणि (6.2.48) इति पूर्वपदप्रकृतिस्वर एव। यानादीनाम् इति। आदिशब्देन वृषादीनां ग्रहणम्। यानादीनामर्थानां य इह पाठः, स प्रवृद्धादीनांयानादिष्वर्तेषु प्रायो बाहुल्येन या वृत्तिस्तस्याः प्रदर्शनार्थम्। न तु प्रवृद्धस्य यानवृषलयोरवार्थयोरन्तोदात्तत्वं भवति। प्रयुक्तशब्दस्य सक्तुष्वेवतीत्येवमादिषु विषयियमार्थः। तेन किं भविष्यति? इत्याह -यानादिभ्योऽन्यत्रापि इत्यादि। विषयनियमार्थ इत्येके इति। तेषामनेन यानादिभ्योऽन्यत्र न भवितव्यम्। असंज्ञार्थोऽयमारम्भः इति। संज्ञायां पूर्वेणैव सिद्धत्वात्। आकृतिगणश्च प्रवृद्धादिद्र्रष्टव्यः इति। कुत एत्? अकृतिगणतां तस्य सूचयितुमनुक्तसमुच्चयार्थस्य चकारस्येह करणात्; आकृतिगणत्वे यत्? सिद्धं भवति, तद्दर्शयितुमाह -पुनरुत्स्यूतं वासः इत्यादि। षिवु तन्तुसन्ताने (धातुपाठः-1108) चछ्वोः शूडनुनासिके च (6.4.19) इत्यूठ्, यणादेशः। पुनर्निष्कृतः इति। इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति विसर्जनीयस्य षत्वम्॥
Prakriyasarvasvam¶
क्तान्तं परपदमन्तोदात्तं स्यात् । प्रवृद्धस्य यानवृषलयोः, प्रयुक्तस्य सक्तुषु, अवहितस्य भोगाकर्षयोः । एषामेष्वर्थेष्वेव । प्रवृद्धं पानमित्यादि । ‘खट्वारूढक- विशस्तपुनरुत्स्यूतपुनर्निष्कृतानां च’ (स. ८-४-१६८) । कविशस्तो बृहता भानुनाश्वः ।