62144: थाथघञ्क्ताजबित्रकाणाम् ============================= **Padacheda:** थ-अथ-घञ्-क्त-अचपित्र-काणाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The last syllable of the second member has the acute accent (उदात्त) in the verbal nouns ending in 1. थ 2. अथ 3. घञ् 4. क्त 5. अच् 6. अप् 7. इत्र and 8. क when preceded by a गति , a कारक or an उपपद -- गतिकारकोपपदात् कृत् (6.2.139) Vasu English Translation ------------------------ The last syllable of the second member has the acute accent (उदात्त) in the verbal nouns ending in 1. थ 2. अथ 3. घञ् 4. क्त 5. अच् 6. अप् 7. इत्र and 8. क when preceded by a गति , a कारक or an उपपद -- गतिकारकोपपदात् कृत् (6.2.139) Thus, सुनीथः꣡, अवभृथः꣡ formed by क्थन् affix (*Unadi* II.2 and 3), and but for this *sutra*, by (6.2.139) these words would have retained their original accent which was acute on the first. अथः - आवसथः꣡, उपवसथः꣡ formed by अथन् affix (*Unadi* III.116). घञ् - प्रभेदः꣡, काष्ठभेदः꣡, रज्जुभेदः꣡ ॥ क्तः -दूरादागतः꣡, Here क्त has the force of कर्म, and the *gati* आ would retain its accent (6.2.49) therefore, आगत is first acute: this accent would have been retained when compounded with the *karaka* word *dura*, but for this *sutra*. विशुष्कः꣡ आतपशुष्कः꣡ ॥ अच् (3.3.56) :- प्रक्षयः꣡, प्रजयः꣡, the words क्षय 'dwelling', and जय 'victory' are acute otherwise on the first (6.1.201), (6.1.202). अप् - प्रलवः꣡, प्रसवः꣡ ॥ इत्र - प्रलवित्र꣡म्, प्रसवित्र꣡म् ॥ क — खरीवृषः꣡ गोवृषः꣡ = गां वर्षति, खरीं वर्षति (III.2.5 *Vartika*): प्रवृषः꣡, प्रहृषः꣡, (क being added by (3.1.135)). The word वृष has acute on the first as it belongs to वृषादि class (6.1.203). When the preceding words are not *Gati*, *Karaka* or *Upapada*, this rule does not apply : as सुस्तुतं भवता, अतिस्तुतं भवता, where सु and अति being *Karmapravachaniya*, the words get the accent of the Indeclinable. Kashika ------- थ अथ घञ् क्त अज् अप् इत्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात् परेषामन्त उदात्तो भवति। सु॒नी॒थः। अ॒व॒भृ॒थः(तै०सं० १.७.५.३)। **हनिकुषिनीरमिकाशिभ्यः क्थन्** (प०उ० २.२) इति **अवे भृञः** (प०उ० २.३) इति च क्थन्प्रत्ययान्तावेतौ। तत्र कुदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्। अथ — आ॒व॒स॒थः (शौ०सं० ९.६.७)। उ॒प॒व॒स॒थः। **उपसर्गे वसेः** (प०उ० ३.११६) इत्यथन्प्रत्ययः। घञ् — प्॒रभे॒दः। का॒ष्ठ॒भे॒दः। र॒ज्जु॒भे॒दः। क्त — दू॒रा॒दा॒ग॒तः। वि॒शु॒ष्कः। आ॒त॒प॒श्ाुष्कः। अच् — प्र॒क्ष॒यः। प्॒रज॒यः। **क्षयो निवासे** (६.१.२०१) **जयः करणम्** (६.१.२०२) इति चाद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् — प्र॒ल॒वः(तै० आ० ५.४.५)। प्र॒स॒वः (तै०सं० १.७.८.३)। इत्र — प्॒रल॒वि॒त्रम्। प्॒रस॒वि॒त्रम्। क — गो॒वृ॒षः। ख॒री॒वृ॒षः। गां वर्षति, खरीं वर्षतीति मूलविभुजादित्वात् (३.२.५ वा०) कप्रत्ययः। प्र॒वृ॒षः। प्॒रहृ॒षः। इगुपधात् (३.१.१३५) इति कप्रत्ययः। **वृषादीनां च** (६.१.२०३) इति वृषशब्द आद्युदात्तः। गतिकारकोपपदादित्येव — सुस्तु॑तं भवता। कर्मप्रवचनीयेऽव्ययस्वर एव भवति॥ Siddhanta Kaumudi ----------------- थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥ Padamanjari ----------- आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धमत आह - क्षयो निवास इत्यादि । प्रलवः प्रसव इत्यादि । आञ्दोरप् । प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे चेति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥ Nyaas ----- `अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्` इति। यदीदं नारभ्येतेति भावः। `उपसर्गे वसेः इत्यथप्रत्ययः` इति। तत्र `शीङ्शपिरुगमिवञ्चि` (द।उ।6।38) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्। `दूरादागतः` इति। गमेः क्तः, `अनुदात्तोपदेश` (6.4.37) इत्यादिनाऽनुनासिकलोपः, आगतशब्देन **स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन** (2.1.39) इत्यादिना समासः, **पञ्चम्याः स्तोकादिभ्यः** (6.3.2) इत्यलुक्। `शुष्कः` [विशुष्कः -काशिका, पदमञ्जरी च] इति। **शुषः कः** (8.2.51) इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र **गतिरनन्तरः** (6.2.49) इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। `आतपशुष्कम्` [आतपशुष्कः -काशिका, पदमञ्जरी च] इति। **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। अत्र `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात्? कृत्स्वरेणान्तोदात्तः। `प्रक्षयः, प्रजयः` इति। `एरच्` (3.3.56) ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह -`क्षयो निवासे` इत्यादि। यदा **क्षयो निवासे** (6.1.201) **जयः करणम्** (6.1.202) इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्। `प्रलवित्रम्, प्रसवित्रम्` इति। `अर्तिलूधूसूखन` (3.2.184) इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्। तेनोत्तरपदं मध्योदात्तं स्यात्। `गोवृषः` इति। `पृषु वृषु मृषु सेचने` (धातुपाठः-705,706,707), अत्र **उपपदमतिङ्** (2.2.19) इति समासः **गतिकारकोपपदात् कृत्** (6.2.139) इत्युत्तरपदाद्युदात्तत्वं स्यात्। `सुस्तुतम्` इति। **सुः पूजायाम्** (1.4.94) , **अतिरतिक्रमणे च** (1.4.95) इति स्वती कर्मप्रवचनीयसंज्ञौ। `अत्राव्ययस्वर एव भवति` इति। `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना॥ Prakriyasarvasvam ----------------- गतिकारकोपपदात् परेषां थाद्यन्तानामन्त उदात्तः स्यात् । सुनीथो घासः । 'हनि कुषि—' (उ. सू.) इत्यादि कथन् । आवसथः । 'उपसर्गे वसेः' (उ. सू.) इत्यर्थः । प्रभेदः । विशुष्कः । अच् — प्रक्षयः । प्रचयः । 'क्षयो निवासे' (६-१-२०१) 'जयः करणम्' (६–१–२०२) इत्यनयोरेव बाधः । अप् — प्रलवः । इत्र — प्रलवि१त्रम् । (क —) प्रवृपः । 'वृषादीनाम्—' (६-१-२०३) इत्याद्युदात्ते प्राप्त उक्तिः ।